आदिपर्व
अध्यायः २२२
भीष्म उवाच।
न रोचते विग्रहो मे पाण्डुपुत्रैः कथंचन।
यथैव धृतराष्ट्रो मे तथा पाण्डुरसंशयम्।।
गान्धार्याश्च यथा पुत्रास्तथा कुन्तीसुता मम।
यथा च मम ते रक्ष्या धृतराष्ट्र तथा तव।।
यथा च मम राज्ञश्च तथा दुर्योधनस्य ते।
तथा कुरूणां सर्वेषामन्येषामपि पार्थिव।।
एवं गते विग्रहं तैर्न रोचे
सन्धाय वीरैर्दीयतामर्धभूमिः।
तेषामपीदं प्रपितामहानां
राज्यं पितुश्चैव कुरूत्तमानाम्।।
दुर्योधन यथा र्जायं त्वमिदं तात पश्यसि।
मम पैतृकमित्येवं तेऽपि पश्यन्ति पाण्डवाः।।
यदि राज्यं न ते प्राप्ताः पाण्डवेया यशस्विनः।
कुत एव तवापीदं भारतस्यापि कस्यचित्।।
अधर्मेण च राज्यं त्वं प्राप्तवान्भरतर्षभ।
तेऽपि राज्यमनुप्राप्ताः पूर्वमेवेति मे मतिः।।
मधुरेणैव राज्यस्य तेषामर्धं प्रदीयताम्।
एतद्धि पुरुषव्याघ्र हितं सर्वजनस्य च।।
अतोऽन्यथा चेत्क्रियते न हितं नो भविष्यति।
तवाप्यकीर्तिः सकला भविष्यति न संशयः।।
कीर्तिरक्षणमातिष्ठ कीर्तिर्हि परमं बलम्।
नष्टकीर्तेर्मनुष्यस्य जीवितं ह्यफळं स्मृतम्।।
यावत्कीर्तिर्मनुष्यस्य न प्रणश्यति कौरव।
तावज्जीवति गान्धरे नष्टकीर्तिस्तु नश्यति।।
तमिमं समुपातिष्ठ धर्मं कुरुकुलोचितम्।
अनुरूपं महाबाहो पूर्वेषामात्मनः कुरु।।
दिष्ट्या ध्रियन्ते पार्था हि दिष्ट्या जीवति सा पृथा।
दिष्ट्या पुरोचनः पापो न सकामोऽत्ययं गतः।।
यदाप्रभृति दग्धास्ते कुन्तिभोजसुतासुताः।
तदाप्रभृति गान्धारे न शक्नोम्यभिवीक्षितुम्।।
लोके प्राणभृतां किंचिच्छ्रुत्वा कुन्तीं तथागताम्।
न चापि दोषेण तथा लोको मन्येत्पुरोचनम्।
यथा त्वां पुरुषव्याघ्र लोको दोषेण गच्छति।।
तदिदं जीवितं तेषां तव किल्बिषनाशनम्।
संमन्तव्यं महाराज पाण्डवानां च दर्शनम्।।
न चापि तेषां वीराणां जीवतां कुरुनन्दन।
पित्र्योंशः शक्य आदातुमपि वज्रभृता स्वयं।।
ते सर्वेऽवस्थिता धर्मे सर्वे चैवैकचेतसः।
अधर्मेण निरस्ताश्च तुल्ये राज्ये विशेषतः।।
यदि धर्मस्त्वया कार्यो यदि कार्यं प्रियं च मे।
क्षेमं च यदि कर्तव्यं तेषामर्धं प्रदीयताम्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
विदुरागमनराज्यलाभपर्वणि
द्वाविंशत्यधिकद्विशततमोऽध्यायः।। 222 ।।