आदिपर्व
अध्यायः १७०
`वैशंपायन उवाच।
ततस्ते पाण्डवाः सर्वे शालिहोत्राश्रमे तदा।
पूजितास्तेन वन्येन तमामन्त्र्य महामुनिम्।।
जटाः कृत्वाऽऽत्मनः सर्वे वल्कलाजिनवाससः।
कुन्त्या सह महात्मानो बिभ्रतस्तापसं वपुः।।
ब्राह्मं वेदमधीयाना वेदाङ्गानि च सर्वशः।
नीतिशास्त्रं च धर्मज्ञा न्यायज्ञानं च पाण्डवाः।।
शालिहोत्रप्रसादेन लब्ध्वा प्रीतिमवाप्य च।'
ते वनेन वनं गत्वा घ्नन्तो मृगगणान्बहून्।
अपक्रम्य ययू राजंस्त्वरमाणा महारथाः।।
मत्स्यांस्त्रिगर्तान्पाञ्चालान्कीचकानन्तरेण च।
रमणीयान्वनोद्देशान्प्रेक्षमाणाः सरांसि च।।
क्वचिद्वहन्तो जननीं त्वरमाणा महारथाः।
`क्वचिच्छ्रान्ताश्च कान्तारे क्वचित्तिष्ठन्ति हर्षिताः'।।
क्वचिच्छन्देन गच्छन्तस्ते जग्मुः प्रसभं पुनः।
पथि द्वैपायन सर्वे ददृशुः स्वपितामहम्।।
तेऽभिवाद्य महात्मानं कृष्णद्वैपायनं तदा।
तस्थुः प्राञ्जलयः सर्वे सह मात्रा परन्तपाः।।
व्यास उवाच।
तदाश्रमान्निर्गमनं मया ज्ञातं नरर्षभाः।
घटोत्कचस्य चोत्पत्तिं ज्ञात्वा प्रीतिरवर्धत।।
इदं नगरमभ्याशे रमणीयं निरामयम्।
वसतेह प्रतिच्छन्ना ममागमनकाङ्क्षिणः।।
वैशंपायन उवाच।
एवं स तान्समाश्वास्य व्यासः पार्तानरिन्दमान्।
एकचक्रामभिगतां कुन्तीमाश्वासयत्प्रभुः।।
श्रीव्यास उवाच।
कुर्यान्न केवलं धर्मं दुष्कृतं च तथान नरः।
सुकृतं दुष्कृतं लोके न कर्ता नास्ति कश्चन।।
अवश्यं लभते कर्ता फलं वै पुण्यपापयोः।
दुष्कृतस्य फलेनैव प्राप्तं व्यसनमुत्तमम्।।
तस्मान्माधवि मानार्हे मा च शोके मनः कृथाः।
वैशंपायन उवाच।
एवमुक्त्वा निवेश्यैनान्ब्राह्मणस्य निवेशने।।
जगाम भगवान्व्यासो यताकाममृषिः प्रभुः।।
।। इति श्रीमन्महाभारते आदिपर्वणि
हिडिम्बवधपर्वणि सप्तत्यधिकशततमोऽध्यायः।। 170 ।।