आदिपर्व

अध्यायः १६०

Adi Parva (Sanskrit) · Adhyaya 160
अक्षर का आकार

वैशंपायन उवाच।

तांस्तु दृष्ट्वा सुमनसः परिसंवत्सरोषितान्।
विश्वस्तानिव संलक्ष्य हर्षं चक्रे पुरोचनः।।

`स तु संचिन्तयामास प्रहृष्टेनान्तरात्मना।
प्राप्तकालमिदं मन्ये पाण्डवानां विनाशने।।

तमस्यान्तर्गतं भावं विज्ञाय कुरुपुङ्गवः।
चिन्तयामास मतिमान्धर्मपुत्रो युधिष्ठिरः।।'

पुरोचने तथा हृष्टे कौन्तेयोऽथ युधिष्ठिरः।
भीमसेनार्जुनौ चोभौ यमौ प्रोवाच धर्मवित्।।

अस्मानयं सुविश्वस्तान्वेत्ति पापः पुरोचनः।
वञ्चितोऽयं नृशंसात्मा कालं मन्ये पलायने।।

आयुधागारमादीप्य दग्ध्वा चैव पुरोचनम्।
षट्प्राणिनो निधायेह द्रवामोऽनभिलक्षिताः।।

वैशंपायन उवाच।

अथ दानापदेशेन कुन्ती ब्राह्मणभोजनम्।
चक्रे निशि महाराज आजग्मुस्तत्र योषितः।।

ता विहृत्य यथाकामं भुक्त्वा पीत्वा च भारत।
जग्मुर्निशिं गृहानेव समनुज्ञाप्य माधवीम्।।

`पुरोचनप्रणिहिता पृथां या सेवते सदा।
निषादी दुष्टहृदया नित्यमन्तरचारिणी।।

निषादी पञ्चपुत्रा सा तस्मिन्भोज्ये यदृच्छया।
पुराभ्यासकृतस्नेहा सखी कुन्त्याः सुतैः सह।।

आनीय मधुमूलानि फलानि विविधानि च।
अन्नार्थिनी समभ्यागात्सपुत्रा कालचोदिता।
सुपापा पञ्चपुत्रा च सा पृथायाः सखी मता।।'

सा पीत्वा मदिरां मत्ता सपुत्रा मदविह्वला।
सह सर्वैः सुतै राजंस्तस्मिन्नेव निवेशने।।

सुष्वाप विगतज्ञाना मृतकल्पा नराधिप।
अथ प्रवाते तुमुले निशि सुप्ते जने तदा।।

तदुपादीपयद्भीमः शेते यत्र पुरोचनः।
ततो जतुगृहद्वारं दीपयामास पाण्डवः।।

समन्ततो ददौ पश्चादग्निं तत्र निवेशने।
`पूर्वमेव गृहं शोध्य भीमसेनो महामतिः।।

पाण्डवैः सहितां कुन्तीं प्रावेशयत तद्बिलम्।
दत्त्वाग्निं सहसा भीमो गृहे तत्परितः सुधीः।।

गृहस्थं द्रविणं गृह्य निर्जगाम बिलेन सः।'
ज्ञात्वा तु तद्गृहं सर्वमादीप्तं पाण्डुनन्दनाः।।

सुरङ्गां विविशुस्तूर्णं मात्रा सार्धमरिन्दमाः।
ततः प्रतापः सुमहाञ्छब्दश्चैव विभावसोः।।

प्रादुरासीत्तदा तेन बुबुधे स जनव्रजः।
तदवेक्ष्य गृहं दीप्तमाहुः पौराः कृशाननाः।।

दुर्योधनप्रयुक्तेन पापेनाकृतबुद्धिना।
गृहमात्मविनाशाय कारितं दाहितं च तत्।।

अहो धिग्धृतराष्ट्रस्य बुद्धिर्नातिसमञ्जसा।
यः शुचीन्पाण्डुदायादान्दाहयामास शत्रुवत्।।

दिष्ट्या त्विदानीं पापात्मादग्ध्वा दग्धः पुरोचनः।
अनागसः सुविश्वस्तान्यो ददाह नरोत्तमान्।।

वैशंपायन उवाच।

एवं ते विलपन्ति स्म वारणावतका जनाः।
परिवार्य गृहं तच्च तस्थू रात्रौ समन्ततः।।

पाण्डवाश्चापि ते सर्वे सह मात्रा सुदुःखिताः।
बिलेन तेन निर्गत्य जग्मुर्द्रुतमलक्षिताः।।

तेन निद्रोपरोधेन साध्वसेन च पाण्डवाः।
न शेकुः सहसा गन्तुं सह मात्रा परन्तपाः।।

भीमसेनस्तु राजेन्द्र भीमवेगपराक्रमः।
जगाम भ्रातॄनादाय सर्वान्मातरमेव च।।

स्कन्धमारोप्य जननीं यमावङ्केन वीर्यवान्।
पार्थौ गृहीत्वा पाणिभ्यां भ्रातरौ सुमहाबलः।।

उरसा पादपान्भञ्जन्महीं पद्भ्यां विदारयन्।
स जगामाशु तेजस्वी वातरंहा वृकोदरः।।

।। इति श्रीमन्महाभारते आदिपर्वणि
जतुगृहपर्वणि षष्ट्यधिकशततमोऽध्यायः।। 160 ।।