आदिपर्व
अध्यायः २०५
वैशंपायन उवाच।
अजिनानि विधुन्वन्तः करकाश्च द्विजर्षभाः।
ऊचुस्ते भीर्न कर्तव्या वयं योत्स्यामहे परान्।।
तानेवं वदतो विप्रानर्जुनः प्रहसन्निव।
उवाच प्रेक्षका भूत्वा यूयं तिष्ठत पार्श्वतः।।
अहमेनानजिह्माग्रैः शतशो विकिरञ्छरैः।
वारयिष्यामि संक्रुद्धान्मन्त्रैराशीविषानिव।।
इति तद्धनुरानम्य शुल्कावाप्तं महाबलः।
भ्रात्रा भीमेन सहितस्तस्थौ गिरिरिवाचलः।।
ततः कर्णमुखान्दृष्ट्वा क्षत्रियान्युद्धदुर्मदान्।
संपेततुरभीतौ तौ गजौ प्रतिगजानिव।।
ऊचुश्च वाचः परुषास्ते राजानो युयुत्सवः।
आहवे हि द्विजस्यापि वधो दृष्टो युयुत्सतः।।
इत्येवमुक्त्वा राजानः सहसा दुद्रुवुर्द्विजान्।
ततः कर्णो महातेजा जिष्णुं प्रति ययौ रणे।।
युद्धार्थी वासिताहेतोर्गजः प्रतिगजं यथा।
भीमसेनं ययौ शल्यो मद्राणामीश्वरो बली।।
दुर्योधनादयः सर्वे ब्राह्मणैः सह संगताः।
मृदुपूर्वमयत्नेन प्रत्ययुध्यंस्तदाऽऽहवे।।
ततोऽर्जुनः प्रत्यविध्यदापतन्तं शितैः शरैः।
कर्णं वैकर्तनं श्रीमान्विकृष्य बलवद्धनुः।।
तेषां शराणां वेगेन शितानां तिग्मतेजसाम्।
विमुह्यमानो राधेयो यत्नात्तमनुधावति।।
तावुभावप्यनिर्देश्यौ लाघवाज्जयतां वरौ।
अयुध्येतां सुसंरब्धावन्योन्यविजिगीषिणौ।।
कृते प्रतिकृतं पश्य पश्य बाहुबलं च मे।
इति शूरार्थवचनैरभाषेतां परस्परम्।।
ततोऽर्जुनस्य भुजयोर्वीर्यमप्रतिमं भुवि।
ज्ञात्वा वैकर्तनः कर्णः संरब्धः समयोधयत्।।
अर्जुनेन प्रयुक्तांस्तान्बाणान्वेगवतस्तदा।
प्रतिहत्य ननादोच्चैः सैन्यानि तदपूजयन्।।
कर्ण उवाच।
तुष्यामि ते विप्रमुख्य भुजवीयर्स्य संयुगे।
अविषादस्य चैवास्य शस्त्रास्त्रविजयस्य च।।
किं त्वं साक्षाद्धनुर्वेदो रामो वा विप्रसत्तम।
अथ साक्षाद्धरिहयः साक्षाद्वा विष्णुरच्युतः।।
आत्मप्रच्छादनार्थं वै बाहुवीर्यमुपाश्रितः।
विप्ररूपं विधायेदं मन्ये मां प्रतियुध्यसे।।
न हि मामाहवे क्रुद्धमन्यः साक्षाच्छचीपतेः।
पुमान्योधयितुं शक्तः पाण्डवाद्वा किरीटिनः।।
`दग्धा जतुगृहे सर्वे पाण्डवाः सार्जुनास्तदा।
विनार्जुनं वा समरे मां निहन्तुमशक्नुवन्।।'
तमेवंवादिनं तत्र फाल्गुनः प्रत्यभाषत।
नास्मि कर्ण धनुर्वेदो नास्मि रामः प्रतापवान्।।
ब्राह्मणोऽस्मि युधां श्रेष्ठः सर्वशस्त्रभृतां वरः।
ब्राह्मे पौरन्दरे चास्त्रे निष्ठितोगुरुशासनात्।।
स्थितोऽस्म्यद्य रणे जेतुं त्वां वै वीर स्थिरो भव।
`निर्जितोऽस्मीति वा ब्रूहि ततो व्रज यथासुखम्।।
वैशंपायन उवाच।
एवमुक्त्वाऽथ कर्णस्य धनुश्चिच्छेद पाण्डवः।
ततोऽन्यद्धनुरादाय संयोद्धुं सन्दधे शरम्।।
दृष्ट्वा तच्चापि कौन्तेयश्छित्वा तद्धनुराशुगैः।
तथा वैकर्तनं कर्णं बिभेद समरेऽर्जुनः।।
ततः कर्णस्तु राधेयः छिन्नछन्वा महाबलः।
शरैरतीव विद्धाङ्गः पलायनमथाकरोत्।।
पुनरायान्मुहूर्तेन गृहीत्वा सशरं धनुः।
ववर्ष शरवर्षाणि पार्थं वैकर्तनस्तथा।।
तानि वै शरजालानि कौन्तेयोऽभ्यहनच्छरैः।
ज्ञात्वा सर्वाञ्शरान्घोरान्कर्णोऽदावद्द्रुतं बहिः।।'
ब्राह्मं तेजस्तदाऽजय्यं मन्यमानो महारथः।
अपरस्मिन्वनोद्देशे वीरौ शल्यवृकोदरौ।।
बलिनौ युद्धसंपन्नौ विद्यया च बलेन च।
अन्योन्यमाह्वयन्तौ तु मत्ताविव महागजौ।।
मुष्टिभिर्जानुभिश्चैव निघ्नन्तावितरेतरम्।
प्रकर्षणाकर्षणयोरभ्याकर्षविकर्षणैः।।
आचकर्षतुरन्योन्यं मुष्टिभिश्चापि जघ्नतुः।
ततश्चटचटाशब्दः सुघोरो ह्यभवत्तयोः।।
पाषाणसंपातनिभैः प्रहारैरभिजघ्नतुः।
मुहूर्तं तौ तदाऽन्योन्यं समरे पर्यकर्षताम्।।
ततो भीमः समुत्क्षिप्य बाहुभ्यां शल्यमाहवे।
अपातयत्कुरुश्रेष्ठो ब्राह्मणा जहसुस्तदा।।
तत्राश्चर्यं भीमसेनश्चकार पुरुषर्षभः।
यच्छल्यं पातितं भूमौ नावधीद्बलिनं बली।।
पातिते भीमसेनेन शल्ये कर्णे च शङ्किते।
`विस्मयः परमो जज्ञे सर्वेषां पश्यतां नृणाम्।।
ततो राजसमूहस्य पश्यतो वृक्षमारुजत्।
ततस्तु भीमं संज्ञाभिर्वारयामास धर्मराट्।।
आकारज्ञस्तथा भ्रातुः पाण्डवोऽपि न्यवर्तत।
धर्मराजश्च कौरव्य दुर्योधनममर्षणम्।।
अयोधयत्सभामध्ये पश्यतां वै महीक्षिताम्।
ततो दुर्योधनस्तं तु ह्यवज्ञाय युधिष्ठिरम्।।
नायोधयत्तदा तेन बलवान्वै सुयोधनः।
एतस्मिन्नन्तरेऽविध्यद्बाणेनानतपर्वणा।।
दुर्योधनममित्रघ्नं धर्मराजो युधिष्ठिरः।
ततो दुर्योधनः क्रुद्धो दण्डाहत इवोरगः।।
प्रत्ययुध्यत राजानं यत्नं परममास्थितः।
छित्त्वा राजा धनुः सज्यं धार्तराष्ट्रस्य संयुगे।।
अभ्यवर्षच्छरौघैस्तं स हित्वा प्राद्रवद्रणम्।
दुःशासनस्तु संक्रुद्धः सहदेवेन पार्थिव।।
युद्ध्वा च सुचिरं कालं सहदेवेन निर्जितः।
उत्सृज्य च धनुः सङ्ख्ये जानुभ्यामवनीं गतः।
उत्थाय सोऽभिदुद्राव सोसिं जग्राह चर्म च।।
विकर्णचित्रसेनाभ्यां निगृहीतश्च कौरवः।
मा युद्धमिति कौरव्य ब्राह्मणेनाबलेन वै।।
दुःसहो नकुलश्चोभौ युद्धं कर्तुं समुद्यतै।
तौ दृष्ट्वा कौरवा युद्धं वाक्यमूचुर्महाबलौ।।
निवर्तन्तां भवन्तो वै कुतो विप्रेषु क्रूरता।
दुर्बला ब्राह्मणाश्चेमे भवन्तो वै महाबलाः।।
द्वावत्र ब्राह्मणौ क्रूरौ वाय्विन्द्रसदृशौ बले।
ये वा के वा नमस्तेभ्यो गच्छामः स्वपुरं वयम्।।
एवं संभाषमाणास्ते न्यवर्तन्ताथ कौरवाः।
जहृषुर्ब्राह्मणास्तत्र समेतास्तत्र सङ्घशः।।
बहुशस्ते ततस्तत्र क्षत्रिया रणमूर्धनि।
प्रेक्षमाणास्तथाऽतिष्ठन्ब्राह्मणांश्च समन्ततः।।
ब्राह्मणाश्च जयं प्राप्ताः कन्यामादाय निर्ययुः।
विजिते भीमसेनेन शल्ये कर्णे च निर्जिते।।
दुर्योधने चापयाते तथा दुःशासने रणात्।'
शङ्किताः सर्वराजानः परिवव्रुर्वृकोदरम्।।
ऊचुश्च सहितास्तत्र साध्विमौ ब्राह्मणर्षभौ।
विज्ञायेतां क्वजन्मानौ क्वनिवासौ तथैव च।।
को हि राधासुतं कर्णं शक्तो योधयितुं रणे।
अन्यत्र रामाद्द्रोणाद्वा पाण्डवाद्वा किरीटिनः।।
कृष्णाद्वा देवकीपुत्रात्कृपाद्वापि शरद्वतः।
को वा दुर्योधनं शक्तः प्रतियोथयितुं रणे।।
तथैव मद्राधिपतिं शल्यं बलवतांवरम्।
बलदेवादृते वीरात्पाण्डवाद्वा वृकोदरात्।।
वीराद्दुर्योधनाद्वाऽन्यः शक्तः पातयितुं रणे।
क्रियतामवहारोऽस्माद्युद्धाद्ब्राह्मणसंवृतात्।।
ब्राह्मणा हि सदा रक्ष्याः सापराधाऽपिनित्यदा।
अथैनानुपलभ्येह पुनर्योत्स्याम हृष्टवत्।।
वैशंपायन उवाच।
तांस्तथावादिनः सर्वान्प्रसमीक्ष्य क्षितीश्वरान्।
अथान्यान्पुरुषांश्चापि कृत्वा तत्कर्म संयुगे।।
तत्कर्म भीमस्य समीक्ष्य कृष्णः
कुन्तीसुतौ तौ परिशङ्कमानः।
निवारयामास महीपतींस्ता-
न्धर्मेण लब्धेत्यनुनीय सर्वान्।।
एवं ते विनिवृत्तास्तु युद्धाद्युद्धविशारदाः।
यथावासं ययुः सर्वे विस्मिता राजसत्तमाः।।
वृत्तो ब्रह्मोत्तरो रङ्गः पाञ्चाली ब्राह्मणैर्वृता।
इति ब्रुवन्तः प्रययुर्ये तत्रासन्समागताः।।
ब्राह्मणैस्तु प्रतिच्छन्नौ रौरवाजिनवासिभिः।
कृच्छ्रेण जग्मतुस्तौ तु भीमसेनधनञ्जयौ।।
विमुक्तौ जनसंबाधाच्छत्रुभिः परिविक्षतौ।
कृष्णयानुगतौ तत्र नृवीरौ तौ विरेजतुः।।
पौर्णमास्यां घनैर्मुक्तौ चन्द्रसूर्याविवोदितौ।
तेषां माता बहुविधं विनाशं पर्यचिन्तयत्।।
अनागच्छत्सु पुत्रेषु भैक्षकाले च लिङ्घिते।
धार्तराष्ट्रैर्हताश्च स्युर्विज्ञाय कुरुपुङ्गवाः।।
मायान्वितैर्वा रक्षोभिः सुघोरैर्दृढवैरिभिः।
विपरीतं मतं जातं व्यासस्यापि महात्मनः।।
इत्येवं चिन्तयामासं सुतस्नेहावृता पृथा।
ततः सुप्तजनप्राये दुर्दिने मेघसंप्लुते।।
महत्यथापराह्णे तु घनैः सूर्य इवावृतः।
ब्राह्मणैः प्राविशत्तत्र जिष्णुर्भार्गववेश्म तत्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
स्वयंवरपर्वणि प़ञ्चाधिकद्विशततमोऽध्यायः।। 205 ।।