आदिपर्व
अध्यायः १८
सौतिरुवाच।
ततोऽभ्रशिखराकारैर्गिरिशृङ्गैरलंकृतम्।
मन्दरं पर्वतवरं लताजालसमाकुलम्।।
नानाविहंगसंघुष्टं नानादंष्ट्रिसमाकुलम्।
किंनरैरप्सरोभिश्च देवैरपि च सेवितम्।।
एकादश सहस्राणि योजनानां समुच्छ्रितम्।
अधोभूमेः सहस्रेषु तावत्स्वेव प्रतिष्ठितम्।।
तमुद्धर्तुमशक्ता वै सर्वे देवगणास्तदा।
विष्णुमासीनमभ्येत्य ब्रह्माणं चेदमब्रुवन्।।
भवन्तावत्र कुरुतां बुद्धिं नैःश्रेयसीं पराम्।
मन्दरोद्धरणे यत्नः क्रियतां च हिताय नः।।
सौतिरुवाच।
तथेति चाब्रवीद्विष्णुर्ब्रह्मणा सह भार्गव।
अचोदयदमेयात्मा फणीन्द्रं पद्मलोचनः।।
ततोऽनन्तः समुत्थाय ब्रह्मणा परिचोदितः।
नारायणेन चाप्युक्तस्तस्मिन्कर्मणि वीर्यवान्।।
अथ पर्वतराजानं तमनन्तो महाबलः।
उज्जहार बलाद्ब्रह्मन्सवनं सवनौकसम्।।
ततस्तेन सुराः सार्धं समुद्रमुपतस्थिरे।
तमूचुरमृतस्यार्थे निर्मथिष्यामहे जलम्।।
अपांपतिरथोवाच ममाप्यंशो भवेत्ततः।
सोढाऽस्मि विपुलं मर्दं मन्दरभ्रमणादिति।।
ऊचुश्च कूर्मराजानमकूपारे सुरासुराः।
अधिष्ठानं गिरेरस्य भवान्भवितुमर्हति।।
कूर्मेण तु तथेत्युक्त्वा पृष्ठमस्य समर्पितम्।
तं शैलं तस्य पृष्ठस्थं वज्रेणेन्द्रोऽभ्यपीडयत्।।
मन्थानं मन्दरं कृत्वा तथा योक्त्रं च वासुकिम्।
देवा मथितुमारब्धाः समुद्रं निधिमम्भसाम्।
अमृतार्थे पुरा ब्रह्मस्तथैवासुरदानवाः।।
एकमन्तमुपाश्लिष्टा नागराज्ञो महासुराः।।
विबुधाः सहिताः सर्वे यतः पुच्छं ततः स्थिताः।
अनन्तो भगवान्देवो यतो नारायणः स्थितः।।
`वासुकेरग्रमाश्लिष्टा नागराज्ञो महासुराः।'
शिर उत्क्षिप्य नागस्य पुनः पुनरवाक्षिपन्।।
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।
`वासुकेर्मथ्यमानस्य निःसृतेन विषेण च।
अभवन्मिश्रितं तोयं तदा भार्गवनन्दन।।
मथनान्मन्दरेणाथ देवदानवबाहुभिः।
विषं तीक्ष्णं समुद्भूतं हालाहलमिति श्रुतम्।।
देवाश्च दानवाश्चैव दग्धाश्चैव विषेण ह।
अपाक्रामंस्ततो भीता विषादमगमंस्तदा।।
ब्रह्माणमब्रुवन्देवाः समेत्य मुनिपुंगवैः।
मथ्यमानेऽमृते जातं विषं कालानलप्रभम्।।
तेनैव तापिता लोकास्तस्य प्रतिकुरुष्वह।
एवमुक्तस्तदा ब्रह्मा दध्यौ लोकेश्वरं हरम्।।
त्र्यक्षं त्रिशूलिनं रुद्रे देवदेवमुमापतिम्।
तदाऽथ चिन्तितो देवस्तज्ज्ञात्वा द्रुतमाययौ।।
तस्याथ देवस्तत्सर्वमाचचक्षे प्रजापतिः।
तच्छ्रुत्वा दवेदेवेशो लोकस्यास्य हितेप्सया।।
अपिबत्तद्विषं रुद्रः कालानलसमप्रभम्।
कण्ठे स्थापितवान्देवो लोकानां हितकाम्यया।।
यस्मात्तु नीलता कण्ठे नीलकण्ठस्ततः स्मृतः।
पीतमात्रे विषे तत्र रुद्रेणामिततेजसा।।
देवाः प्रीताः पुनर्जग्मुश्चक्रुर्वै कर्म तत्तथा।
मथ्यमानेऽमृतस्यार्थे भूयो वै देवदानवैः।।
वासुकेरथ नागस्य सहसा क्षिप्यतोऽसुरैः।
सधूमाः सार्चिषो वाता निष्पेतुरसकृन्मुखात्।।'
ते धूमसङ्घाः संभूता मेघसङ्घाः सविद्युतः।
अभ्यवर्षन्सुरगणाञ्श्रमसंतापकर्शितान्।।
तस्माच्च गिरिकूटाग्रात्प्रच्युताः पुष्पवृष्टयः।
सुरासुरगणान्सर्वान्समन्तात्समवाकिरन्।।
बभूवात्र महान्नादो महामेघरवोपमः।
उदधेर्मथ्यमानस्य मन्दरेण सुरासुरैः।।
तत्र नानाजलचरा विनिष्पिष्टा महाद्रिणा।
विलयं समुपाजग्मुः शतशो लवणाम्भसि।।
वारुणानि च भूतानि विविधानि महीधरः।
पातालतलवासीनि विलयं समुपानयत्।।
तस्मिंश्च भ्राम्यमाणेऽद्रौ संघृष्यन्तः परस्परम्।
न्यपतन्पतगोपेताः पर्वताग्रान्महाद्रुमाः।।
तेषां संघर्षजश्चाग्निरर्चिर्भिः प्रज्वलन्मुहुः।
विद्युद्भिरिव नीलाभ्रमावृणोन्मन्दरं गिरिम्।।
ददाह कुञ्जरांस्तत्र सिंहांश्चैव विनिर्गतान्।
विगतासूनि सर्वाणि सत्त्वानि विविधानि च।।
तमग्निममरश्रेष्ठः प्रदहन्तमितस्ततः।
वारिणा मेघजेनेन्द्रः शमयामास सर्वशः।।
ततो नानाविधास्तत्र सुस्रुवुः सागराम्भसि।
महाद्रुमाणां निर्यासा बहवश्चौषधीरसाः।।
तेषाममृतवीर्याणां रसानां पयसैव च।
अमरत्वं सुरा जग्मुः काञ्चनस्य च निःस्रवात्।।
ततस्तस्य समुद्रस्य तञ्जातमुदकं पयः।
रसोत्तमैर्विमिश्रं च ततः क्षीरादभूद्धृतम्।।
ततो ब्रह्माणमासीनं देवा वरदमब्रुवन्।
श्रान्ताः स्म सुभृशं ब्रह्मन्नोद्भवत्यमृतं च तत्।।
ऋते नारायणं देवं सर्वेऽन्ये देवदानवाः।
चिरारब्धमिदं चापि सागरस्यापि मन्थनम्।।
`ग्लानिरस्मान्समाविष्टा न चात्रामृतमत्थितम्।
सौतिरुवाच।
देवानां वचनं श्रुत्वा ब्रह्मा लोकपितामहः'।।
ततो नारायणं देवं वचनं चेदमब्रवीत्।
विधत्स्वैषां बलं विष्णो भवानत्र परायणम्।।
विष्णुरुवाच।
बलं ददामि सर्वेषां कर्मैतद्ये समास्थिताः।
क्षोभ्यतां कलशः सर्वैमन्दरः परिवर्त्यताम्।।
सौतिरुवाच।
नारायणवचः श्रुत्वा बलिनस्ते महोदधेः।
तत्पयः सहिता भूयश्चक्रिरे भृशमाकुलम्।।
`तत्र पूर्वं विषं जातं तद्ब्रह्मवचनाच्छिवः।
प्राग्रसल्लोकरक्षार्थं ततो ज्येष्ठा समुत्थिता।
कृष्णरूपधरा देवी सर्वाभरणभूषिता।।'
ततः शतसहस्रांशुर्मथ्यमानात्तु सागरात्।
प्रसन्नात्मा समुत्पन्नः सोमः शीतांशुरुज्ज्वलः।।
श्रीरनन्तरमुत्पन्ना घृतात्पाण्डुरवासिनी।
सुरा देवी समुत्पन्ना तुरगः पाण्डुरस्तथा।।
कौस्तुभस्तु मणिर्दिव्य उत्पन्नो घृतसंभवः।
मरीचिविकचः श्रीमान्नारायणउरोगतः।।
श्रीः सुरा चैव सोमश्च तुरगश्च मनोजवः।
`पारिजातश्च तत्रैव सुरभिश्च महामुने।
जज्ञाते तौ तदा ब्रह्मन्सर्वकामफलप्रदौ।।
ततो जज्ञे महाकायश्चतुर्दन्तो महागजः।
कपिला कामवृक्षश्च कौस्तुभश्चाप्सरोगणः।'
यतो देवास्ततो जग्मुरादित्यपथमाश्रिताः।।
धन्वन्तरिस्ततो देवो वपुष्मानुदतिष्ठत।
श्वेतं कमण्डलुं बिभ्रदमृतं यत्र तिष्ठति।।
एतदत्यद्भुतं दृष्ट्वा दानवानां समुत्थितः।
अमृतार्थे महान्नादो ममेदमिति जल्पताम्।।
ततो नारायणो मायां मोहिनीं समुपाश्रितः।
स्त्रीरूपमद्भुतं कृत्वा दानवानभिसंश्रितः।।
ततस्तदमृतं तस्यै ददुस्ते मूढचेतसः।
स्त्रियै दानवदैतेयाः सर्वे तद्गतमानसाः।।
`सा तु नारायणी माया धारयन्ती कमण्डलुम्।
आस्यमानेषु दैत्येषु पङ्क्त्या च प्रति दानवैः।।
देवानपाययद्देवी न दैत्यांस्ते च चुक्रुशुः।।
।। इति श्रीमन्महाबारते आदिपर्वणि
आस्तीकपर्वणि अष्टादशोऽध्यायः।। 18 ।।