आदिपर्व

अध्यायः २२३

Adi Parva (Sanskrit) · Adhyaya 223
अक्षर का आकार

द्रोण उवाच।

मन्त्राय समुपानीतैर्धृतराष्ट्र हितैर्नृप।
धर्म्यमर्थ्यं यशस्यं च वाच्यमित्यनुशुश्रुम।।

ममाप्येषा मतिस्तात या भीष्मस्य महात्मनः।
संविभज्यास्तु कौन्तेया धर्म एष सनातनः।।

प्रेष्यतां द्रुपदायाशु नऱः कश्चित्प्रियंवदः।
बहुलं रत्नमादाय तेषामर्थाय भारत।।

मिथः कृत्यं च तस्मै स आदाय वसु गच्छतु।
वृद्धिं च परमां ब्रूयात्तत्संयोगोद्भवां तथा।।

संप्रीयमाणं त्वां ब्रूयाद्राजन्दुर्योधनं तथा।
असकृद्द्रुपदे चैव धृष्टद्युम्ने च भारत।।

उचितत्वं प्रियत्वं च योगस्यापि च वर्णयेत्।
पुनःपुनश्च कौन्येयान्माद्रीपुत्रौ च सान्त्वयन्।।

हिरण्मयानि शुभ्राणि बहून्याभरणानि च।
वचनात्तव राजेन्द्र द्रौपद्याः संप्रयच्छतु।।

तथा द्रुपदपुत्राणां सर्वेषां भरतर्षभ।
पाण्डवानां च सर्वेषां कुन्त्या युक्तानि यानि च।।

`दत्त्वा तानि महार्हाणि पाण्डवान्संप्रहर्षय।'
एवं सान्त्वसमायुक्तं द्रुपदं पाण्डवैः सह।
उक्त्वा सोऽनन्तरं ब्रूयात्तेषामागमनं प्रति।।

अनुज्ञातेषु वीरेषु बलं गच्छतु शोभनम्।
दुःशासनो विकर्णश्चाप्यानेतुं पाण्डवानिह।।

ततस्ते पाण्डवाः श्रेष्ठाः पूज्यमानाः सदा त्वया।
प्रकृतीनामनुमते पदे स्थास्यन्ति पैतृके।।

एतत्तव महाराज तेषु पुत्रेषु चैव हि।
वृत्तमौपयिकं मन्ये भीष्मेण सह भारत।।

कर्ण उवाच।

योजितावर्थमानाभ्यां सर्वकार्येष्वनन्तरौ।
न मन्त्रयेतां त्वच्छ्रेयः किमद्भुततरं ततः।।

दुष्टेन मनसा यो वै प्रच्छन्नेनान्तरात्मना।
ब्रूयान्नि)श्रेयसं नाम कथं कुर्यात्सतां मतम्।।

न मित्राण्यर्थकृच्छ्रेषु श्रेयसे चेतराय वा।
विधिपूर्वं हि सर्वस्य दुःखं वा यदि वा सुखम्।।

कृतप्रज्ञोऽकृतप्रज्ञो बालो वृद्धश्च मानवः।
ससहायोऽसहायश्च सर्वं सर्वत्र विन्दति।।

श्रूयते हि पुरा कश्चिदम्बुवीच इतीश्वरः।
आसीद्राजगृहे राजा मागधानां महीक्षिताम्।।

स हीनः करणैः सर्वैरुच्छ्वासपरमो नृपः।
अमात्यसंस्थः सर्वेषु कार्येष्वेवाभवत्तदा।।

तस्यामात्यो महाकर्णिर्बभूवैकेश्वरस्तदा।
स लब्धबलमात्मानं मन्यमानोऽवमन्यते।।

स राज्ञ उपभोग्यानि स्त्रियो रत्नधनानि च।
आददे सर्वशो मूढ ऐश्वर्यं च स्वयं तदा।।

तदादाय च लुब्धस्य लोभाल्लोभोऽभ्यवर्धत।
तथाहि सर्वमादाय राज्यमस्य जिहीर्षति।।

हीनस्य करणैः सर्वैरच्छ्वासपरमस्य च।
यतमानोऽपि तद्राज्यं न शशाकेति नः श्रुतं।।

किमन्यद्विहिता नूनं तस्य सा पुरुषेन्द्रता।
यदि ते विहितं राज्यं भविष्यति विशांपते।।

मिषतः सर्वलोकस्य स्थास्यते त्वयि तद्धुवम्।
अतोऽन्यथा चेद्विहितं यतमानो न लप्स्यसे।।

एवं विद्वन्नुपादत्स्व मन्त्रिणां साध्वसाधुताम्।
दुष्टानां चैव बोद्धव्यमदुष्टानां च भाषितम्।।

द्रोण उवाच।

विद्म ते भावदोषेण यदर्थमिदमुच्यते।
दुष्ट पाण्डवहेतोस्त्वं दोषमाख्यापयस्युत।।

हितं तु परमं कर्ण ब्रवीमि कुलवर्धनम्।
अथ त्वं मन्यसे दुष्टं ब्रूहि यत्परमं हितम्।।

अतोऽन्यथा चेत्क्रियते यद्ब्रवीमि परं हितम्।
कुरवो वै विनङ्क्ष्यन्ति नचिरेणैव मे मतिः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
त्रयोविंशत्यधिकद्विशततमोऽध्यायः।। 223 ।।