आदिपर्व
अध्यायः २०६
वैशंपायन उवाच।
गत्वा तु तां भार्गवकर्मशालां
पार्थौ पृथां प्राप्य महानुभावौ।
तां याज्ञसेनीं परमप्रतीतौ
भिक्षेत्यथावेदयतां नराग्र्यौ।।
कुटीगता सा त्वनवेक्ष्य पुत्रौ
प्रोवाच भुङ्क्तेति समेत्य सर्वे।
पश्चाच्च कुन्ती प्रसमीक्ष्य कृष्णां
कष्टं मया भाषितमित्युवाच।।
साऽधर्मभीता परिचिन्तयन्ती
तां याज्ञसेनीं परमप्रतीताम्।
पाणौ गृहीत्वोपजगाम कुन्ती
युधिष्ठिरं वाक्यमुवाच चेदम्।।
कुन्त्युवाच।
इयं तु कन्या द्रुपदस्य राज्ञ-
स्तवानुजाभ्यां मयि संनिसृष्टा।
यथोचितं पुत्र मयाऽपि चोक्तं
समेत्य भुङ्क्तेति नृप प्रमादात्।।
मया कथं नानृतमुक्तमद्य
भवेत्कुरूणामृषभ ब्रवीहि।
पञ्चालराजस्य सुतामधर्मो
न चोपवर्तेत न विभ्रमेच्च।।
वैशंपायन उवाच।
स एवमुक्तो मतिमान्नृवीरो
मात्रा मुहूर्तं तु विचिन्त्य राजा।
कुन्तीं समाश्वास्य कुरुप्रवीरो
धनञ्जयं वाक्यमिदं बभाषे।।
त्वया जिता फाल्गुन याज्ञसेनी
त्वयैव शोभिष्यति राजपुत्री।
प्रज्वाल्यतामग्निरमित्रसाह
गृहाण पाणिं विधिवत्त्वमस्याः।।
अर्जुन उवाच।
मा मां नरेन्द्र त्वमधर्मभाजं
कृथा न धर्मोऽयमशिष्टदृष्टः।
भवान्निवेश्यः प्रथमं ततोऽयं
भीमो महाबाहुरचिन्त्यकर्मा।।
अहं ततो नकुलोऽनन्तरं मे
पश्चादयं सहदेवस्तरस्वी।
वृकोदरोऽहं च यमौ च राज-
न्नियं च कन्या भवतो नियोज्याः।।
एवं गते यत्करणीयमत्र
धर्म्यं यशस्यं कुरु तद्विचिन्त्य।
पाञ्चालराजस्य हितं च यत्स्या-
त्प्रशाधि सर्वे स्म वशे स्थितास्ते।।
वैशंपायन उवाच।
जिष्णोर्वचनमाज्ञाय भक्तिस्नेहसमन्वितम्।
दृष्टिं निवेशयामासुः पाञ्चाल्यां पाण्डुनन्दनाः।।
दृष्ट्वा ते तत्र पश्यन्तीं सर्वे कृष्णां यशस्विनीम्।
संप्रेक्ष्यान्योन्यमासीना हृदयैस्तामधारयन्।।
तेषां तु द्रौपदीं दृष्ट्वा सर्वेषाममितौजसाम्।
संप्रमथ्येन्द्रियग्रामं प्रादुरासीन्मनोभवः।।
काम्यं हि रूपं पाञ्चाल्या विधात्रा विहितं स्वयम्।
बभूवाधिकमन्याभ्यः सर्वभूतमनोहरम्।।
तेषामाकारभावज्ञः कुन्तीपुत्रो युधिष्ठिरः।
द्वैपायनवचः कृत्स्नं सस्मार मनुजर्षभः।।
अब्रवीत्सहितान्भ्रातॄन्मिथो भेदभयान्नृपः।
सर्वेषां द्रौपदी भार्या भविष्यति हि नः शुभा।।
`जनमेजय उवाच।
सताऽपि शक्तेन च केशवेन
सज्यं धनुस्तन्न कृतं किमर्थम्।
विद्धं च लक्ष्यं न च कस्य हेतो-
राचक्ष्व तन्मे द्विपदां वरिष्ठ।।
वैशंपायन उवाच।
शक्तेन कृष्णेन च कार्मुकं त-
न्नारोपितं ज्ञातुकामेन पार्थान्।
परिश्रवादेव बभूव लोके
जीवन्ति पार्था इति निश्चयोऽस्य।।
अन्यानशक्तान्नृपतीन्समीक्ष्य
स्वयंवरे कार्मुकेणोत्तमेन।
धनञ्जयस्तद्धनुरेकवीरः
सज्यं करोतीत्यभिवीक्ष्य कृष्णः।।
इति स्वयं वासुदेवो विचिन्त्य
पार्थान्विवित्सन्विविधैरुपायैः।
न तद्धनुः सज्यमियेप कर्तुं
बभूवुरस्येष्टतमा हि पार्थाः।।'
भ्रातुर्वचस्तत्प्रसमीक्ष्य सर्वे
ज्येष्ठस्य पाण्डोस्तनयास्तदानीम्।
तमेवार्थं ध्यायमाना मनोभिः
सर्वे च ते तस्थुरदीनसत्वाः।।
वृष्णिप्रवीरस्तु कुरुप्रवीरा-
नाशंसमानः सहरौहिणेयः।
जगाम तां भार्गवकर्मशालां
यत्रासते ते पुरुषप्रवीराः।।
तत्रोपविष्टं पृथुदीर्घबाहुं
ददर्श कृष्णः सहरौहिणेयः।
अजातशत्रुं परिवार्य तांश्चा-
प्युपोपविष्टाञ्ज्वलनप्रकाशान्।।
ततोऽब्रवीद्वासुदेवोऽभिगम्य
कुन्तीसुतं धर्मभृतां वरिष्ठम्।
कृष्णोऽहमस्मीति निपीड्य पादौ
युधिष्ठिरस्याजमीढस्य राज्ञः।।
तथैव तस्याप्यनु रौहिणेय-
स्तौ चापि हृष्टाः कुरवोऽभ्यनन्दन।
पितृष्वसुश्चापि यदुप्रवीरा-
वगृह्णतां भारतमुख्य पादौ।।
अजातशत्रुश्च कुरुप्रवीरः
पप्रच्छ कृष्णं कुशलं विलोक्य।
कथं वयं वासुदेव त्वयेह
गूढा वसन्तो विदिताश्च सर्वे।।
तमब्रवीद्वासुदेवः प्रहस्य
गूढोऽप्यग्निर्ज्ञायत एव राजन्।
तं विक्रमं पाण्डवेयानतीत्य
कोऽन्यः कर्ता विद्यते मानुषेषु।।
दिष्ट्या सर्वे पावकाद्विप्रमुक्ता
यूयं घोरात्पाण्डवाः शत्रुसाहाः।
दिष्ट्या पापो धृतराष्ट्रस्य पुत्रः
सहामात्यो न सकामोऽभविष्यत्।।
भद्रं वोऽस्तु निहितं यद्गुहायां
विवर्धध्वं ज्वलना इवैधमानाः।
मा वो विद्युः पार्थिवाः केचिदेव
यास्यावहे शिबिरायैव तावत्।
सोऽनुज्ञातः पाण्डवेनाव्ययश्रीः
प्रायाच्छीघ्रं बलदेवेन सार्धम्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
स्वयंवरपर्वणि षडधिकद्विशततमोऽध्यायः।। 206 ।।