आदिपर्व

अध्यायः १८५

Adi Parva (Sanskrit) · Adhyaya 185
अक्षर का आकार

वैशंपायन उवाच।

गते भगवति व्यासे पाण्डवा हृष्टमानसाः।
`ते प्रयाता नरव्याघ्रा मात्रा सह परन्तपाः।।

ब्राह्मणान्गच्छतो पश्यन्पाञ्चालान्सगणान्पथि।
अथ ते ब्राह्मणा ऊचुः पाण्डवान्ब्रह्मचारिणः।।

क्व भवन्तो गमिष्यन्ति कुतो वाऽऽगच्छथेति ह।

युधिष्ठिर उवाच।

प्रयातानेकचक्रायाः सोदर्यान्देवदर्शिनः।।

भवन्तो नोऽभिजानन्तु सहितान्ब्रह्मचारिणः।
गच्छतो नस्तु पाञ्चालान्द्रुपदस्य पुरं प्रति।।

इच्छामो भवतो ज्ञातुं परं कौतूहलं हि नः।।

ब्राह्मणा ऊचुः।

एते सार्धं प्रयाताः स्मो वयमप्यत्र गामिनः।
तत्राप्यद्भुतसङ्काश उत्सवो भविता महान्।।

ततस्तु यज्ञसेनस्य द्रुपदस्य महात्मनः।
यासावयोनिजा कन्या स्थास्यते सा स्वयंवरे।।

दर्शनीयाऽनवद्याङ्गी सुकुमारी यशस्विनी।
धृष्टद्युम्नस्य भगिनी द्रोणशत्रोः प्रतापिनः।।

जातो यः पावकाच्छूरः सशरः सशरासनः।
सुसमिद्धान्महाभागः सोमकानां महारथः।।

यस्मिन्संजायमाने हि वागुवाचाशरीरिणी।
एष मृत्युश्च शिष्यश्च भारद्वाजस्य जायते।।

स्वसा तस्य तु वेद्याश्च जाता तस्मिन्महामखे।
स्त्रीरत्नमसितापाङ्गी श्यामा नीलोत्पलद्युतिः।।

तां यज्ञसेनस्य सुतां द्रौपदीं परमां स्त्रियम्।
गच्छामस्तत्र वै द्रष्टुं तं चैवास्याः स्वयंवरम्।।

राजानो राजपुत्राश्च यज्वानो भूरिदक्षिणाः।
स्वाध्यायवन्तः शुचयो महात्मानो धृतव्रताः।।

तरुणा दर्शनीयाश्च बलवन्तो दुरासदाः।
महारथाः कृतास्त्राश्च समेष्यन्तीह भूमिपाः।।

ते तत्र विविधं दानं विजयार्थं नरेश्वराः।
प्रदास्यन्ति धनं गाश्च भक्ष्यभोज्यानि सर्वशः।।

प्रतिलप्स्यामहे सर्वं दृष्ट्वा कृष्णां स्वयंवरे।
यं च सा क्षत्रियं रङ्गे कुमारी वरयिष्यति।।

तदा वैतालिकाश्चैव नर्तकाः सूतमागधाः।
निबोधकाश्च देशेभ्यः समेष्यन्ति महाबलाः।।

एतत्कौतूहलं तत्र दृष्ट्वा वै प्रतिगृह्य च।
सहास्माभिर्महात्मानो मात्रा सह निवत्स्यथ।।

दर्शनीयांश्च वः सर्वानेकरूपानवस्थितान्।
समीक्ष्य कृष्मा वरयेत्संगत्यान्यतमं पतिम्।।

अयमेकश्च वो भ्राता दर्शनीयो महाभुजः।
नियुध्यमानो विजयेत्संगत्य द्रविणं महत्।।

युधिष्ठिर उवाच।

परमं भो गमिष्यामो द्रष्टुं तत्र स्वयंवरम्।
द्रौपदीं यज्ञसेनस्य कन्यां तस्यास्तथोत्सवम्।।'

।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि पञ्चाशीत्यधिकशततमोऽध्यायः।। 185 ।।