आदिपर्व
अध्यायः २१२
व्यास उवाच।
मा भूद्राजंस्तव तापो मनस्थः
पञ्चानां भार्या दुहिता ममेति।
मातुरेषा प्रार्थिता स्यात्तदानीं
पञ्चानां भार्या दुहिता ममेति।।
याजोपयाजौ धर्मरतौ तपोभ्यां
तौ चक्रतुः पञ्चपतित्वमस्याः।
तत्पञ्चभिः पाण्डुसुतैरवाप्ता
भार्या कृष्णा मोदतां वै कुलं ते।।
लोके नान्यो विद्यते त्वद्विशिष्टः
सर्वारीणामप्रधृष्योऽसि राजन्।
भूयस्त्विदं शृणु मे त्वं विशोको
यथाऽऽगतं पञ्चपत्नीत्वमस्याः।।
एषा नालायनी पूर्वं मौद्गल्यं स्थविरं पतिम्।
आराधयामास तदा कुष्ठिनं तमनिन्दिता।।
त्वगस्थिभूतं कटुकं लोलमीर्ष्युं सुकोपनम्।
सुगन्धेतरगन्धाढ्यं वलीपलितमूर्धजम्।।
स्थविरं विकृताकारं शीर्यमाणनखत्वचम्।
उच्छिष्टमुपभुञ्जाना पर्युपास्ते महामुनिम्।।
ततः कदाचिदङ्गुष्ठो भुञ्जानस्य व्यशीर्यत।
अन्नादुद्धृत्य तच्चान्नमुपभुङ्क्तेऽविशङ्किता।।
तेन तस्याः प्रसन्नेन कामव्याहारिणा तदा।
वरं वृणीष्वेत्यसकृदुक्ता वव्रे वरं तदा।।
मौद्गल्य उवाच।
नाहं वृद्धो न कटुको नेर्व्यावान्नैव कोपनः।
न च दुर्गन्धवदनो न कृशो न च लोलुपः।।
कथं त्वां रमयामीह कथं त्वां वासयाम्यहम्।
वद कल्याणि भद्रं ते यथा त्वं मनसेच्छसि।।
व्यास उवाच।
सा तमक्लिष्टकर्माणं वरदं सर्वकामदम्।
भर्तारमनवद्याङ्गी प्रसन्नं प्रत्युवाच ह।।
नालायन्युवाच।
पञ्चधा प्रविभक्तात्मा भगवांल्लोकविश्रुतः।
रमय त्वमचिन्त्यात्मन्पुनश्चैकत्वमागतः।।
तां तथेत्यब्रवीद्धीमान्महर्षिर्वै महातपाः।
स पञ्चधा तु भूत्वा तां रमयामास सर्वतः।।
नालायनीं सुकेशान्तां मौद्गल्यश्चारुहासिनीम्।
आश्रमेष्वधिकं चापि पूज्यमानो महर्षिभिः।।
स चचार यथाकामं कामरूपवपुः पुनः।
यदा ययौ दिवं चापि तत्र देवर्षिभिः सह।।
चचार सोऽमृताहारः सुरलोके चचार ह।
पूज्यमानस्तथा शच्या शक्रस्य भवनेष्वपि।।
महेन्द्रसेनया सार्धं पर्यधावद्रिरंसया।
सूर्यस्य च रथं दिव्यमारुह्य भगवान्प्रभुः।।
पर्युपेत्य पुनर्मेरु मेरौ वासमरोचयत्।
आकाशगङ्गामाप्लुत्य तया सह तपोधनः।।
रश्मिजालेषु चन्द्रस्य उवाच च यथाऽनिलः।
गिरिरूपधरो योगी स महर्षिस्तदा पुनः।।
तत्प्रभावेन सा तस्य मध्ये जज्ञे महानदी।
यदा पुष्पाकुलः सालः संजज्ञे भगवानृषिः।।
लतात्वमनुसंपेदे तमेवाभ्यनुवेष्टती।
पुपोष च वपुर्यस्य तस्य तस्यानुगं पुनः।।
सा पुपोष समं भर्त्रा स्कन्धेनापि चचार ह।
ततस्तस्य च तस्याश्च तुल्या प्रीतिरवर्धत।।
तथा सा भगवांस्तस्याः प्रसादादृषिसत्तमः।
विरराम च सा चैव दैवयोगेन भामिनी।।
स च तां तपसा देवीं रमयामास योगतः।
एकपत्नी तथा भूत्वा सदैवाग्रे यशस्विनी।।
अरुन्धतीव सीतेव बभूवातिपतिव्रता।
दमयन्त्याश्च मातुः स विशेषमधिकं ययौ।।
एतत्तथ्यं महाराज मा ते भूद्बुद्धिरन्यथा।
सा वै नालायनी जज्ञे दैवयोगेन केनचित्।।
राजंस्तवात्मजा कृष्णा वेद्यां तेजस्विनी शुभा।
तस्मिंस्तस्या मनः सक्तं न चचाल कदाचन।।
तथा प्रणिहितो ह्यात्मा तस्यास्तस्मिन्द्विजोत्तमे।।
।। इति श्रीमन्महाभारते आदिपर्वणि
वैवाहिकपर्वणि द्वादशाधिकद्विशततमोऽध्यायः।। 212 ।।