आदिपर्व
अध्यायः १५०
जनमेजय उवाच।
द्रुपदस्यापि विप्रर्षे श्रोतुमिच्छामि संभवम्।
कथं चापि समुत्पन्नः कथमस्त्राण्यवाप्तवान्।।'
एतदिच्छामि भगवंस्त्वत्तः श्रोतुं द्विजोत्तम।
कौतूहलं जन्मसु मे कीर्त्यमानेष्वनेकशः।।
वैशंपायन उवाच।
राजा बभूव पाञ्चालः पुत्रार्थी पुत्रकारणात्।
वनं गतो महाराजस्तपस्तेपे सुदारुणम्।।
आराधयन्प्रयत्नेन महर्षीन्संशितव्रतान्।
तस्य संतप्यमानस्य वने मृगगणायुते।।
कालस्तु सुमहान्राजन्नत्ययात्सुतकारणात्।
स तु राजा महातेजास्तपस्तीव्रं समाददे।।
कंचित्कालं वायुभक्षो निराहारस्तथैव च।
तथैव तु महाबाहोर्वर्तमानस्य भारत।।
कालस्तस्य महाराज यातो वै नृपसत्तम।
ततो नातिचिरात्काले वसन्ते कामदीपने।।
फुल्लाशोकवने चैव प्राणिनां सुमनोहरे।
नद्यास्तीरं ततो गत्वा गङ्गायाः पद्मलोचनः।।
नियमस्थश्च राजासीत्तदा भरतसत्तम।
ततो नातिचिरात्काले वनं तन्मनुजेश्वर।।
संप्राप्ता ह्यप्सरा राजन्मेनकेत्यभिविश्रुता।
पुष्पद्रुमान्सज्जमाना राज्ञो दर्शनमागमत्।।
न ददर्श तु सा राजंस्तत्र स्थानगतं नृपम्।
दृष्ट्वा चाप्सरसं तां तु शुक्रं राज्ञोऽपतद्भुवि।।
ततः स राजा राजेन्द्र लज्जया नृपतिः स्वयम्।
पद्भ्यामाक्रमतायुष्मंस्ततस्तु द्रुपदोऽभवत्।।
ततस्तु तपसा तस्य राजर्षेर्भावितात्मनः।
पुत्रः समभवच्छीघ्रं पदोस्तस्य क्रमेण तु।।
तेनास्य ऋषयः सर्वे समागम्य तपोधनाः।
नाम चुक्रुर्हि विद्वांसो द्रुपदोऽस्त्विति भारत।।
स तस्यैवाश्रमे राजन्भरद्वाजस्य भारत।
ववृधे सुमुखं तत्र कामैः सर्वैर्नृपोत्तम।।
पाञ्चालोऽपि हि राजेन्द्र स्वराज्यं गतवान्प्रभुः।
भरद्वाजस्य विद्यार्थं सुतं दत्वा महात्मनः।।
स कुमारस्ततो राजन्द्रोणेन सहितो वने।
वेदांश्चाधिजगे साङ्गान्धनुर्वेदांश्च भारत।।
परया स मुदा युक्तो विचचार वने सुखम्।
तस्यैवं वर्तमानस्य वने वनचरैः सह।।
कालेनातिचिराद्राजन्पिता स्वर्गमुपेयिवान्।
स समागम्य पाञ्चालैः पाञ्चालेष्वभिषेचितः।।
प्राप्तश्च राज्यं राजेन्द्र सुहृदां प्रीतिवर्धनः।
राज्यं ररक्ष धर्मेण यथा चेन्द्रस्त्रिविष्टपम्।।
एतन्मया ते राजेन्द्र यथावत्परिकीर्तितम्।
द्रुपदस्य च राजर्षेर्धृष्टद्युम्नस्य जन्म च।।
।। इति श्रीमन्महाभारते आदिपर्वणि
संभवपर्वणि पञ्चाशदधिकशततमोऽध्यायः।। 150 ।।