आदिपर्व

अध्यायः १७१

Adi Parva (Sanskrit) · Adhyaya 171
अक्षर का आकार

जनमेजय उवाच।

एकचक्रां गतास्ते तु कुन्तीपुत्रा महारथाः।
अत ऊर्ध्वं द्विजश्रेष्ठ किमकुर्वत पाण्डवाः।।

वैशंपायन उवाच।

एकचक्रां गतास्ते तु कन्तीपुत्रा महारथाः।
ऊषुर्नातिचिरं कालं ब्राह्मणस्य निवेशने।।

रमणीयानि पश्यन्तो वनानि विविधानि च।
पार्थिवानपि चोद्देशान्सरितश्च सरांसि च।।

चेरुर्भैश्रं तदा ते तु सर्व एव विशांपते।
`युधिष्ठिरं च कुन्तीं च चिन्तयन्त उपासते।।

भैक्षं चरन्तस्तु तदा जटिला ब्रह्मचारिणः।
बभूवुर्नागराणां च गुणैः संप्रियदर्शनाः।।

नागरा ऊचुः।

दर्शनीया द्विजाः शुभ्रा देवगर्भोपमाः शुभाः।
भैक्षानर्हाश्च राज्यार्हाः सुकुमारास्तपस्विनः।।

नैते यथार्थतो विप्राः सुकुमारास्तपस्विनः।
चरन्ति भूमौ प्रच्छन्नाः कस्माच्चित्कारणादिह।।

सर्वलक्षणसंपन्ना भैक्षं नार्हन्ति नित्यशः।
कार्यार्थिनश्चरन्तीति तर्कयन्त इति ब्रुवन्।।

बन्धूनामागमान्नित्यमुपचारैस्तु नागराः।
भाजनानि च पूर्णानि भक्ष्यभोज्यैरकारयन्।।

मौनव्रतेन संयुक्ता भैश्रं गृह्णन्ति पाण्डवाः।
माता चिरगतान्ज्ञात्वा शोचन्ती पाण्डवान्प्रति।।

दुःखाश्रुपूर्णनयना लिखन्त्यास्ते महीतलम्।
भिक्षित्वा द्विजगेहेषु चिन्तयन्तश्च मातरम्।।

त्वरमाणा निवर्तन्ते मातृगौरवयन्त्रिताः।
मात्रे निवेदयन्ति स्म कुन्त्यै भैक्षं दिवानिशम्।।

सर्वं संपूर्णभैक्षान्नं मातृदत्तं पृथक्पृथक्।
विभज्याभुञ्जतेष्टं ते यथाभागं पृथक्पृथक्।।

अर्धं स्म भुञ्जते पञ्च सह मात्रा परन्तपाः।
अर्धं सर्वस्य भैक्षस्य भीमो भुङ्क्ते महाबलः।।

स नाशितश्च भवति कल्याणान्नभुजिः पुरा।
स वैवर्ण्यं च कार्श्यं च जगामातृप्तिकारितम्।।

आज्यबिन्दुर्यथा वह्नौ महति ज्वलिते भवेत्।
तथार्धभागं भीमस्य भिक्षान्नस्य नरोत्तम।।

तथैव वसतां तत्र तेषां राजन्महात्मनाम्।
अतिचक्राम सुमहान्कालोऽथ भरतर्षभ।।

भीमोऽपि क्रीडयित्वाथ मिथो ब्राह्मणबन्धुषु।
कुम्भकारेण संबन्धाल्लेभे पात्रं महत्तरम्।।

कुम्भकारोऽददात्पात्रं महत्कृत्वातिमात्रकम्।
प्रहसन्भीमसेनाय विस्मितस्तस्य कर्मणा।।

तस्याद्भुतं कर्म कुर्वन्मृद्भारं महदाददे।
मृद्भारैः शतसाहस्रैः कुम्भकारमतोषयत्।।

चक्रे चक्रे च मृद्भाण्डान्सततं भैक्षमाचरन्।
तदादायागतं दृष्ट्वा हसन्ति प्रहसन्ति च।।

भक्ष्यभोज्यानि विविधान्यादाय प्रक्षिपन्ति च।
एवमेव सदा भुक्त्वा मात्रे वदति वै रहः।
न चाशितोऽस्मि भवति कल्याणान्नभृतः पुरा।।'

ततः कदाचिद्भैक्षाय गतास्ते पुरषर्षभाः।
संगत्य भीमसेनस्तु तत्रास्ते पृथया सह।।

अथार्तिजं महाशब्दं ब्राह्मणस्य निवेशने।
भृशमुत्पतितं घोरं कुन्ती शुश्राव भारत।।

रोरुयमाणांस्तान्दृष्ट्वा परिदेवयतश्च सा।
कारुण्यात्साधुभावाच्च कुन्ती राजन्न चक्षमे।।

मथ्यमानेव दुःखेन हृदयेन पृथा तदा।
उवाच भीमं कल्याणी कृपान्वितमिदं वचः।।

वसामः सुसुखं पुत्र ब्राह्मणस्य निवेशने।
अज्ञाता धार्तराष्ट्रस्य सत्कृतां वीतमन्यवः।।

सा चिन्तये सदा पुत्र ब्राह्मणस्यास्य किं न्वहम्।।
कदा प्रियं करिष्यामि यत्कुर्युरुषिताः सुखम्।।

एतावान्पुरुषस्तात कृतं यस्मिन्न नश्यति।
यावच्च कुर्यादन्योऽस्य कुर्यादभ्यधिकं ततः।।

तदिदं ब्राह्मणस्यास्य दुःखमापतितं ध्रुवम्।
न तत्र यदि साहाय्यं कुर्याम सुकृतं भवेत्।।

भीमसेन उवाच।

ज्ञायतामस्य यद्दुःखं यतश्चैव समुत्थितम्।
विदित्वा व्यवसिष्यामि यद्यपि स्यात्सुदुष्करम्।।

वैशंपायन उवाच।

एवं तौ कथयन्तौ च भूयः सुश्रुवतुः स्वनम्।
आर्तिजं तस्य विप्रस्य सभार्यस्य विशांपते।।

अन्तःपुरं ततस्तस्य ब्राह्मणस्य महात्मनः।
विवेश त्वरिता कुन्ती बद्धवत्सेव सौरभी।।

ततस्तं ब्राह्मणं तत्र भार्यया च सुतेन च।
दुहित्रा चैव सहितं ददर्श विकृताननम्।।

ब्राह्मण उवाच।

धिगिदं जीवितं लोके गतसारमनर्थकम्।
दुःखमूलं पराधीनं भृशमप्रियभागि च।।

जीविते परमं दुःखं जीविते परमो ज्वरः।
जीविते वर्तमानस्य द्वन्द्वानामागमो ध्रुवः।।

आत्मा ह्येको हि धर्मार्थौ कामं चैव निषेवते।
एतैश्च विप्रयोगोऽपि दुःखं परमनन्तकम्।।

आहुः केचित्परं मोक्षं स च नास्ति कथंचन।
अर्थप्राप्तौ तु नरकः कृत्स्न एवोपपद्यते।।

अर्थेप्सुता परं दुःखमर्थप्राप्तौ ततोऽधिकम्।
जातस्नेहस्य चार्थेषु विप्रयोगे महत्तरम्।।

`यावन्तो यस्य संयोगा द्रव्यैरिष्टैर्भवन्त्युत।
तावन्तोऽस्य निख्यन्ते हृदये शोकशङ्कवः।।

तदिदं जीवितं प्राप्य अल्पकालं महाभयम्।
त्यागो हि न मया प्राप्तो भार्यया सहितेन च।।'

न हि योगं प्रपश्यामि येन मुच्येयमापदः।
पुत्रदारेण वा सार्धं प्राद्रवेयमनामयम्।।

यतितं वै मया पूर्वं वेत्थ ब्राह्मणि तत्तथा।
क्षेमं यतस्ततो गन्तुं त्वया तु मम न श्रुतम्।।

इह जाता विवृद्धाऽस्मि पिता माता ममेति वै।
उक्तवत्यसि दुर्मेधे याच्यमाना मयाऽसकृत्।।

स्वर्गतोऽपि पिता वृद्धस्तथा माता चिरं तव।
बन्धवा भूतपूर्वाश्च तत्र वासे तु का रतिः।।

`न भोजनं विरुद्धं स्यान्न स्त्रीदेशो निबन्धनः।
सुदूरमपि तं देशं व्रजेद्गरुडहंसवत्।।'

सोऽयं ते बन्धुकामाया अशृण्वन्त्या वचो मम।
बन्धुप्रणाशः संप्राप्तो भृशं दुःखकरो मम।।

अथवा मद्विनाशो यं न हि शक्ष्यामि कंचन।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्।।

सहधर्मचरीं दान्तां नित्यं मातृसमां मम।
सखायं विहितां देवैर्नित्यं परमिकां गतिम्।।

पित्रा मात्रा च विहितां सदा गार्हस्थ्यभागिनीम्।
वरयित्वा यथान्यायं मन्त्रवत्परिणीय च।।

कुलीनां शीलसंपन्नामपत्यजननीमपि।
त्वामहं जीवितस्यार्थे साध्वीमनपकारिणीम्।।

परित्यक्तुं न शक्ष्यामि भार्यां नित्यमनुव्रताम्।
कुत एव परित्यक्तुं सुतां शक्ष्याम्यहं स्वयम्।।

बालामप्राप्तवयसमजातव्यञ्जनाकृतिम्।
भर्तुरर्थाय निक्षिप्तां न्यासं धात्रा महात्मना।।

यया दौहित्रजाँल्लोकानाशंसे पितृभिः सह।
स्वयमुत्पाद्य तां बालां कथमुत्स्रष्टुमुत्सहे।।

मन्यन्ते केचिदधिकं स्नेहं पुत्रे पितुर्नराः।
कन्यायां केचिदपरे मम तुल्यावुभौ स्मृतौ।।

यस्यां लोकाः प्रसूतिश्च स्थिता नित्यमथो सुखम्।
अपापां तामहं बालां कथमुत्स्रष्टुमुत्सहे।।

`कुत एव परित्यक्तुं सुतं शक्ष्याम्यहं स्वयम्।
प्रार्थयेयं परां प्रीतिं यस्मिन्स्वर्गफलानि च।।

यस्य जातस्य पितरो मुखं दृष्ट्वा दिवं गताः।
अहं मुक्तः पितृऋणाद्यस्य जातस्य तेजसा।।

दयितं मे कथं बालमहं त्यक्तुमिहोत्सहे।
तमहं ज्येष्ठपुत्रं मे कुलनिर्हारकं विभुम्।।

मम पिण्डोदकनिधिं कथं त्यक्ष्यामि पुत्रकम्।
त्यागोऽयं मम संप्राप्तो ममन्वा मे सुतस्य वा।।

तव वा तव पुत्र्या वा अत्र वासस्य तत्फलम्।
न शृणोषि वचो मह्यं तत्फलं भुङ्क्ष्व भामिनि।।

अथवाहं न शक्ष्यामि स्वयं मर्तुं सुतं मम।
एकं त्यक्तुं न शक्नोति भवतीं च सुतामपि।।

अथ मद्रक्षणार्थं वा न हि शक्ष्यामि कंचन।
परित्यक्तुमहं बन्धुं स्वयं जीवन्नृशंसवत्।।

आत्मानमपि चोत्सृज्य गते प्रेतवशं मयि।'
त्यक्ता ह्येते मया व्यक्तं नेह शक्ष्यन्ति जीवितुम्।।

एषां चान्यतमत्यागो नृशंसो गर्हितो बुधैः।
आत्मत्यागे कृते चेमे मरिष्यन्ति मया विना।।

स कृच्छ्रामहमापन्नो न शक्तस्तर्तुमापदम्।
अहो धिक्कां गतिं त्वद्य गमिष्यामि सबान्धवः।
सर्वैः सह मृतं श्रेयो न च मे जीवितुं क्षमम्।।

।। इति श्रीमन्महाभारते आदिपर्वणि
बकवचपर्वणि एकसप्तत्यधिकशततमोऽध्यायः।। 171 ।।