आदिपर्व
अध्यायः २९
सौतिरुवाच।
तस्य कण्ठमनुप्राप्तो ब्राह्मणः सह भार्यया।
दहन्दीप्त इवाङ्गारस्तमुवाचान्तरिक्षगः।।
द्विजोत्तम विनिर्गच्छ तूर्णमास्यादपावृतात्।
न हि मे ब्राह्मणो वध्यः पापेष्वपि रतः सदा।।
सौतिरुवाच।
ब्रुवाणमेवं गरुडं ब्राह्मणः प्रत्यभाषत।
निषादी मम भार्येयं निर्गच्छतु मया सह।।
गरुड उवाच।
एतामपि निषादीं त्वं परिगृह्याशु निष्पत।
तूर्णं संभावयात्मानमजीर्णं मम तेजसा।।
सौतिरुवाच।
ततः स विप्रो निष्क्रान्तो निषादीसहितस्तदा।
वर्धयित्वा च गरुडमिष्टं देशं जगाम ह।।
सहभार्ये विनिष्क्रान्ते तस्मिन्विप्रे स पक्षिराट्।
वितत्य पक्षावाकाशमुत्पपात मनोजवः।।
ततोऽपश्यत्स्वपितरं पृष्टश्चाख्यातवान्पितुः।
यथान्यायममेयात्मा तं चोवाच महानृषिः।।
कश्यप उवाच।
कच्चिद्वः कुशलं नित्यं भोजने बहुलं सुत।
कच्चिच्च मानुषे लोके तवान्नं विद्यते बहु।।
`क्व गन्तास्यतिवेगेन मम त्वं वक्तुमर्हसि।।'
गरुड उवाच।
माता मे कुशला शश्वत्तथा भ्राता तथा ह्यहम्।
न हि मे कुशलं तात भोजने बहुले सदा।।
अहं हि सर्पैः प्रहितः सोममाहर्तुमुत्तमम्।
महातुर्दास्यविमोक्षार्थमाहरिष्ये तमद्य वै।।
मात्रा चात्र समादिष्टो निषादान्भक्षयेति ह।
न च मे तृप्तिरभवद्भक्षयित्वा सहस्रशः।।
तस्माद्भक्ष्यं त्वमपरं भगवन्प्रदिशस्व मे।
यद्भुक्त्वाऽमृतमाहर्तुं समर्तः स्यामहं प्रभो।।
क्षुत्पिपासाविघातार्थं भक्ष्यमाख्यातु मे भवान्।
कश्यप उवाच।
इदं सरो महापुण्यं देवलोकेऽपि विश्रुतम्।।
यत्र कूर्माग्रजं हस्ती सदा कर्षत्यवाङ्मुखः।
तयोर्जन्मान्तरे वैरं संप्रवक्ष्याम्यसोषतः।।
तन्मे तत्त्वं निबोधस्य यत्प्रमाणौ च तावुभौ।
`शृणु त्वं वत्स भद्रं ते कथां वैराग्यवर्धिनीम्।।
पित्रोरर्थविभागे वै समुत्पन्नां पुराण्डज।'
आसीद्विभावसुर्नाम महर्षिः कोपनो भृशम्।।
भ्राता तस्यानुजश्चासीत्सुप्रतीको महातपाः।
स नेच्छति धनं भ्रात्रा सहैकस्थं महामुनिः।।
विभागं कीर्तयत्येव सुप्रतीको हि नित्यशः।
अथाब्रवीच्च तं भ्राता सुप्रतीकं विभावसुः।।
`विभागे बहवो दोषा भविष्यन्ति महातपः।'
विभागं बहवो मोहात्कर्तुमिच्छन्ति नित्यशः।
ततो विभक्तास्त्वन्योन्यं नाद्रियन्तेऽर्थमोहिताः।।
ततः स्वार्थपरान्मूढान्पृथग्भूतान्स्वकैर्धनैः।
विदित्वा भेदयन्त्येतानमित्रा मित्ररूपिणः।।
विदित्वा चापरे भिन्नानन्तरेषु पतन्त्यथ।
भिन्नानामतुलो नाशः क्षिप्रमेव प्रवर्तते।।
तस्माद्विभागं भ्रातॄणां न प्रशंसन्ति साधवः।
`एवमुक्तः सुप्रतीको भागं कीर्तयतेऽनिशम्।।
एवं निर्बध्यमानस्तु शशापैनं विभावसुः।'
गुरुशास्त्रेऽनिबद्धानामन्योन्येनाभिशङ्किनाम्।।
नियन्तु न हि शक्यस्त्वं भेदतो धनमिच्छसि।
यस्मात्तस्मात्सुप्रतीक हस्तित्वं समवाप्स्यसि।।
कश्यप उवाच।
शप्तस्त्वेवं सुप्रतीको विभावसुमथाब्रवीत्।
त्वमप्यन्तर्जलचरः कच्छपः संभविष्यसि।।
एवमन्योन्यशापात्तौ सुप्रतीकविभावसू।
गजकच्छपतां प्राप्तावर्थार्थं मूढचेतसौ।।
रोषदोषानुषङ्गेण तिर्यग्योनिगतावपि।
परस्परद्वेषरतौ प्रमाणबलदर्पितौ।।
सरस्यस्मिन्महाकायौ पूर्ववैरानुसारिणौ।
तयोरन्यतरः श्रीमान्समुपैति महागजः।।
यस्य बृंहितशब्देन कूर्मोऽप्यन्तर्जलेशयः।
उत्थितोऽसौ महाकायः कृत्स्नं विक्षोभयन्सरः।।
तं दृष्ट्वाऽऽवेष्टितकरः पतत्येष गजो जलम्।
दन्तहस्ताग्रलाङ्गूलपादवेगेन वीर्यवान्।।
विक्षोभयंस्ततो नागः सरो बहुझषाकुलम्।
कूर्मोऽप्यभ्युद्यतशिरा युद्धायाभ्येति वीर्यवान्।।
षडुच्छ्रितो योजनानि गजस्तद्द्विगुणायतः।
कूर्मस्त्रियोजनोत्सेधो दशयोजनमण्डलः।।
तावुभौ युद्धसंमत्तौ परस्परवधैषिणौ।
उपयुज्याशु कर्मेदं साधये हितमात्मनः।।
महाभ्रघनसंकाशं तं भुक्त्वामृतमानय।
महागिरिसमप्रख्यं घोररूपं च हस्तिनम्।।
सौतिरुवाच।
इत्युक्त्वा गरुडं सोऽथ माङ्गल्यमकरोत्तदा।
युध्यतः सह देवैस्ते युद्धे भवतु मङ्गलम्।।
पूर्णकुम्भो द्विजा गावो यच्चान्यत्किंचिदुत्तमम्।
शुभं स्वस्त्ययनं चापि भविष्यति तवाण्डजा।।
युध्यमानस्य सङ्ग्रामे देवैः सार्धं महाबल।
ऋचो यजूंषि सामानि पवित्राणि हवींषि च।।
रहस्यानि च सर्वाणि सर्वे वेदाश्च ते बलम्।
`वर्धयिष्यन्ति समरे भविष्यति खगोत्तम।'
इत्युक्तो गरुडः पित्रा गतस्तं ह्वदमन्तिकात्।।
अपश्यन्निर्मलजलं नानापक्षिसमाकुलम्।
स तत्स्मृत्वा पितुर्वाक्यं भीमवेगोऽन्तरिक्षगः।।
नखेन गजमेकेन कूर्ममेकेन चाक्षिपत्।
सधुत्पपात चाकाशं तत उच्चैर्विहङ्गमः।।
सोऽलम्बं तीर्थणासाद्य देववृक्षानुपागमत्।
ते भीताः समकम्पन्त तस्य पक्षानिलाहताः।।
न नो भञ्ज्यादिति तदा दिव्याः कनकशाखिनः।
प्रचलाङ्गान्स तान्दृष्ट्वा मनोरथफलद्रुमान्।।
अन्यानतुलरूपाङ्गानुपचक्राम खेचरः।
काञ्चनै राजतैश्चैव फलैर्वैदूर्यशाखिनः।
सागराम्बुपरिक्षिप्तान्भ्राजमानान्महाद्रुमान्।।
`तेषां मध्ये महानासीत्पादपः सुमनोहरः।
सहस्रयोजनोत्सेधो बहुशाखासमन्वितः।।
खगानामालयो दिव्यो नाम्ना रौहिणपादपः।
यस्य छायां समाश्रित्य सद्यो भवति निर्वृतः;।।
तमुवाच खगश्रेष्ठं तत्र रौहिणपादपः।
अतिप्रवृद्धः समुहानापतन्तं मनोजवम्।।
रौहिण उवाच।
यैषा मम महाशाखा शतयोजनमायता।
एतामास्थाय शाखां त्वं खादेमौ गजकच्छपौ।।
सौतिरुवाच।
ततो द्रुमं पतगसहस्रसेवितं
महीधरप्रतिमवपुः प्रकम्पयन्।
खगोत्तमो द्रुतमभिपत्य वेगवा-
न्बभञ्ज तामविरलपत्रसंचयाम्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि एकोनत्रिंशोऽध्यायः।। 29 ।।