आदिपर्व

अध्यायः २४४

Adi Parva (Sanskrit) · Adhyaya 244
अक्षर का आकार

वैशंपायन उवाच।

शासनात्पुरुषेन्द्रस्य बलेन महता बली।
गिरौ रैवतके नित्यं बभूव विपृथुश्रवाः।।

प्रवासे वासुदेवस्य तस्मिन्हलधरोपमः।
संबभूव तदा गोप्ता पुरस्य पुरवर्धनः।।

प्राप्य पाण्डवनिर्याणं निर्ययौ विपृथुश्रवाः।
निशम्य पुरनिर्घोषं स्वमनीकमचोदयत्।।

सोऽभिपत्य तदाध्वानं ददर्श पुरुषर्षभम्।
निःसृतं द्वारकाद्वारादंशुमन्तमिवाम्बिरात्।।

सविद्युतमिवाम्भोदं प्रेक्षतां तं धनुर्धरम्।
पार्थमानर्तयोधानां विस्मयः समपद्यत।।

उदीर्णरथनागाश्वमनीकमभिवीक्ष्य तत्।
उवाच परमप्रीता सुभद्रा भद्रभाषिणी।।

संग्रहीतुमभिप्रायो दीर्घकालकृतो मम।
युध्यमानस्य सङ्ग्रामे रथं तव नरर्षभ।।

ओजस्तेजोद्युतिबलैरन्वितस्य महात्मनः।
पार्थ ते सारथित्वेन भविता शिक्षितास्म्यहम्।।

एवमुक्तः प्रियां प्रीतः प्रत्युवाच नरर्षभः।
चोदयाश्वानसंसक्तान्विश्तु विपृथोर्बलम्।।

बहुभिर्युध्यमानस्य तावकान्विजिघांसतः।
पश्य बाहुबलं भद्रे शरान्विक्षिपतो मम।।

वैशंपायन उवाच।

एवमुक्ता तदा भद्रा पार्थेन भरतर्षभ।
चुचोद साश्वान्संहृष्टा ते ततो विविशुर्बलम्।।

तदाहतमहावाद्यं समुदग्रध्वजायुतम्।
अनीकं विपृथोर्हृष्टं पार्थमेवान्ववर्तत।।

रथैर्बहुविधाकारैः सदश्वैश्च महाजवैः।
किरन्तः शरवर्षाणि परिवव्रुर्धनञ्जयम्।।

तेषामस्त्राणि संवार्य दिव्यास्त्रेण महास्त्रवित्।
आवृणोन्महदाकाशं शरैः परपुरञ्जयः।।

तेषां बाणान्महाबाहुर्मुकुटान्यङ्गदानि च।
चिच्छेद निशितैर्बाणैः शरांश्चैव धनूंषि च।।

युगानीषान्वरूथानि यन्त्राणि विविधानि च।
अजिघांसन्परान्पार्थश्चिच्छेद निशितैः शरैः।।

विधनुष्कान्विकवचान्विरथांश्च महारथान्।
कृत्वा पार्थः प्रियां प्रीतः प्रेक्ष्यतामित्यदर्शयत्।।

सा दृष्ट्वा महदाश्चर्यं सुभद्रा पार्थमब्रवीत्।
अवाप्तार्थाऽस्मि भद्रं ते याहि पार्थ यथासुखम्।।

स सक्तं पाण्डुपुत्रेण समीक्ष्य विपृथुर्बलम्।
त्वरमाणोऽभिसंक्रम्य स्थीयतामित्यभाषत।।

ततः सेनापतेर्वाक्यं नात्यवर्तन्त यादवाः।
सागरे मारुतोद्धूता वेलामिव महोर्मयः।।

ततो रथवरात्तूर्णमवरुह्य नरर्षभः।
अभिगम्य नरव्याघ्रं प्रहृष्टः परिषस्वजे।।

सोऽब्रवीत्पार्थमासाद्य दीर्घकालमिदं तव।
निवासमभिजानामि शङ्खचक्रगदाधरात्।।

न मेऽस्त्यविदितं किंचिद्यद्यदाचितं त्वया।
सुभद्रार्थं प्रलोभेन प्रीतस्तव जनार्दनः।।

प्राप्तस्य यतिलिङ्गेन वासितस्य धनञ्जय।
बन्धुमानसि रामेण महेन्द्रावरजेन च।।

मामेव च सदाकाङ्क्षी मन्त्रिणं मधुसूदनः।
अन्तरेण सुभद्रां च त्वां च तात धनञ्जय।।

इमं रथवरं दिव्यं सर्वशस्त्रसमन्वितम्।
इदमेवानुयात्रं च निर्दिश्य गदपूर्वजः।।

अन्तर्द्वीपं तदा वीर गतो वृष्णिसुखावहः।
दीर्घकालावरुद्धं त्वां संप्राप्तं प्रियया सह।।

पश्यन्तु भ्रातरः सर्वे वज्रपाणिमिवामराः।
आयाते तु दशार्हाणामृषभे शार्ङ्गधन्वनि।।

भद्रामनुगमिष्यन्ति रत्नानि च वसूनि च।
अरिष्टं याहि पन्थानं सुखी भव धनञ्जय।।

नष्टशोकैर्विशोकस्य सुहृद्भिः संगमोऽस्तु ते।।

वैशंपायन उवाच।

ततो विपृथुमामन्त्र्य पार्थः प्रीतोऽभिवाद्य च।
कृष्णस्य मतमास्थाय कृष्णस्य रथमास्थितः।।

पूर्वमेव तु पार्थाय कृष्णेन विनियोजितम्।
सर्वरत्नसुसंपूर्णं सर्वभोगसमन्वितम्।।

रथेन काञ्चनाङ्गेन कल्पितेन यथाविधि।
शैब्यसुग्रीवयुक्तेन किङ्किणीजालमालिना।।

सर्वशस्त्रोपपन्नेन जीमूतरवनादिना।
ज्वलनार्चिःप्रकाशेन द्विषतां हर्षनाशिना।।

सन्नद्धः कवची खड्गी बद्धगोधाङ्गुलित्रवान्।
युक्तः सेनानुयात्रेण रथणारोप्य माधवीम्।
रथेनाकाशगेनैव पययौ *स्वपुरं प्रति।।

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिका जनाः।
विक्रोशन्तोऽद्रवन्सर्वे द्वारकामभितः पुरीम्।।

ते समासाद्य सहिताः सुधर्मामभितः सभाम्।
सभापालस्य तत्सर्वमाचख्युः पार्थविक्रमम्।।

तेषां श्रुत्वा सभापालो भेरीं सान्नाहिकीं ततः।
समाजघ्ने महाघोषां जाम्बूनदपरिष्कृताम्।।

क्षुब्धास्तेनाथ शब्देन भोजवृष्ण्यन्धकास्तदा।
`अन्तर्द्वीपात्समुत्पेतुः सहसा सहितास्तदा।'
अन्नपानमपास्याथ समापेतुः समन्ततः।।

तत्र जाम्बूनदाङ्गानि स्पर्ध्यास्तरणवन्ति च।
मणिविद्रुमचित्राणि ज्वलिताग्निप्रभाणि च।।

भेजिरे पुरुषव्याघ्रा वृष्ण्यन्धकमहारथाः।
सिंहासनानि शतशो धिष्ण्यानीव हुताशनाः।।

तेषां समुपविष्टानां देवानामिव सन्नये।
आचख्यौ चेष्टितं जिष्णोः सभापालः सहानुगः।।

तच्छ्रुत्वा वृष्णिवीरास्ते मदसंरक्तलोचनाः।
अमृष्यमाणाः पार्थस्य समुत्पेतुरहङ्कृताः।।

योजयध्वं रथानाशु प्रासानाहरतेति च।
धनूंषि च महार्हाणि कवचानि बृहन्ति च।।

सूतानुच्चुक्रुशुः केचिद्रथान्योजयतेति च।
स्वयं च तुरगान्केचिदयुञ्जन्हेमभूषितान्।।

रथेष्वानीयमानेषु कवचेषु ध्वजेषु च।
अभिक्रन्दे नृवीराणां तदासीत्तुमुलं महत्।।

वनमाली ततः क्षीबः कैलासशिखरोपमः।
नीलवासा मदोत्सिक्त इदं वचनमब्रवीत्।।

किमिदं कुरुथाप्रज्ञास्तूष्णींभूते जनार्दने।
अस्य भावमविज्ञाय संक्रुद्धा मोघगर्जिताः।।

एष तावदभिप्रायमाख्यातु स्वं महामतिः।
यदस्य रुचिरं कर्तुं तत्कुरुध्वमतन्द्रिताः।।

ततस्ते तद्वचः श्रुत्वा ग्राह्यरूपं हलायुधात्।
तूष्णींभूतास्ततः सर्वे साधुसाध्विति चाब्रुवन्।।

समं वचो निशम्यैव बलदेवस्य धीमतः।
पुनरेवसभामध्ये सर्वे ते समुपाविशन्।।

ततोऽब्रवीद्वासुदेवं वचो रामः परन्तपः।
`त्रैलोक्यनाथ हे कृष्ण भूतभव्यभविष्यकृत्।'
किमवागुपविष्टोऽसि प्रेक्षमाणो जनार्दन।।

सत्कृतस्त्वत्कृते पार्थः सर्वैरस्माभिरच्युत।
न च सोऽर्हति तां पूजां दुर्बुद्धिः कुलपांसनः।।

को हि तत्रैव भुक्तावान्नं भाजनं भेत्तुमर्हति।
मन्यमानः कुले जातमात्मानं पुरुषः क्वचित्।।

इच्छन्नेव हि संबन्धं कृतं पूर्वं च मानयन्।
को हि नाम भवेनार्थी साहसेन समाचरेत्।।

सोऽवमन्य तथाऽस्माकमनादृत्य च केशवम्।
प्रसह्य हृतवानद्य सुभद्रां मृत्युमात्मनः।।

कथं हि शिरसो मध्ये कृतं तेन पदं मम।
मर्षयिष्यामि गोविन्द पादस्पर्शमिवोरगः।।

अद्य निष्कौरवामेकः करिष्यामि वसुन्धराम्।
न हि मे मर्षणीयोऽयमर्जुनस्य व्यतिक्रमः।।

तं तथा गर्जमानं तु मेघदुन्दुभिनिःस्वनम्।
अन्वपद्यन्त ते सर्वे भोजवृष्ण्यन्धकास्तदा।।

।। इति श्रीमन्महाभारते आदिपर्वणि
सुभद्राहरणपर्वणि
चतुश्चत्वारिंशदधिकद्विशततमोऽध्यायः।। 244 ।।

।। समाप्तं च सुभद्राहरणपर्व ।।