आदिपर्व

अध्यायः १९६

Adi Parva (Sanskrit) · Adhyaya 196
अक्षर का आकार

और्व उवाच।

उक्तवानस्मि यां क्रोधात्प्रतिज्ञां पितरस्तदा।
सर्वलोकविनाशाय न सा मे वितथा भवेत्।।

वृथारोषप्रतिज्ञो वै नाहं जीवितुमुत्सहे।
अनिस्तीर्णो हि मां रोषो दहेदग्निरिवारणिम्।।

यो हि कारणतः क्रोधं संजातं क्षन्तुमर्हति।
नालं स मनुजः सम्यक् त्रिवर्गं परिरक्षितुम्।।

अशिष्टानां नियन्ता हि शिष्टानां परिरक्षिता।
स्थाने रोषः प्रयुक्तः स्यान्नृपैः सर्वजिगीषुभिः।।

अश्रौषमहमूरुस्थो गर्भशय्यागतस्तदा।
आरावं मातृवर्गस्य भृगूणां क्षत्रियैर्वधे।।

सामरैर्हि यदा लोके भृगूणां क्षत्रियाधमैः।
आगर्भोत्सादनं क्षान्तं तदा मां मन्युराविशत्।।

प्रकीर्णकेशाः किल मे मातरः पितरस्तथा।
भयात्सर्वेषु लोकेषु नाधिजग्मुः परायणम्।।

तान्भृगूणां यदा दारान्कश्चिन्नाभ्युपपद्यत।
माता तदा दधारेयमूरुणैकेन मां शुभा।।

प्रतिषेद्धा हि पापस्य यदा लोकेषु विद्यते।
तदा सर्वेषु लोकेषु पापकृन्नोपपद्यते।।

यदा तु प्रतिषेद्धारं पापो न लभते क्वचित्।
तिष्ठन्ति बहवो लोकास्तदा पापेषु कर्मसु।।

जानन्नपि च यः पापं शक्तिमान्न नियच्छति।
ईशः सन्सोऽपि तेनैव कर्मणा संप्रयुज्यते।।

राजभिश्चेश्वरैश्चैव यदि वै पितरो मम।
शक्तैर्न शकितास्त्रातुमिष्टं मत्वेह जीवितम्।।

अत एषामहं क्रुद्धो लोकानामीश्वरो ह्यहम्।
भवतां च वचो नालमहं समभिवर्तितुम्।।

ममापि चेद्भवेदेवमीश्वरस्य सतो महत्।
उपेक्षमाणस्य पुनर्लोकानां किल्बिषाद्भयम्।।

यश्चायं मन्युजो मेऽग्निर्लोकानादातुमिच्छति।
दहेदेष च मामेव निगृहीतः स्वतेजसा।।

भवतां च विजानामि सर्वलोकहितेप्सुताम्।
तस्माद्विधद्ध्वं यच्छ्रेयो लोकानां मम चेश्वराः।।

पितर ऊचुः।

य एष मन्युजस्तेऽग्निर्लोकानादातुमिच्छति।
अप्सु तं मुञ्च भद्रं ते लोका ह्यप्सु प्रतिष्ठिताः।।

आपोमयाः सर्वरसाः सर्वमापोमयं जगत्।
तस्मादप्सु विमुञ्चेमं क्रोधाग्निं द्विजसत्तम।।

अयं तिष्ठतु ते विप्र यदीच्छसि महोदधौ।
मन्युजोऽग्निर्दहन्नापो लोका ह्यापोमयाः स्मृताः।।

एवं प्रतिज्ञा सत्येयं तवानघ भविष्यति।
न चैवं सामरा लोका गमिष्यन्ति पराभवम्।।

वसिष्ठ उवाच।

ततस्तं क्रोधजं तात और्वोऽग्निं वरुणालये।
उत्ससर्ज स चैवाप उपयुङ्क्ते महोदधौ।।

महद्धयशिरो भूत्वा यत्तद्वेदविदो विदुः।
तमग्निमुद्हिरद्वक्त्रात्पिबत्यापो महोदधौ।।

तस्मात्त्वमपि भद्रं ते न लोकान्हन्तुमर्हसि।
पराशरं पराँल्लोकाञ्जानञ्ज्ञानवतां वर।।

।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि षण्णवत्यधिकशततमोऽध्यायः।। 196 ।।