आदिपर्व
अध्यायः १५९
वैशंपायन उवाच।
विदुरस्य सुहृत्कश्चित्खनकः कुशलः क्वचित्।
विविक्ते पाण्डवान्राजन्निदं वचनमब्रवीत्।।
प्रहितो विदुरेणास्मि खनकः कुशलो ह्यहम्।
पाण्डवानां प्रियं कार्यमिति किं करवाणि वः।।
प्रच्छन्नं विदुरेणोक्तं प्रियं यन्म्लेच्छभाषया।
त्वया च तत्तथेत्युक्तमेतद्विश्वासकारणम्।।
कृष्णपक्षे चतुर्दश्यां रात्रावस्यां पुरोचनः।
भवनस्य तव द्वारि प्रदास्यति हुताशनम्।।
मात्रा सह प्रदग्धव्याः पाण्डवाः पुरुषर्षभाः।
इति व्यवसितं तस्य धार्तराष्ट्रस्य दुर्मतेः।।
वैशंपायन उवाच।
उवाच तं सत्यधृतिः कुन्तीपुत्रो युधिष्ठिरः।
अभिजानामि सौम्य त्वां सुहृदं विदुरस्य वै।।
शुचिमाप्तं प्रियं चैव सदा च दृढभक्तिकम्।
न विद्यते कवेः किंचिदविज्ञातं प्रयोजनम्।।
यथा तस्य तथा नस्त्वं निर्विशेषा वयं त्वयि।
भवतश्च यथा तस्य पालयास्मान्यथा कविः।।
इदं शरणमाग्नेयं मदर्थमिति मे मतिः।
पुरोचनेन विहितं धार्तराष्ट्रस्य शासनात्।।
स पापः कोशवांश्चैव ससहायश्च दुर्मतिः।
अस्मानपि च पापात्मा नित्यकालं प्रबाधते।।
स भवान्भोक्षयत्वस्मान्यत्नेनास्माद्धुताशनात्।
अस्मास्विह हि दग्धेषु सकामः स्यात्सुयोधनः।।
समृद्धमायुधागारमिदं तस्य दुरात्मनः।
वप्रान्तं निष्प्रतीकारमाश्रित्येदं कृतं महत्।।
इदं तदशुभं नूनं तस्य कर्म चिकीर्षितम्।
प्रागेव विदुरो वेद तेनास्मानन्वबोधयत्।।
सेयमापदनुप्राप्ता क्षत्ता यां दृष्टवान्पुरा।
पुरोचनस्याविदितानस्मांस्त्वं प्रतिमोचय।।
वैशंपायन उवाच।
स तथेति प्रतिश्रुत्य खनको यत्नमास्थितः।
परिखामुत्किरन्नाम चकार च महाबिलम्।।
चक्रे च वेश्मनस्तस्य मध्ये नातिमहद्बिलम्।
कपाटयुक्तमज्ञातं समं भूम्याश्च भारत।।
पुरोचनभयादेव व्यदधात्संवृतं मुखम्।
स तस्य तु गृहद्वारि वसत्यशुभधीः सदा।
तत्र ते सायुधाः सर्वे वसन्ति स्म क्षपां नृप।।
दिवा चरन्ति मृगयां पाण्डवेया वनाद्वनम्।
विश्वस्तवदविश्वस्ता वञ्चयन्तः पुरोचनम्।।
अतुष्टास्तुष्टवद्राजन्नूषुः परमविस्मिताः।।
न चैनानन्वबुध्यन्त नरा नगरवासिनः।
अन्यत्र विदुरामात्यात्तस्मात्खनकसत्तमात्।।
।। इति श्रीमन्महाभारते आदिपर्वणि
जतुगृहपर्वणि ऊनषष्ट्यधिकशततमोऽध्यायः।। 159 ।।