आदिपर्व

अध्यायः २४२

Adi Parva (Sanskrit) · Adhyaya 242
अक्षर का आकार

वैशंपायन उवाच।

कुकुरान्धकवृष्णीनामपयानं च पाण्डवः।
विनिश्चित्य ततः पार्थः सुभद्रामिदमब्रवीत्।।

शृणु भद्रे यथाशास्त्रं हितार्थं मुनिभिः कृतम्।
विवाहं बहुधा सत्सु वर्णानां धर्मसंयुतम्।।

कन्यायास्तु पिता भ्राता माता मातुल एव वा।
पितुः पिता पितुर्भ्राता दाने तु प्रभुतां गतः।।

महोत्सवं पशुपतेर्द्रष्टुकामः पिता तव।
अन्तर्द्वीपं गतो भद्रे पुत्रैः पौत्रैः सबान्धवैः।।

मम चैव विशालाक्षि विदेशस्था हि बान्धवाः।
तस्मात्सुभद्रे गान्धर्वो विवाहः पञ्चमः स्मृतः।।

समागमे तु कन्यायाः क्रियाः प्रोक्ताश्चतुर्विधाः।
तेषां प्रवृत्तिं साधूनां शृणु माधवि तद्यथा।।

वरमाहूय विधिना पित्रा दत्ता तथार्थिने।
सा पत्नी तु परैरुक्ता सा वश्या तु पतिव्रता।।

भृत्यानां भरणार्थाय आत्मनः पोषणाय च।
दाने गृहीता या नारी सा भार्येति स्मृता बुधैः।।

धर्मतो वरयित्वा तु आनीय स्वं निवेशनम्।
न्यायेन दत्तातारुण्ये दाराः पितृकृताः स्मृताः।।

गान्धर्वेण विवाहेन रागात्पुत्रार्थकारणात्।
आत्मनाऽनुगृहीता या वश्या सा तु प्रजावती।।

जनयेद्या तु भर्तारं जाया इत्येव नामतः।
पत्नी भार्या च दाराश्च जाया चेति चतुर्विधाः।।

चतस्र एवाग्निसाक्ष्याः क्रियायुक्ताश्च धर्मतः।
गान्धर्वस्तु क्रियाहीनो रागादेव प्रवर्तते।।

सकामायाः सकामेन निर्मन्त्रो रहसि स्मृतः।
मयोक्तमक्रियं चापि कर्तव्यं माधवि त्वया।।

अयनं चैव मासश्च ऋतुः पक्षस्तथा तिथिः।
करणं च मुहूर्तं च लग्नसंपत्तथैव च।।

विवाहस्य विशालाक्षि प्रशस्तं चोत्तरायणम्।
वैशाखश्चैव मासानां पक्षाणां शुक्ल एव च।।

नक्षत्राणां तथा हस्तस्तृतीया च तिथिष्वपि।
लग्नो हि मकरः श्रेष्ठः करणानां बवस्तथा।।

मैत्रो मुहूर्तो वैवाह्य आवयोः शुभकर्मणि।
सर्वसंपदियं भद्रे अद्य रात्रौ भविष्यति।।

भगवानस्तमभ्येति आदित्यस्तपतां वरः।
रात्रौ विवाहकालोऽयं भविष्यति न संशयः।।

नारायणोऽपि सर्वज्ञो नावबुध्येत विश्वकृत्।
धर्मसङ्कटमापन्ने किं नु कृत्वा सुखं भवेत्।।

मनोभवेन कामेन मोहितं मां प्रलापिनम्।
प्रतिवाक्यं च मे देवि किं न वक्ष्यसि माधवि।।

वैशंपायन उवाच।

अर्जुनस्य वचः श्रुत्वा चिन्तयन्ती जनार्दनम्।
नोवाच किंचिद्वचनं बाष्पदूषितलोचना।।

रागोन्मादप्रलापी सन्नर्जुनो जयतां वरः।
चिन्तयामास पितरं प्रविश्य च लतागृहम्।।

चिन्तयानं तु कौन्तेयं मत्वा शच्या शचीपतिः।
सहितो नारदाद्यैश्च मुनिभिश्च महामनाः।।

गन्धर्वैरप्सरोभिश्च चारणैश्चापि गुह्यकैः।
अरुन्धत्या वसिष्ठेन ह्याजगाम कुशस्थलीम्।।

चिन्तितं च सुभद्रायाश्चिन्तयित्वा जनार्दनः।
निद्रयापहृतज्ञानं रौहिणेयं विना तदा।।

सहाक्रूरेण शिनिना सत्यकेन गदेन च।
वसुदेवेन देवक्या आहूकेन च धीमता।।

आजगाम पुरीं रात्रौ द्वारकां स्वजनैर्वृतः।
पूजयित्वा तु देवेशो नारदादीन्महायशाः।।

कुशलप्रश्नमुक्त्वा तु देवेन्द्रेणाभियाचितः।
वैवाहिकीं क्रियां कृष्णः स तथेत्येवमुक्तवान्।।

आहुको वसुदेवश्च सहाक्रूरः ससात्यकिः।
अभिप्रणम्य शिरसा पाकशासनमब्रुवन्।
देवदेव नमस्तेस्तु लोकनाथ जगत्पते।।

वयं धन्याः स्म सहितैर्बान्धवैः सहिताः प्रभो।
कृतप्रसादास्तु वयं तव वाक्येन विश्वजित्।।

वैशंपायन उवाच।

एवमुक्त्वा प्रसाद्यैनं पूजयित्वा प्रयत्नतः।
महेन्द्रशासनात्सर्वे सहिता ऋषिभिस्तदा।।

विवाहं कारयामासुः शक्रपुत्रस्य शास्त्रतः।
अरुन्धती शची देवी रुग्मिणी देवकी तथा।।

दिव्यस्त्रीभिश्च सहिताः सुभद्रायाः शुभाः क्रियाः।
अर्जुनेऽपि तथा सर्वाः क्रिया भद्राः प्रयोजयन्।।

महर्षिः काश्यपो होता सदस्या नारदादयः।
पुण्याशिषः प्रयोक्तारः सर्वे ते हि तदार्जुने।।

अभिषेकं तदा कृत्वा महेन्द्रः पाकशासनिम्।
लोकपालैस्तु सहितः सर्वदेवैरभिष्टुतः।।

किरीटाङ्गदहाराद्यैर्हस्ताभरणकुण्डलैः।
भूषयित्वा तदा पार्थं द्वितीयमिव वासवम्।।

पुत्रं परिष्वज्य तदा प्रीतिमाप पुरन्दरः।
शछी देवी तदा भद्रामरुन्धत्यादिभिस्तथा।।

कारयामास वैवाह्यमङ्गलान्यादवस्त्रियः।
सहाप्सरोभिर्मुदिता भूषयित्वा स्वभूषणैः।।

पौलोमीमिव मन्यन्ते सुभद्रां तत्र योषितः।
ततो विवाहो ववृधे कृतः सर्वगुणान्वितः।।

तस्याः पाणिं गृहीत्वा तु मन्त्रैर्होमपुरस्कृतम्।
सुभद्रया बभौ जिष्णुः शच्या इव शचीपतिः।।

सा जिष्णुमधिकं भेजे सुभद्रा चारुदर्शना।
पार्थस्य सदृशी भद्रा रूपेण वयसा तथा।।

सुभद्रायाश्च पार्थोऽपि सदृशो रूपलक्षणैः।
इत्यूचुश्च तदा देवाः प्रीताः सेन्द्रपुरोगमाः।।

एवं निवेश्य देवास्ते गन्धर्वैः साप्सरोगणैः।
आमन्त्र्य यादवाः सर्वे विप्रजग्मुर्यथागतम्।।

यादवाः पार्थमामन्त्र्य अन्तर्द्वीपं गतास्तदा।
वासुदेवस्तदा पार्थमुवाच यदुनन्दनः।।

द्वाविंशद्दिवसान्पार्थ इहोष्य भरतर्षभ।
मामकं रथमारुह्य शैब्यसुग्रीवयोजितम्।।

सुभद्रया सुखं पार्थ खाण्डवप्रस्थमाविश।
यादवैः सहितः पश्चादागमिष्यामि भारत।
यतिवेषेण नियतो वस त्वं रुक्मिणीगृहे।।

वैशंपायन उवाच।

एवमुक्त्वा प्रचक्राम अन्तर्द्वीपं जनार्दनः।
कृतोद्वाहस्ततः पार्थः कृतकार्योऽभवत्तदा।।

तस्यां चोपगतो भावः पार्थस्य सुमहात्मनः।
तस्मिन्भावः सुभद्राया अन्योन्यं समवर्धत।।

स तथा युयुजे वीरो भद्रया भरतर्षभः।
अभिनिष्पन्नया रामः सीतयेव समन्वितः।।

अपि जिष्णुर्विजज्ञे तां ह्रीं श्रियं सन्नतिक्रियाम्।
देवतानां वरस्त्रीणां रूपेण सदृशीं सतीम्।।

स प्रकृत्या श्रिया दीप्त्या संदिदीपे तयाऽधिकम्।
उद्यत्सहस्रदीप्तांशुः शरदीव दिवाकरः।।

सा तु तं मनुजव्याघ्रमनुरक्ता यशस्विनी।
कन्यापुरगता भूत्वा तत्परा समपद्यत।।

।। इति श्रीमन्महाभारते आदिपर्वणि
सुभद्राहरणपर्वणि
द्विचत्वारिंशदधिकद्विशततमोऽध्यायः।। 242 ।।