आदिपर्व

अध्यायः २५०

Adi Parva (Sanskrit) · Adhyaya 250
अक्षर का आकार

वैशंपायन उवाच।

स तु नैराश्यमापन्नः सदा ग्लानिसमन्वितः।
पितामहमुपागच्छत्संक्रुद्धो हव्यवाहनः।।

तच्च सर्वं यथान्यायं ब्रह्मणे संन्यवेदयत्।
उवाच चैवनं भगवान्मुहूर्तं स विचिन्त्य तु।।

उपायः परिदृष्टो मे यथा त्वं धक्ष्यसेऽनघ।
कालं च कंचित्क्षमतां ततस्तद्धक्ष्यते भवान्।।

भविष्यतः सहायौ ते नरनारायणौ तदा।
ताभ्यां त्वं सहितो दावं धक्ष्यसे हव्यवाहन।।

एवमस्त्विति तं वह्निर्ब्रह्माणं प्रत्यभाषत।
संभूतौ तौ विदित्वा तु नरनारायणावृषी।।

कालस्य महतो राजंस्तस्य वाक्यं स्वयंभुवः।
अनुस्मृत्य जगामाथ पुनरेव पितामहम्।।

अब्रवीच्च तदा ब्रह्मा यथा त्वं धक्ष्यसेऽनल।
खाण्डवं दावमद्यैव मिषतोऽस्य शचीपतेः।।

नरनारायणौ यौ तौ पूर्वदेवौ विभावसो।
संप्राप्तौ मानुषे लोके कार्यार्थं हि दिवौकसाम्।।

अर्जुनं वासुदेवं च यौ तौ लोकोऽभिमन्यते।
तावेतौ सहितावेहि खाण्डवस्य समीपतः।।

तौ त्वं याचस्व साहाय्ये दाहार्थं खाण्डवस्य च।
ततो धक्ष्यसि तं दावं रक्षितं त्रिदशैरपि।।

तौ तु सत्वानि सर्वाणि यत्नतो वारयिष्यतः।
देवराजं च सहितौ तत्र मे नास्ति संशयः।।

एतच्छ्रुत्वा तु वचनं त्वरितो हव्यवाहनः।
कृष्णपार्थावुपागम्य यमर्थं त्वभ्यभाषत।।

तं ते कथितवानस्मि पूर्वमेव नृपोत्तम।
तच्छ्रुत्वा वचनं त्वग्नेर्बीभत्सुर्जातवेदसम्।।

अब्रवीन्नृपशार्दूल तत्कालसदृशं वचः।
दिधक्षुं खाण्डवं दावमकामस्य शतक्रतोः।।

अर्जुन उवाच।

उत्तमास्त्राणि मे सन्ति दिव्यानि च बहूनि च।
यैरहं शक्नुयां योद्धुमपि वज्रधरान्बहून्।।

धनुर्मे नास्ति भगवन्बाहुवीर्येण संमितम्।
कुर्वतः समरे यत्नं वेगं यद्विषहेन्मम।।

शरैश्च मेऽर्थो बहुभिरक्षयैः क्षिप्रमस्यतः।
न हि वोढुं रथः शक्तः शरान्मम यथेप्सितान्।।

अश्वांश्च दिव्यानिच्छेयं पाण्डुरान्वातरंहसः।
रथं च मेघनिर्घोषं सूर्यप्रतिमतेजसम्।।

तथा कृष्णस्य वीर्येण नायुधं विद्यते समम्।
येन नागान्पिशाचांश्च निहन्यान्माधवो रणे।।

उपायं कर्मसिद्धौ च भघवन्वक्तुमर्हसि।
निवारयेयं येनेन्द्रं वर्षमाणं महावने।।

पौरुषेण तु यत्कार्यं तत्कर्ताऽहं स्म पावक।
करणानि समर्थानि भगवन्दातुमर्हसि।।

।। इति श्रीमन्महाभारते आदिपर्वणि
खाण्डवदाहपर्वणि
पञ्चाशदधिकद्विशततमोऽध्यायः।। 250 ।।