आदिपर्व

अध्यायः २४९

Adi Parva (Sanskrit) · Adhyaya 249
अक्षर का आकार

वैशंपायन उवाच।

सोऽब्रवीदर्जुनं चैव वासुदेवं च सात्वतम्।
लोकप्रवीरौ तिष्ठन्तौ काण्डवस्य समीपतः।।

ब्राह्मणो बहुभोक्ताऽस्मि बुञ्जेऽपरिमितं सदा।
भिक्षे वार्ष्णेयपार्थौ वामेकां तृप्तिं प्रयच्छतम्।।

एवमुक्तो तमब्रूतां ततस्तौ कृष्णपाण्डवौ।
केनान्नेन भवांस्तृप्येत्तस्यान्नस्य यतावहे।।

एवमुक्तः स भगवानब्रवीत्तावुभौ ततः।
भाषमाणौ तदा वीरौ किमन्नं क्रियतामिति।।

ब्राह्मण उवाच।

नाहमन्नं बुभुक्षे वै पावकं मां निबोधतम्।
यदन्नमनुरूपं मे तद्युवां संप्रयच्छतम्।।

इदमिन्द्रः सदा दावं खाण्डवं परिरक्षति।
न च शक्नोम्यहं दग्धुं रक्ष्यमाणं महात्मना।।

वसत्यत्र सखा तस्य तक्षकः पन्नगः सदा।
सगणस्तत्कृते दावं परिरक्षति वज्रभृत्।।

तत्र भूतान्यनेकानि रक्ष्यन्तेऽस्य प्रसङ्गतः।
तं दिधक्षुर्न शक्नोमि दग्धुं शक्रस्य तेजसा।।

स मां प्रज्वलितं दृष्ट्वा मेघाम्भोभिः प्रवर्षति।
ततो दग्धुं न शक्नोमि दिधक्षुर्दावमीप्सितम्।।

स युवाभ्यां सहायाभ्यामस्त्रविद्भ्यां समागतः।
दहेयं खाण्डवं दावमेतदन्नं वृतं मया।।

युवां ह्युदकधारास्ता भूतानि च समन्ततः।
उत्तमास्त्रविदौ सम्यक्सर्वतो वारयिष्यथः।।

जनमेजय उवाच।

किमर्थं भगवानग्निः खाण्डवं दग्धुमिच्छति।
रक्ष्यमाणं महेन्द्रेण नानासत्वसमायुतम्।।

न ह्येतत्कारणं ब्रह्मन्नल्पं संप्रतिभाति मे।
यद्ददाह सुसंक्रुद्धः खाण्डवं हव्यवाहनः।।

एतद्विस्तरशो ब्रह्मन्श्रोतुमिच्छामि तत्त्वतः।
खाण्डवस्य पुरा दाहो यथा समभवन्मुने।।

वैशंपायन उवाच।

शृणु मे ब्रुवतो राजन्सर्वमेतद्यथातथम्।
यन्निमित्तं ददाहाग्निः खाण्डवं पृथिवीपते।।

हन्त ते कथयिष्यामि पौराणीमृषिसंस्तुताम्।
कथामिमां नरश्रेष्ठ खाण्डवस्य विनाशिनीम्।।

पौराणः श्रूयते राजन्राजा हरिहयोपमः।
श्वेतकिर्नाम विख्यातो बलविक्रमसंयुतः।।

यज्वा दानपतिर्धीमान्यथा नान्योऽस्ति कश्चन।
`जग्राह दीक्षां स नृपः तदा द्वादशवार्षिकीम्।।

तस्य सत्रे सदा तस्मिन्समागच्छन्महर्षयः।
वेदवेदाङ्गविद्वांसो ब्राह्मणाश्च सहस्रशः।।'

ईजे च स महायज्ञैः क्रतुभिश्चाप्तदक्षिणैः।।

तस्य नान्याऽभवद्बुद्धिर्दिवसे दिवसे नृप।
सत्रे क्रियासमारम्भे दानेषु विविधेषु च।।

ऋत्विग्भिः सहितो धीमानेवमीजे स भूमिपः।
ततस्तु ऋत्विजश्चास्य धूमव्याकुललोचनाः।।

कालेन महता खिन्नास्तत्यजुस्ते नराधिपम्।
ततः प्रसादयामास ऋत्विजस्तान्महीपतिः।।

चक्षुर्विकलतां प्राप्ता न प्रपेदुश्च ते क्रतुम्।
ततस्तेषामनुमते तद्विप्रैस्तु नराधिपः।।

सत्रं समापयामास ऋत्विग्भिरपरैः सह।
तस्यैवंवर्तमानस्य कदाचित्कालपर्यये।।

सत्रमहार्तुकामस्य संवत्सरशतं किल।
ऋत्विजो नाभ्यपद्यन्त समाहर्तुं महात्मनः।।

स च राजाऽकरोद्यत्नं महान्तं ससुहृज्जनः।
प्रणिपातेन सान्त्वेन दानेन च महायशाः।।

ऋत्विजोऽनुनयामास भूयो भूयस्त्वतन्द्रितः।
ते चास्य तमभिप्रायं न चक्रुरमितौजसः।।

स चाश्रमस्थान्राजर्षिस्तानुवाच रुषान्वितः।
यद्यहं पतितो विप्राः शुश्रूषायां न च स्थितः।।

आशु त्याज्योऽस्मि युष्माभिर्ब्राह्मणैश्च जुगुप्सितः।
तन्नार्हथ क्रतुश्रद्धां व्याघातयितुमद्य ताम्।।

अस्थाने वा परित्यागं कर्तुं मे द्विजसत्तमाः।
प्रपन्न एव वो विप्राः प्रसादं कर्तुमर्हथ।।

सान्त्वदानादिभिर्वाक्यैस्तत्त्वतः कार्यवत्तया।
प्रसादयित्वा वक्ष्यामि यन्नः कार्यं द्विजोत्तमाः।।

अथवाऽहं परित्यक्तो भवद्भिर्द्वेषकारणात्।
ऋत्विजोऽन्यान्गमिष्यामि याजनार्थं द्विजोत्तमाः।।

एतावदुक्त्वा वचनं विरराम स पार्थिवः।
यदा न शेकू राजानं याजनार्थं परन्तप।।

ततस्ते याजकाः क्रुद्धास्तमूचुर्नृपसत्तमम्।
तव कर्माम्यजस्रं वै वर्तन्ते पार्थिवोत्तम।।

ततो वयं परिश्रान्ताः सततं कर्मवाहिनः।
श्रमादस्मात्परिश्रान्तान्स त्वं नस्त्यक्तुमर्हसि।।

बुद्धिमोहं समास्थाय त्वरासंभावितोऽनघ।
गच्छ रुद्रसकाशं त्वं सहि त्वां याजयिष्यति।।

साधिक्षेपं वचः श्रुत्वा संक्रुद्धः श्वेतकिर्नृपः।
कैलासं पर्वतं गत्वा तप उग्रं समास्थितः।।

आराधयन्महादेवं नियतः संशितव्रतः।
उपवासपरो राजन्दीर्घकालमतिष्ठत।।

कदाचिद्द्वादशे काले कदाचिदपि षोडशे।
आहारमकरोद्राजा मूलानि च फलानि च।।

ऊर्ध्वबाहुस्त्वनिमिषस्तिष्ठन्स्थाणुरिवाचलः।
षण्मासानभवद्राजा श्वेतकिः सुसमाहितः।।

तं तथा नृपशार्दूलं तप्यमानं महत्तपः।
शङ्करः परमप्रीत्या दर्शयामास भारत।।

उवाच चैनं भगवान्स्निग्धगम्भीरया गिरा।
प्रीतोऽस्मि नरशार्दूल तपसा ते परन्तप।।

वरं वृणीष्व भद्रं ते यं त्वमिच्छसि पार्थिव।
एतच्छ्रुत्वा तु वचनं रुद्रस्यामिततेजसः।।

प्रणिपत्य महात्मानं राजर्षिः प्रत्यभाषत।
यदि मे भगवान्प्रीतः सर्वलोकनमस्कृतः।।

स्वयं मां देवदेवेश याजयस्व सुरेश्वर।
एतच्छ्रुत्वा तु वचनं राज्ञा तेन प्रभाषितम्।।

उवाच भगवान्प्रीतः स्मितपूर्वमिदं वचः।
नास्माकमेतद्विषये वर्तते याजनं प्रति।।

त्वया च सुमहत्तप्तं तपो राजन्वरार्थिना।
याजयिष्यामि राजंस्त्वां समयेन परन्तप।।

समा द्वादश राजेन्द्र ब्रह्मचारी समाहितः।
सततं त्वाज्यधाराभिर्यदि तर्पयसेऽनलम्।।

कामं प्रार्थयसे यं त्वं मत्तः प्राप्स्यसि तं नृप।
एवमुक्तश्च रुद्रेण श्वेतकिर्मनुजाधिपः।।

तथा चकार तत्सर्वं यथोक्तं शूलपाणिना।
पूर्णे तु द्वादशे वर्षे पुनरायान्महेश्वरः।।

दृष्टैव च स राजानं शङ्करो लोकभावनः।
उवाच परमप्रीतः श्वेतकिं नृपसत्तमम्।।

तोषितोऽहं नृपश्रेष्ठ त्वयेहाद्येन कर्मणा।।
याजनं ब्राह्मणानां तु विधिदृष्टं परन्तप।।

अतोऽहं त्वां स्वयं नाद्य याजयामि परन्तप।
ममांशस्तु क्षितितले महाभागो द्विजोत्तमः।।

दुर्वासा इति विख्यातः स हि त्वां याजयिष्यति।
मन्नियोगान्महातेजाः संभाराः संभ्रियन्तु ते।।

एतच्छ्रुत्वा तु वचनं रुद्रेण समुदाहृतम्।
स्वपुरं पुनरागम्य संभारान्पुनरार्जयत्।।

ततः संभृतसंभारो भूयो रुद्रमुपागमत्।
`उवाच च महिपालः प्राञ्जलिः प्रणतः स्थितः।'
संभृता मम संभाराः सर्वोपकरणानि च।।

त्वत्प्रसादानमहादेव श्वो मे दीक्षा भवेदिति।
एतच्छ्रुत्वा तु वचनं तस्य राज्ञो महात्मनः।।

दुर्वाससं समाहूय रुद्रो वचनमब्रवीत्।
एष राजा महाभागः श्वेतकिर्द्विजसत्तम।।

एनं याजय विप्रेन्द्र मन्नियोगेन भूमिपम्।
बाढमित्येव वचनं रुद्रं त्वृषिरुवाच ह।।

ततः सत्रं समभवत्तस्य राज्ञो महात्मनः।
यथाविधि यथाकालं यथोक्तं बहुदक्षिणम्।।

तस्मिन्परिसमाप्ते तु राज्ञः सत्रे महात्मनः।
दुर्वाससाऽभ्यनुज्ञाता विप्रतस्थुः स्म याजकाः।।

ये तत्र दीक्षिताः सर्वे सदस्याश्च महौजसः।
सोऽपि राजन्महाभागः स्वपुरं प्राविशत्तदा।।

पूज्यमानो महाभागैर्ब्राह्मणैर्वेदपारगैः।
बन्दिभिः स्तूयमानश्च नागरैश्चाभिनन्दितः।।

एवंवृत्तः स राजर्षिः श्वेतकिर्नृपसत्तमः।
कालेन महता चापि ययौ स्वर्गमभिष्टुतः।।

ऋत्विग्भिः सहितः सर्वैः सदस्यैश्च समन्वितः।
तस्य सत्रे पपौ वह्निर्हविद्वार्दशवत्सरान्।।

सततं चाज्यधाराभिरैकात्म्ये तत्र कर्मणि।
हविषा च ततो वह्निः परां तृप्तिमगच्छत।।

न चैच्छत्पुनरादातुं हविरन्यस्य कस्यचित्।
पाण्डुवर्णो विवर्णश्च न यतावत्प्रकाशते।।

ततो भघवतो वह्नेर्विकारः समजायत।
तेजसा विप्रहीणश्च ग्लानिश्चैनं समाविशत्।।

स लक्षयित्वा चात्मानं तेजोहीनं हुताशनः।
जगाम सदनं पुण्यं ब्रह्मणो लोकपूजितम्।।

तत्र ब्रह्माणमासीनमिदं वचनमब्रवीत्।
भगवन्परमा प्रीतिः कृता श्वेतकिना मम।।

अरुचिश्चाभवत्तीव्रा तां न शक्नोम्यपोहितुम्।
तेजसा विप्रहीणोऽस्मि बलेन च जगत्पते।।

इच्छेयं त्वत्प्रसादेन स्वात्मनः प्रकृतिं स्थिराम्।
एतच्छ्रुत्वा हुतवहाद्भगवान्सर्वलोककृत्।।

हव्यवाहमिदं वाक्यमुवाच प्रहसन्निव।
त्वया द्वादश वर्षाणि वसोर्धाराहुतं हविः।।

उपयुक्तं महाभाग तेन त्वां ग्लानिराविशत्।
तेजसा विप्रहीणत्वात्सहसा हव्यवाहन।।

मागमस्त्वं व्यथां वह्ने प्रकृतिस्थो भविष्यसि।
अरुचिं नाशयिष्येऽहं समयं प्रतिपद्य ते।।

पुरा देवनियोगेन यत्त्वया भस्मसात्कृतम्।
आलयं देवशत्रूणां सुघोरं खाण्डवं वनम्।।

तत्र सर्वाणि सत्वानि निवसन्ति विभावसो।
तेषां त्वं मेदसा तृप्तः प्रकृतिस्थो भविष्यसि।।

गच्छ शीघ्रं प्रदग्धुं त्वं ततो मोक्ष्यसि किल्विषात्।
एतच्छुत्वा तु वचनं परमेष्ठिमुखाच्च्युतम्।।

उत्तमं जवमास्थाय प्रदुद्राव हुताशनः।
आगम्य खाण्डवं दावमुत्तमं वीर्यमास्थितः।
सहसा प्राज्वलच्चाग्निः क्रुद्धो वायुसमीरितः।।

प्रदीप्तं खाण्डवं दृष्ट्वा ये स्युस्तत्र निवासिनः।
परमं यत्नेमातिष्ठन्पावकस्य प्रशान्तये।।

करैस्तु करिणः शीघ्रं जलमादाय सत्वराः।
सिषिचुः पावकं क्रुद्धाः शतशोऽथ सहस्रशः।।

बहुशीर्षास्ततो नागाः शिरोभिर्जलसन्ततिम्।
मुमुचुः पावकाभ्याशे सत्वराः क्रोधमूर्च्छिताः।।

तथैवान्यानि सत्वानि नानाप्रहरणोद्यमैः।
विलयं पावकं शीघ्रमनयन्भरतर्षभ।।

अनेन तु प्रकारेण भूयोभूयश्च प्रज्वलन्।
सप्तकृत्वः प्रशमितः खाण्डवे हव्यवाहनः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
खाण्डवदाहपर्वणि
ऊनपञ्चाशदधिकद्विशततमोऽध्यायः।। 249 ।।