आदिपर्व
अध्यायः १६२
वैशंपायन उवाच।
अथ रात्र्यां व्यतीतायामशेषो नागरो जनः।
तत्राजगाम त्वरितो दिदृक्षुः पाण्डुनन्दनान्।।
निर्वापयन्तो ज्वलनं ते जना ददृशुस्ततः।
जातुषं तद्गृहं दग्धममात्यं च पुरोचनम्।।
नूनं दुर्योधनेनेदं विहितं पापकर्मणा।
पाण्डवानां विनाशायेत्येवं ते चुक्रुशुर्जनाः।।
विदिते धृतराष्ट्रस्य धार्तराष्ट्रो न संशयः।
दग्धवान्पाण्डुदायादान्न ह्येतत्प्रतिषिद्धवान्।।
नूनं शान्तनवोऽपीह न धर्मनुवर्तते।
द्रोणश्च विदुरश्चैव कृपश्चान्ये च कौरवाः।।
`नावेक्षन्ते ह तं धर्मं धर्मात्मानोऽप्यहो विधेः।
श्रुतवन्तोऽपि विद्वांसो धनवद्वशगा अहो।।
साधूननाथान्धर्मिष्ठात्सत्यव्रतपरायणान्।
नावेक्षन्ते महान्तोऽपि दैवं तेषां परायणम्।।
ते वयं धृतराष्ट्राय प्रेषयामो दुरात्मने।
संवृत्तस्ते परः कामः पाण्डवान्दग्धवानसि।।
ततो व्यपोहमानास्ते पाण्डवार्थे हुताशनम्।
निषादीं ददृशुर्दग्धां पञ्चपुत्रामनागसम्।।
इतः पश्यत कुन्तीयं दग्धा शेते तपस्विनी।
पुत्रैः सहैव वार्ष्णेयी हन्तेत्याहुः स्म नागराः।।
खनकेन तु तेनैव वेश्म शोधयता बिलम्।
पांसुभिः पिहितं तच्च पुरुषैस्तैर्न लक्षितम्।।
ततस्ते प्रेषयामासुर्धृतराष्ट्राय नागराः।
पाण्डवानग्निना दग्धानमात्यं च पुरोचनम्।।
श्रुत्वा तु धृतराष्ट्रस्तद्राजा सुमहदप्रियम्।
विनाशं पाण्डुपुत्राणां विललाप सुदुःखितः।।
अन्तर्हृष्टमनाश्चासौ बहिर्दुःखसमन्वितः।
अन्तःशीतो बहिश्चोष्णो ग्रीष्मेऽगाधह्वदोयथा।।
धृतराष्ट्र उवाच।
अद्य पाण्डुर्मृतो राजा मम भ्राता महायशाः।
तेषु वीरेषु दग्धेषु मात्रा सह विशेषतः।।
गच्छन्तु पुरुषाः शीघ्रं नगरं वारणावतम्।
सत्कारयन्तु तान्वीरान्कुन्तीं राजसुतां च ताम्।।
ये च तत्र मृतास्तेषां सुहृदः सन्ति तानपि।
कारयन्तु च कुल्यानि शुभ्राणि च बृहन्ति च।।
मम दग्धा महात्मानः कुलवंशविवर्धनाः।।
एवं गते मया शक्यं यद्यत्कारयितुं हितम्।
पाण्डवानां च कुन्त्याश्च तत्सर्वं क्रियतां धनैः।।
`वैशंपायन उवाच।
समेताश्च ततः सर्वे भीष्मेण सह कौरवाः।
धृतराष्ट्रः सपुत्रश्च गङ्गामभिमुखा ययुः।।
एकवस्त्रा निरानन्दा निराभरणवेष्टनः।
उदकं कर्तुकामा वै पाण्डवानां महात्मनाम्।।'
एवं गत्वा ततश्चक्रे ज्ञातिभिः परिवारितः।
उदकं पाण्डुपुत्राणां धृतराष्ट्रोऽम्बिकासुतः।।
रुरुदुः सहिताः सर्वे भृशं शोकपरायणाः।
हा युधिष्ठिर कौरव्य हा भीम इति चापरे।।
हा फल्गुनेति चाप्यन्ये हा यमाविति चापरे।
कुन्तीमार्ताश्च शोचन्त उदकं चक्रिरे जनाः।।
अन्ये पौरजनाश्चैवमन्वशोचन्त पाण्डवान्।
विदुरस्त्वल्पशश्चक्रे शोकं वेद परं हि सः।।
विदुरो धृतराष्ट्रस्य जानन्सर्वं मनोगतम्।
तेनायं विधिना सृष्टः कुटिलः कपटाशयः।।
इत्येवं चिन्तयन्राजन्विदुरो विदुषां वरः।
लोकानां दर्शयन्दुःखं दुःखितैः सह बान्धवैः।।
मनसाऽचिन्तयत्पार्थान्कियद्दूरं गता इति।
सहिताः पाण्डवाः पुत्रा इति चिन्तापरोऽभवत्।।
ततः प्रव्यथितो भीष्मः पाण्डुराजसुतान्मृतान्।
सह मात्रेति तच्छ्रुत्वा विललाप रुरोद च।।
भीष्म उवाच।
हा युधिष्ठिर हा भीम हा धनञ्जय हा यमौ।
हा पृथे सह पुत्रैस्त्वमेकरात्रेण स्वर्गता।।
मात्रा सह कुमारास्ते सर्वे तत्रैव संस्थिताः।
न हि तौ नोत्सहेयातां भीमसेनधनञ्जयौ।।
तरसा वेगितात्मानौ निर्भेत्तुमपि मन्दरम्।
परासुत्वं न पश्यामि पृथायाः सह पाण्डवैः।।
सर्वथा विकृतं तत्तु यदि ते निधनं गताः।
धर्मराजः स निर्दिष्टो ननु विप्रैर्युधिष्ठिरः।।
पृथिव्यां च रथिश्रेष्ठो भविता स धनञ्जयः।
सत्यव्रतो धर्मदत्तः सत्यवाक्छुभलक्षणः।।
कथं कालवशं प्राप्तः पाण्डवेयो युधिष्ठिरः।
आत्मानमुपमां कृत्वा परेषां वर्तते तु यः।।
मात्रा सहैव कौरव्यः कथं कालवशं गतः।
पालितः सुचिरं कालं फलकाले यथा द्रुमः।।
भग्नः स्याद्वायुवेगेन तथा राजा युधिष्ठिरः।
यौवराज्येऽभिषिक्तेन पितुर्येनाहृतं यशः।।
आत्मनश्च पितुश्चैव सत्यधर्मप्रवृत्तिभिः।
यच्च सा वनवासेन तन्माता दुःखभागिनी।।
कालेन सह संमग्नो धिक्कृतान्तमनर्थकम्।
यच्च सा वनवासेन तन्माता दुःखभागिनी।।
पुत्रगृध्नुतया कुन्ती न भर्तारं मृतात्वनु।
अल्पकालं कुले जाता भर्तुः प्रीतिमवाप या।।
दग्धाऽद्य सह पुत्रैः सा असंपूर्णमनोरा।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे।।
एतच्च चिन्तयानस्य व्यथितं बहुधा मनः।
अवधूय च मे देहं हृदयेन विदीर्यते।।
पीनस्कन्धश्चारुबाहुर्मेरुकूटसमो युवा।
मृतो भीम इति श्रुत्वा मनो न श्रद्दधाति मे।।
अतित्यागी च योधी च क्षिप्रहस्तो दृढायुधः।
प्रपत्तिमाँल्लब्धलक्षो रथयानविशारदः।।
दूरपाती त्वसंभ्रान्तो महावीर्यो महास्त्रवान्।
अदीनात्मा नरश्रेष्ठः श्रेष्ठः सर्वधनुष्मताम्।।
येन प्राच्याश्च सौवीरा दाक्षिणात्याश्च निर्जिताः।
ख्यापितं येन शूरेण त्रिषु लोकेषु पौरुषम्।।
यस्मिञ्जाते विशोकाऽभूत्कुन्ती पाण्डुश्च वीर्यवान्।
पुरन्दरसमो जिष्णुः कथं कालवशं गतः।।
कथं तावृषभष्कन्धौ सिंहविक्रान्तगामिनौ।
मर्त्यधर्ममनुप्राप्तौ यमावरिनिवर्हणौ।।
वत्सा गताः क्व मां वृद्धं विहाय भृशमातुरम्।
हा स्नुषे मम वार्ष्णेयि निधाय हृदि मे शुचम्।।
वारणावतयात्रायां के स्युर्वै शकुनाः पथि।
एवमल्पायुषो लोके भविष्यन्ति पृथासुताः।।
संशप्ता इति कैर्यूयं वत्सान्दर्शय मे पृथे।
ममैव नाथा मन्नाथा मम नेत्राणि पाण्डवाः।।
हा पाण्डवा मे हे वत्सा हा सिंहशिशवो मम।
मातङ्गा हा ममोत्तुङ्गा हा ममानन्दवर्धनाः।।
मम हीनस्य युष्माभिः सर्वलोकास्तमोवृताः।
कदा द्रष्टाऽस्मि कौन्तेयांस्तरुणादित्यवर्चसः।।
अदृष्ट्वा वो महाबाहून्पुत्रवन्मम नन्दनाः।
क्व गतिर्मे क्व गच्छामि कुतो द्रक्ष्यामि मे शिशून्।।
हा युधिष्ठिर हा भीम हा हा फल्गुन हा यमौ।
मा गच्छत निवर्तध्वं मयि कोपं विमुञ्चत।।
वैशंपायन उवाच।
श्रुत्वा तत्क्रन्दितं तस्य तिलोदं च प्रसिञ्चतः।
देशं कालं समाज्ञाय विदुरः प्रत्यभाषत।।
मा शोचीस्त्वं नरव्याघ्र जहि शोकं महाधृते।
न तेषां विद्यते मृत्युः प्राप्तकालं कृतं मया।।
एतच्च तेभ्य उदकं विप्रसिञ्च न भारत।
क्षत्तेदमब्रवीद्भीष्मं कौरवाणामशृण्वताम्।।
क्षत्तारमुपसंगम्य बाष्पोत्पीडकलस्वरः।
मन्दंमन्दमुवाचेदं विदुरं संगमे नृप।।
भीष्म उवाच।
कथं ते तात जीवन्ति पाण्डोः पुत्रा महाबलाः।
कथमस्मत्कृते पक्षः पाण्डोर्न हि निपातितः।।
कथं मत्प्रमुखाः सर्वे प्रमुक्ता महतो भयात्।
जननी गरुडेनेव कुरवस्ते समुद्धृताः।।
वैशंपायन उवाच।
एवमुक्तस्तु कौरव्य कौरवाणामशृण्वताम्।
आचचक्षे स धर्मात्मा भीष्मायाद्भुतकर्मणे।।
विदुर उवाच।
धृतराष्ट्रस्य शकुने राज्ञो दुर्योधनस्य च।
विनाशे पाण्डुपुत्राणां कृतो मतिविनिश्चयः।।
तत्राहमपि च ज्ञात्वा तस्य पापस्य निश्चयम्।
तं जिघांसुरहं चापि तेषामनुमते स्थितः।।
ततो जतुगृहं गत्वा दहनेऽस्मिन्नियोजिते।
पृथायाश्च सपुत्राया धार्तराष्ट्रस्य शासनात्।।
ततः खनकमाहूय सुरङ्गं वै बिलं तदा।
सुगूढं कारयित्वा ते कुन्त्या पाण्डुसुतास्तदा।।
निष्क्रामिता मया पूर्वं मा स्म शोके मनः कृथाः।
ततस्तु नावमारोप्य सहपुत्रां पृथामहम्।।
दत्त्वाऽभयं सपुत्रायै कुन्त्यै गृहमदाहयम्।
तस्मात्ते मा स्म भूद्दुःखं मुक्ताः पापात्तु पाण्डवाः।।
निर्गताः पाण्डवा राजन्मात्रा सह परन्तपाः।
अग्निहादान्महाघोरान्मया तस्मादुपायतः।।
मा स्म शोकमिमं कार्षीर्जीवन्त्येव च पाण्डवाः।
प्रच्छन्ना विचिरिष्यन्ति यावत्कालस्य पर्ययः।।
तस्मिन्युधिष्ठिरं काले द्रक्ष्यन्ति भुवि मानवाः।
विमलं कृष्णपक्षान्ते जगच्चन्द्रमिवोदितम्।।
न तस्य नाशं पश्यामि यस्य भ्राता धनञ्जयः।
भीमसेनश्च दुर्धर्षौ माद्रीपुत्रौ च तौ यमौ।।
वैशंपायन उवाच।
ततः संहृष्टसर्वाङ्गो भीष्मो विदुरमब्रवीत्।
दिष्ट्यादिष्ट्येति संहृष्टः पूजयानो महामतिम्।।
भीष्म उवाच।
युक्तं चैवानुरूपं च कृतं तात शुभं त्वया।
वयं विमोक्षिता दुःखात्पाण्डुपक्षो न नाशितः।।
वैशंपायन उवाच।
एवमुक्त्वा विवेशाथ पुरं जनशताकुलम्।
कुरुभिः सहितो राजन्नागरैश्च पितामहः।।
अथाम्बिकेयः सामात्यः सकर्णः सहसौबलः।
सात्मजः पार्थनाशस्य स्मरंस्तथ्यं जर्ष च।।
भीष्मश्च राजन्दुर्धर्षो विदुरश्च महामतिः।
जहृषाते स्मरन्तौ तौ जातुषाग्नेर्विमोचनम्।।
सत्यशीलगुणाचारै रागैर्जानपदोद्भवैः।
द्रोणादयश्च धर्मैस्तु तेषां तान्मोचितान्विदुः।।
शौर्यलावण्यमाहात्म्यै रूपैः प्राणबलैरपि।
स्वस्थान्पार्थानमन्यन्त पौरजानपदास्तथा।।
अन्ये जनाः प्राकृताश्च स्त्रियश्च बहुलास्तदा।
शङ्कमाना वदन्ति स्म दग्धा जीवन्ति वा न वा।।
।। इति श्रीमन्महाभारते आदिपर्वणि
जतुगृहपर्वणि द्विषष्ट्यधिकशततमोऽध्यायः।। 162 ।।