आदिपर्व

अध्यायः १५६

Adi Parva (Sanskrit) · Adhyaya 156
अक्षर का आकार

वैशंपायन उवाच।

धृतराष्ट्रप्रयुक्तेषु पाण्डुपुत्रेषु भारत।
दुर्योधनः परं हर्षमगच्छत्स दुरात्मवान्।।

`ततः सुबलपुत्रश्च कर्णदुर्योधनावपि।
दहने सह पुत्रायाः कुन्त्या मतिमकुर्वत।
मन्त्रयित्वा स तैः सार्धं दुरात्मा धृतराष्ट्रजः।।'

स पुरोचनमेकान्तमानीय भरतर्षभ।
गृहीत्वा दक्षिणे पाणौ सचिवं वाक्यमब्रवीत्।।

ममेयं वसुसंपूर्णा पुरोचन वसुन्धरा।
यथैव भविता तात तथा त्वं द्रष्टुमर्हसि।।

न हि मे कश्चिदन्योऽस्ति विश्वासिकतरस्त्वया।
सहायो येन सन्धाय मन्त्रयेयं यथा त्वया।।

संरक्ष तात मन्त्रं च सपत्नांश्च ममोद्धर।
निपुणेनाभ्युपायेन यद्ब्रवीमि तथा कुरु।।

पाण्डवा धृतराष्ट्रेण प्रेषिता वारणावतम्।
उत्सवे विहरिष्यन्ति धृतराष्ट्रस्य शासनात्।।

स त्वं रासभयुक्तेन स्यन्दनेनाशुगामिना।
वारणावतमद्यैव यथा यासि तया कुरु।।

तत्र गत्वा चतुःशालं गृहं परमसंवृतम्।
नगरोपान्तमाश्रित्य कारयेथा महाधनम्।।

शणसर्जरसादीनि यानि द्रव्याणि कानिचित्।
आग्नेयान्युत सन्तीह तानि तत्र प्रदापय।।

`बल्वजेन च संमिश्रं मधूच्छिष्टेन चैव हि।'
सर्पिस्तैलवसाभिश्च लाक्षया चाप्यनल्पया।
मृत्तिकां मिश्रयित्वा त्वं लेपं कुड्येषु दापय।।

शणं तैलं घृतं चैव जतु दारूणि चैव हि।
तस्मिन्वेश्मनि सर्वाणि निक्षिपेथाः समन्ततः।।

`लाक्षाशममधूच्छिष्टवेष्टितानि मृदापि च।
लेपयित्वा गुरूण्याशु दारुयन्त्राणि दापय।।'

यथा च तन्न पश्येरन्परीक्षन्तोऽपि पाण्डवाः।
आग्नेयमिति तत्कार्यमपि चान्येऽपि मानवाः।।

वेश्मन्येवं कृते तत्र कृत्वा तान्परमार्चितान्।
वासयेथाः पाण्डवेयान्कुन्तीं च ससुहृज्जनाम्।।

आसनानि च दिव्यानि यानानि शयनानि न।
निघातव्यानि पाण्डूनां यथा तुष्येच्च मे पिता।।

यथा च तन्न जानन्ति नगरे वारणावते।
`यथा रमेरन्विस्रब्धा नगरे वारणावते।'
तथा सर्वं विधातव्यं यावत्कालस्य पर्ययः।।

ज्ञात्वा च तान्सुविश्वस्ताञ्शयानानकुतोभयान्।
अग्निस्त्वया ततो देयो द्वारतस्तस्य वेश्मनः।।

दग्धानेवं स्वके गेहे दाहिताः पाण्डवा इति।
न गर्हयेयुरस्मान्वै पाण्डवार्थाय कर्हिचित्।।

स तथेति प्रतिज्ञाय कौरवाय पुरोचनः।
प्रायाद्रासभयुक्तेन स्यन्दनेनाशुगामिना।।

स गत्वा त्वरितं राजन्दुर्योधनमते स्थितः।
यथोक्तं राजपुत्रेण सर्वं चक्रे पुरोचनः।।

`तेषां तु पाण्डवेयानां गृहं रौद्रमकल्पयत्।।'

।। इति श्रीमन्महाभारते आदिपर्वणि जतुगृहपर्वणि
षट्पञ्चाशदधिकशततमोऽध्यायः।। 156 ।।