आदिपर्व

अध्यायः २८

Adi Parva (Sanskrit) · Adhyaya 28
अक्षर का आकार

सौतिरुवाच।

इत्युक्तो गरुडः सर्पैस्ततो मातरमब्रवीत्।
गच्छाम्यमृतमाहर्तुं भक्ष्यमिच्छामि वेदितुम्।।

विनतोवाच।

समुद्रकुक्षावेकान्ते निषादालयमुत्तमम्।
`भवनानि निषादानां तत्र सन्ति द्विजोत्तम।।

पापिनां नष्टलोकानां निर्घृणानां दुरात्मनाम्'।
निषादानां सहस्राणि तान्भुक्त्वाऽमृतमानय।।

न च ते ब्राह्मणं हन्तुं कार्या बुद्धिः कथंचन।
अवध्यः सर्वभूतानां ब्राह्मणो ह्यनलोपमः।।

अग्निरर्को विषं शस्त्रं विप्रो भवति कोपितः।
गुरुर्हि सर्वभूतानां ब्राह्मणः परिकीर्तितः।।

एवमादिस्वरूपैस्तु सतां वै ब्राह्मणो मतः।
स ते तात न हन्तव्यः संक्रुद्धेनापि सर्वथा।।

ब्राह्मणानामभिद्रोहो न कर्तव्यः कथंचन।
न ह्येवमग्निर्नादित्यो भस्म कुर्यात्तथानघ।।

यथा कुर्यादभिक्रुद्धो ब्राह्मणः संशितव्रतः।
तदेतैर्विविधैर्लिङ्गैस्त्वं विद्यास्तं द्विजोत्तमम्।।

भूतानामग्रभूर्विप्रो वर्णश्रेष्ठः पिता गुरुः।

गरुड उवाच।

किंरूपो ब्राह्मणो मातः किंशीलः किंपराक्रमः।।

किंस्विदग्निनिभो भाति किंस्वित्सौम्यप्रदर्शनः।
यथाहमभिजानीयां ब्राह्मणं लक्षणैः शुभैः।।

तन्मे कारणतो मातः पृच्छतो वक्तुमर्हसि।

विनतोवाच।

यस्ते कण्ठमनुप्राप्तो निगीर्णं बडिशं यथा।।

दहेदङ्गारवत्पुत्रं तं विद्याद्ब्राह्मणर्षभम्।
विप्रस्त्वया न हन्तव्यः संक्रुद्धेनापि सर्वदा।।

प्रोवाच चैन विनता पुत्रहार्दादिदं वचः।
जठरे न च जीर्येद्यस्तं जानीहि द्विजोत्तमम्।।

पुनः प्रोवाच विनता पुत्रहार्दादिदं वचः।
जानन्त्यप्यतुलं वीर्यमाशीर्वादपरायणा।।

प्रीता परमदुःखार्ता नागैर्विप्रकृता सती।

विनतोवाच।

पक्षौ ते मारुतः पातु चन्द्रसूर्यौ च पृष्ठतः।।

शिरश्च पातु वह्निस्ते वसवः सर्वतस्तनुम्।
`विष्णुः सर्वगतः सर्वमह्गानि तव चैव ह।'
अहं च ते सदा पुत्र शान्तिस्वस्तिपरायणा।।

इहासीना भविष्यामि स्वस्तिकारे रता सदा।
अरिष्टं व्रज पन्थानं पुत्र कार्यार्थसिद्धये।।

सौतिरुवाच।

ततः स मातुर्वचनं निशम्य
वितत्य पक्षौ नभ उत्पपात।
ततो निषादान्बलवानुपागतो
बुभुक्षितः काल इवान्तकोऽपरः।।

स तान्निषादानुपसंहरंस्तदा
रजः समुद्धूय नभःस्पृशं महत्।
समुद्रकुक्षौ च विशोषयन्पयः
समीपजान्भूधरजान्विचालयन्।।

ततः स चक्रे महदाननं तदा
निषादमार्गं प्रतिरुध्य पक्षिराट्।
ततो निषादास्त्वरिताः प्रवव्रजु-
र्यतो मुखं तस्य भुजंगभोजिनः।।

तदाननं विवृतमतिप्रमाणव-
त्समभ्ययुर्गगनमिवार्दिताः खगाः।
सहस्रशः पवनजोविमोहिता
यथा।ञनिलप्रचलितपादपे वने।।

ततः खगो वदनममित्रतापनः
समाहरत्परिचपलो मत्बलाः।
निषूदयन्बहुविधमत्स्यजीविनो
बभुक्षितो गगनचरेश्वरस्तदा।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि अष्टाविंशोऽध्यायः।। 28 ।।