आदिपर्व

अध्यायः १७

Adi Parva (Sanskrit) · Adhyaya 17
अक्षर का आकार

सौतिरुवाच।

एतस्मिन्नेव काले तु भगिन्यौ ते तपोधन।
अपश्यतां समायान्तमुच्चैः श्रवसमन्तिकात्।।

यं तु देवगणाः सर्वे हृष्टरूपमपूजयन्।
मथ्यमानेऽमृते जातमश्वरत्नमनुत्तमम्।।

अमोघबलमश्वानामुत्तमं जविनां वरम्।
श्रीमन्तमजरं दिव्यं सर्वलक्षणपूजितम्।।

शौनक उवाच।

कथं तदमृतं देवैर्मथितं क्व च शंस मे।
`कारणं चात्र मथने संजातममृतात्परम्।।'
यत्र जज्ञे महावीर्यः सोऽश्वराजो महाद्युतिः।।

सौतिरुवाच।

ज्वलन्तमचलं मेरुं तेजोराशिमनुत्तमम्।
आक्षिपन्तं प्रभां भानोः स्वशृङ्गैः काञ्चनोज्ज्वलैः।।

कनकाभरणं चित्रं देवगन्धर्वसेवितम्।
अप्रमेयमनाधृष्यमधर्मबहुलैर्जनैः।।

व्यालैरावारितं घोरैर्दिव्यौषधिविदीपितम्।
नाकमावृत्य तिष्ठन्तमुच्छ्रयेण महागिरिम्।।

अगम्यं मनसाप्यन्यैर्नदीवृक्षसमन्वितम्।
नानापतगसङ्घैश्च नादितं सुमनोहरैः।।

तस्य शृङ्गमुपारुह्य बहुरत्नाचितं शुभम्।
अनन्तकल्पमद्वन्द्वं सुराः सर्वे महौजसः।।

ते मन्त्रयितुमारब्धास्तत्रासीना दिवौकसः।
अमृताय समागम्य तपोनियमसंयुताः।।

तत्र नारायणो देवो ब्रह्माणमिदमब्रवीत्।
चिन्तयत्सु सुरेष्वेवं मन्त्रयत्सु च सर्वशः।।

देवैरसुरसङ्घैश्च मथ्यतां कलशोदधिः।
भविष्यत्यमृतं तत्र मथ्यमाने महोदधौ।।

सर्वौषधीः समावाप्य सर्वरत्नानि चैव ह।
मन्थध्वयुदधिं देवा वेत्स्यध्वममृतं ततः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
आस्तीकपर्वणि सप्तदशोऽध्यायः।। 17 ।।