आदिपर्व

अध्यायः १६३

Adi Parva (Sanskrit) · Adhyaya 163
अक्षर का आकार

वैशंपायन उवाच।

तेन विक्रममाणेन ऊरुवेगसमीरितम्।
वनं सवृक्षविटपं व्याघूर्णितमिवाभवत्।।

जङ्गावातो ववौ चास्य शुचिशुक्रागमे यथा।
आवर्जितालतावृक्षं मार्गं चक्रे महाबलः।।

स मृद्गन्पुष्पितांश्चैव फलितांश्च वनस्पतीन्।
अवरुज्य ययौ गुल्मान्पथस्तस्य समीपजान्।।

स रोषित इव क्रुद्धो वने भञ्जन्महाद्रुमान्।
त्रिप्रस्रुतमदः शुष्मी षष्टिवर्षो मतङ्गराट्।।

गच्छतस्तस्य वेगेन तार्क्ष्यमारुतरंहसः।
भीमस्य पाण्डुपुत्राणां मूर्च्छेव समजायत।।

असकृच्चापि सतीर्य दूरपारं भुजप्लवैः।
पथि प्रच्छन्नमासेदुर्धार्तराष्ट्रभयात्तदा।।

कृच्छ्रेण मातरं चैव सुकुमारीं यशस्विनीम्।
अवहत्स तु पृष्ठेन रोधःसु विषमेषु च।।

अगमच्च वनोद्देशमल्पमूलफलोदकम्।
क्रूरपक्षिमृगं घोरं सायाह्ने भरतर्षभ।।

घोरा समभवत्सन्ध्या दारुणा मृगपक्षिणः।
अप्रकाशा दिशः सर्वा वातैरासन्ननार्तवैः।।

शीर्णपर्णफलै राजन्बहुगुल्मक्षुपद्रुमैः।
भग्नावभुग्नभूयिष्ठैर्नानाद्रुमसमाकुलैः।।

ते श्रमेण च कौरव्यास्तृष्णया च प्रपीडिताः।
नाशक्नुवंस्तदा गन्तुं निद्रया च प्रवृद्धया।।

न्यविशन्ति हि ते सर्वे निरास्वादे महावने।
`रात्र्यामेव गतास्तूर्णं चतुर्विंशतियोजनम्।'
ततस्तृषा परिक्लन्ता कुन्ती वचनमब्रवीत्।।

माता सती पाण्डवानां पञ्चानां मध्यतः स्थिता।
तृष्णया हि परीताऽहमनाथेव महावने।।

`इतः परं तु शक्ताहं गन्तुं च न पदात्पदम्।
शयिष्ये वृक्षमूलेऽत्र धार्तराष्ट्रा हरन्तु माम्।।

शृणु भीम वचो मह्यं तव बाहुबलात्पुरः।
स्थातुं न शक्ताः कौरव्याः किं बिभेषि पृथासुत।।

अन्यो रथो न मेऽस्तीह भीमसेनादृते भुवि।
धार्तराष्ट्राद्वृथा भीरुर्न मां स्वप्तुमिहेच्छसि।।

वैशंपायन उवाच।

भीमपृष्ठस्थिता चेत्थं दूयमानेन चेतसा।
निश्यध्वनि रुदन्ती सा निद्रावश्मुपागता।।'

तच्छ्रुत्वा भीमसेनस्य मातृस्नेहात्प्रजल्पितम्।
कारुण्येन मनस्तप्तं गमनायोपचक्रमे।।

ततो भीमो वनं घोरं प्रविश्य विजनं महत्।
न्यग्रोधं विपुलच्छायं रमणीयं ददर्श ह।।

तत्र निक्षिप्य तान्सर्वानुवाच भरतर्षभः।
पानीयं मृगयामीह तावद्विश्रम्यतामिह।।

एते रुवन्ति मधुरं सारसा जलचारिणः।
ध्रुवमत्र जलस्थानं महच्चेति मतिर्मम।।

अनुज्ञातः स गच्छेति भ्रात्रा ज्येष्ठेन भारत।
जगाम तत्र यत्र स्म सारसा जलचारिणः।।

`अपश्यत्पद्मिनीखण्डमण्डितं स सरोवरम्।'
स तत्र पीत्वा पानीयं स्नात्वा च भरतर्षभ।।

तेषामर्थे च जग्राह भ्रातॄणां भ्रातृवत्सलः।
उत्तरीयेण पानीयमानयामास भारत।।

`पङ्कजानामनेकैश्च पत्रैर्बध्वा पृथक्पृथक्।'
गव्यूतिमात्रादागत्य त्वरितो मातरं प्रति।
शोकदुःखपरीतात्मा निशश्वासोरगो यथा।।

स सुप्तां मातरं `भ्रातॄन्निद्राविद्रावितौजसः।
महारौद्रे वने घोरे वृक्षमूले सुशीतले।।

विक्षिप्तकरपादांश्च दीर्घोच्छ्वासान्महाबलान्।
ऊर्ध्ववक्त्रान्महाकायान्पञ्चेन्द्रानिव भूपते।।

अज्ञातवृक्षनित्यस्थप्रेतराक्षससाध्वसान्।
दृष्ट्वा वै भृशशोकार्तो बिललापानिलात्मजः।।'

भृशं शोकपरीत्मा विललाप वृकोदरः।।

अतः कष्टतरं किं नु द्रष्टव्यं हि भविष्यति।
यत्पश्यामि महीसुप्तान्भ्रातॄनद्य सुमन्दभाक्।।

शयनेषु परार्ध्येषु ये पुरा वारणावते।
नाधिजग्मुस्तदा निद्रां तेऽद्य सुप्ता महीतले।।

स्वसारं वसुदेवस्य शत्रुसङ्घावमर्दिनः।
कुन्तिराजसुतां कुन्तीं सर्वलक्षणपूजिताम्।।

स्नुषां विचित्रवीर्यस्य भार्यां पाण्डोर्महात्मनः।
तथैव चास्मज्जननीं पुण्डरीकोदरप्रभाम्।।

सुकुमारतरामेनां महार्हशयनोचिताम्।
शयानां पश्यताऽद्येह पृथिव्यामतथोचिताम्।।

धर्मादिन्द्राच्च वाताच्च सुपुवे या सुतानिमान्।
सेयं भूमौ परिश्रान्ता शेषे प्रासादशायिनी।।

किं नु दुःखतरं शक्यं मया द्रष्टुमतः परम्।
योऽहमद्य नरव्याघ्रान्सुप्तान्पश्यामि भूतले।।

त्रिषु लोकेषु यो राज्यं धर्मनित्योऽर्हते नृपः।
सो।़यं भूमौ परिश्रान्तः शेते प्राकृतवत्कथम्।।

अयं नीलाम्बुदश्यामो नरेष्वप्रतिमोऽर्जुनः।
शेते प्राकृतवद्भूमौ ततो दुःखतरं नु किम्।।

अश्विनाविव देवानां याविमौ रूपसंपदा।
तौ प्राकृतवदद्येमौ प्रसुप्तौ धरणीतले।।

ज्ञातयो यस्य नै स्युर्विषमाः कुलपांसनाः।
स जीवेत सुखं लोके ग्रामद्रुम इवैकजः।।

एको वृक्षो हि यो ग्रामे भवेत्पर्णफलान्वितः।
चैत्यो भवति निर्ज्ञातिरध्वनीनैश्च पूजितः।।

येषां च बहवः शूरा ज्ञातयो धर्ममाश्रिताः।
ते जीवन्ति सुखं लोके भवन्ति च निरामयाः।।

बलवन्तः समृद्धार्था मित्रबान्धवनन्दनाः।
जीवन्त्यन्योन्यमाश्रित्य द्रुमाः काननजा इव।।

वयं तु धृतराष्ट्रेण दुष्पुत्रेण दुरात्मना।
`राज्यलुब्धेन मूर्खेण दुर्मन्त्रिसहितेन वै।।

दुष्टेनाधर्मशीलेन स्वार्थनिष्ठैकबुद्धिना।'
विवासिता न दग्धाश्च क्षत्तुर्बुद्धिपराक्रमात्।।

तस्मान्मुक्ता वयं दाहादिमं वृक्षमुपाश्रिताः।
कां दिशं प्रतिपत्स्यामः प्राप्ताः क्लेशमनुत्तमम्।।

सकामो भव दुर्बुद्धे धार्तराष्ट्राल्पदर्शन।
नूनं देवाः प्रसन्नास्ते नानुज्ञां मे युधिष्ठिरः।।

प्रयच्छति वधे तुभ्यं तेन जीवसि दुर्मते।
नन्वद्य ससुतामात्यं सकर्णानुजसौबलम्।।

गत्वा क्रोधसमाविष्टः प्रेषयिष्ये यमक्षयम्।
किं नु शक्यं मया कर्तुं यत्तेन क्रुध्यते नृपः।।

धर्मात्मा पाण्डवश्रेष्ठः पापाचार युधिष्ठिरः।
एवमुक्त्वा महाबाहुः क्रोधसन्दीप्तमानसः।।

करं करेण निष्पिष्य निःश्वसन्दीनमानसः।
पुनर्दीनमना भूत्वा शान्तार्चिरिव पावकः।।

भ्रातॄन्महीतले सुप्तानवैक्षत वृकोदरः।
विश्वस्तानिव संविष्टान्पृथग्जनसमानिव।।

नातिदूरेण नगरं वनादस्माद्धि लक्षये।
जागर्तव्ये स्वपन्तीमे हन्त जागर्म्यहंस्वयम्।।

प्राश्यन्तीमे जलं पश्चात्प्रतिबुद्धा जितक्लमाः।
इति भीमो व्यवस्यैव जजागार स्वयं तदा।।

।। इति श्रीमन्महाभारते आदिपर्वणि
जतुगृहपर्वणि त्रिषष्ट्यधिकशततमोऽध्यायः।। 163 ।।

।। समाप्तं जतुर्गृहपर्व ।।