आदिपर्व

अध्यायः १८४

Adi Parva (Sanskrit) · Adhyaya 184
अक्षर का आकार

वैशंपायन उवाच।

वसत्सु तेषु प्रच्छन्नं पाण्डवेषु महात्मसु।
आजगामाथ तान्द्रष्टुं व्यासः सत्यवतीसुतः।।

तमागतमभिप्रेक्ष्य प्रत्युद्गम्य परन्तपाः।
प्रणिपत्याभिवाद्यैनं तस्थुः प्राञ्जलयस्तदा।।

समनुज्ञाप्य तान्सर्वानासीनान्मुनिरब्रवीत्।
प्रच्छन्नं पूजितः पार्थैः प्रीतिपूर्वमिदं वचः।।

अपि धर्मेण वर्तध्वं शास्त्रेण च परन्तपाः।
अपि विप्रेषु पूजा वः पूजार्हेषु न हीयते।।

अथ धर्मार्थवद्वाक्यमुक्त्वा स भगवानृषिः।
विचित्राश्च कथास्तास्ताः पुनरेवेदमब्रवीत्।।

आसीत्तपोवने काचिदृषेः कन्या महात्मनः।
विलग्नमध्या सुश्रोणी सुभ्रूः सर्वगुणान्विता।।

कर्मभिः स्वकृतैः सा तु दुर्भगा समपद्यत।
नाध्यगच्छत्पतिं सा तु कन्या रूपवती सती।।

तपस्तप्तुमथारेभे पत्यर्थमसुखा ततः।
तोषयामास तपसा सा किलोग्रेण शङ्करम्।।

तस्याः स भगवांस्तुष्टस्तामुवाच यशस्विनीम्।
वरं वरय भद्रं ते वरदोऽस्मीति शङ्करः।।

अथेश्वरमुवाचेदमात्मनः सा वचो हितम्।
पतिं सर्वगुणोपेतमिच्छामीति पुनःपुनः।।

तामथ प्रत्युवाचेदमीशानो वदतां वरः।
पञ्च ते पतयो भद्रे भविष्यन्तीति भारताः।।

एवमुक्ता ततः कन्या देवं वरदमब्रवीत्।
एकमिच्छाम्यहं देव त्वत्प्रसादात्पतिं प्रभो।।

पुनरेवाब्रवीद्देव इदं वचनमुत्तमम्।
पञ्चकृत्वस्त्वया ह्युक्तः पतिं देहीत्यहं पुनः।।

देहमन्यं गतायास्ते यथोक्तं तद्भविष्यति।

व्यास उवाच।

द्रुपदस्य कुले जज्ञे सा कन्या देवरूपिणी।।

निर्दिष्टा भवतां पत्नी कृष्णा पार्षत्यनिन्दिता।
पाञ्चालनगरे तस्मान्निवसध्वं महाबलाः।
सुखिनस्तामनुप्राप्य भविष्यथ न संशयः।।

एवमुक्त्वा महाभागः पाण्डवान्स पितामहः।
पार्थानामन्त्र्य कुन्तीं च प्रातिष्ठत महातपाः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
चैत्ररथपर्वणि चतुरशीत्यधिकशततमोऽध्यायः।। 184 ।।