आदिपर्व
अध्यायः १४९
`वैशंपायन उवाच।
द्रोणेन वैरं द्रुपदो न सुष्वाप स्मरंस्तदा।
क्षात्रेण वै बलेनास्य नाऽशशंसे पराजयम्।।
हीनं विदित्वा चात्मानं ब्राह्मेणापि बलेन च।
द्रुपदोऽमर्षणाद्राजा कर्मसिद्धान्द्विजोत्तमान्।।
अन्विच्छन्परिचक्राम ब्राह्मणावसथान्बहून्।
नास्ति श्रेष्ठं ममापत्यं धिग्बन्धूनिति च ब्रुवन्।।
निश्वासपरमो ह्यासीद्द्रोणं प्रतिचिकीर्षया।
न सन्ति मम मित्राणि लोकेऽस्मिन्नास्ति वीर्यवान्।।
पुत्रजन्म परीप्सन्वै पृथिवीमन्वयादिमाम्।
प्रभावशिक्षाविनयाद्द्रोणस्यास्त्रबलेन च।।
कर्तुं प्रयतमानो वै न शशाक पराजयम्।
अभितः सोऽथ कल्माषीं गङ्गातीरे परिभ्रमन्।।
ब्राह्मणावसथं पुण्यमाससाद महीपतिः।
तत्र नास्नातकः कश्चिन्न चासीदव्रतो द्विजः।।
तथैव तौ महाभागौ सोऽपश्यच्छंसितव्रतौ।
याजोपयाजौ ब्रह्मर्षी भ्रातरौ पृषतात्मजः।।
संहिताध्ययने युक्तौ गोत्रतश्चापि काश्यपौ।
अरण्ये युक्तरूपौ तौ ब्राह्मणावृषिसत्तमौ।।
स उपामन्त्रयामास सर्वकामैरतन्द्रितः।
बुद्ध्वा तयोर्बलं बुद्धिं कनीयांसमुपह्वरे।।
प्रपेदे छन्दयन्कामैरुपयाजं धृतव्रतम्।
गुरुशुश्रूषणे युक्तः प्रियकृत्सर्वकामदम्।।
पाद्येनासनदानेन तथाऽर्घ्येण फलैश्च तम्।
अर्हयित्वा यथान्यायमुपयाजोऽब्रवीत्ततः।।
येन कार्यविशेषेण त्वमस्मानभिकाङ्क्षसे।
कृतश्चायं समुद्योगस्तद्ब्रवीतु भवानिति।।
वैशंपायन उवाच।
स बुद्ध्वा प्रीतिसंयुक्तमृषीणामुत्तमं तदा।
उवाच छन्दयन्कामैर्द्रुपदः स तपस्विनम्।।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्येव।
उपयाज चरस्वैतत्प्रदास्यामि धनं तव।।
उपयाज उवाच।
नाहं फलार्थी द्रुपद योऽर्थी स्यात्तत्र गम्यताम्।
वैशंपायन उवाच।
प्रत्याख्यातस्तु तेनैवं स वै सज्जनसंनिधौ।।
आराधयिष्यन्द्रुपदः स तं पर्यचरत्तदा।
ततः संवत्सरस्यान्ते द्रुपदं द्विजसत्तमः।।
उपयाजोऽब्रवीद्वाक्यं काले मधुरया गिरा।
ज्येष्ठो भ्राता न मेऽत्याक्षीद्विचरन्विजने वने।।
अपरिज्ञातशौचायां भूमौ निपतितं फलम्।
तदपश्यमहं भ्रातुरसांप्रतमनुव्रजन्।।
विमर्शं हि फलादाने नायं कुर्यात्कथंचन।
नापश्यत्फलं दृष्ट्वा दोषांस्तस्याऽऽनुबन्धिकान्।।
विविनक्ति न शौचार्थी सोऽन्यत्रापि कथं भवेत्।
संहिताध्ययनस्यान्ते पञ्चयज्ञान्निरूप्य च।।
भैक्षमुञ्छेन सहितं भुञ्जानस्तु तदा तदा।
कीर्तयत्येव राजर्षे भोजनस्य रसं पुनः।।
संहिताध्ययनं कुर्वन्वने गुरुकुले वसन्।
भैक्षमुच्छिष्टमन्येषां भुङ्क्ते स्म सततं तथा।।
कीर्तयन्गुणमन्नानामथ प्रीतो मुहुर्मुहुः।
एवं फलार्थिनस्त्समान्मन्येऽहं तर्कचक्षुषा।।
तं वै गच्छेह नृपते त्वां स संयाजयिष्यति।।
वैशंपायन उवाच।
उपयाजवचः श्रुत्वा याजस्याश्रममभ्यगात्।
जुगुप्समानो नृपतिर्मनसेदं विचिन्तयन्।।
भृशं संपूज्य पूजार्हमृषिं याजमुवाच ह।
गोशतानि ददान्यष्टौ याज याजय मां विभो।।
द्रोणवैरान्तरे तप्तं विषण्णं शरणागतम्।
ब्रह्मबन्धुप्रणिहितं न क्षत्रं क्षत्रियो जयेत्।।
तस्माद्द्रोणभयार्तं मां भवांस्त्रातुमिहार्हति।
येन मे कर्मणा ब्रह्मन्पुत्रः स्याद्द्रोणमृत्यवे।।
अर्जुनस्यापि वै भार्या भवेद्या वरवर्णिनी।
स हि ब्रह्मविदां श्रेष्ठो ब्राह्मे क्षात्रेऽप्यनुत्तमः।।
ततो द्रोणस्तु माऽजैषीत्सखिविग्रहकारणात्।
क्षत्रियो नास्ति तुल्योऽस्य पृथिव्यां कश्चिदग्रणीः।।
भारताचार्यमुख्यस्य भारद्वाजस्य धीमतः।
द्रोणस्य शरजालानि रिपुदेहहराणि च।।
षडरत्नि धनुश्चास्य खड्गमप्रतिम तथा।
स हि ब्राह्मणवेषेण क्षात्रं वेगमसंशयम्।।
प्रतिहन्ति महेष्वासो भारद्वाजो महामनाः।
कार्तवीर्यसमो ह्येष खट्वाङ्गप्रतिमो रणे।।
क्षत्रोच्छेदाय विहितो जामदग्न्य इवास्थितः।।
सहितं क्षत्रवेगेन ब्रह्मवेगेन सांप्रतम्।
उपपन्नं हि मन्येऽहं भारद्वाजं यशस्विनम्।।
नेषवस्तमपाकुर्युर्न च प्रासा न चासयः।
ब्राह्मं तस्य महातेजो मन्त्राहुतिहुतं यथा।।
तस्य ह्यस्त्रबलं घोरमप्रसह्यं परैर्भुवि।
शत्रून्समेत्य जयति क्षत्रं ब्रह्मपुरस्कृतम्।।
ब्रह्मक्षत्रे च सहिते ब्रह्मतेजो विशिष्यते।
सोऽहं क्षत्रबलाद्दीनो ब्रह्मतेजः प्रपेदिवान्।।
द्रोणाद्विशिष्टमासाद्य भवन्तं ब्रह्मवित्तमम्।
द्रोणान्तकमहं पुत्रं लभेयं युधि दुर्जयम्।।
द्रोणमृत्युर्यथा मेऽद्य पुत्रो जायेत वीर्यवान्।
तत्कर्म कुरु मे याज निर्वपाम्यर्बुद्धं गवाम्।।
वैशंपायन उवाच।
तथेत्युक्त्वा तुं तं याजो यज्ञार्थमुपकल्पयन्।
गुर्वर्थ इति चाकाममुपयाजमचोदयत्।।
द्रुपदं च महाराजमिदं वचनमब्रवीत्।
मा भैस्त्वं संप्रदास्यामि कर्मणा भवतः सुतम्।।
क्षिप्रमुत्तिष्ठ चाव्यग्रः संभारानुपकल्पय।
वैशंपायन उवाच।
एवमुक्त्वा प्रतिज्ञाय कर्म चास्याददे मुनिः।।
ब्राह्मणो द्विपदां श्रेष्ठो यथाविधि कथाक्रमम्।
याजो द्रोणविनाशाय याजयामास तं नृपम्।।
गुर्वर्थेऽयोजयत्कर्म याजस्यापि समीपतः।
ततस्तस्य नरेन्द्रस्य उपयाजो महातपाः।।
आचव्यौ कर्म वैतानं तथा पुत्रफलाय वै।
इह पुत्रो महावीर्यो महातेजा महाबलः।
इष्यते यद्विधो राजन्भविता स तथाविधः।।
वैशंपायन उवाच।
भारद्वाजस्य हन्तारं सोऽभिसन्धाय पार्थिवः।
आजहेऽथ तदा राजन्द्रुपदः कर्म सिद्धये।।
ब्राह्मणो द्विपदां श्रेष्ठो जुहाव च यथाविधि।
कौसवी नाम तस्यासीद्या वै तां पुत्रगृद्धिनः।।
सौत्रामणिं तथा पत्नीं ततः कालेऽभ्ययात्तदा।
याजस्तु सवनस्यान्ते देवीमाह्वापयत्तदा।।
प्रेहि मां राज्ञि पृषति मिथुनं त्वामुपस्थितम्।
कुमारश्च कुमारी च पितृवंशविवृद्धये।।
पृषत्युवाच।
नालिप्तं वै मम मुखं पुण्यान्गन्धान्बिभर्मि च।
न पत्नी तेऽस्मि सूत्यर्थे तिष्ठ याज मम प्रिये।।
याज उवाच।
याजेन श्रपितं हव्यमुपयाजेन मन्त्रितम्।
कथं कामं न संदध्यात्पृषति प्रेहि तिष्ठ वा।।
वैशंपायन उवाच।
एवमुक्त्वा तु याजेन हुते हविषि संस्कृते।
उत्तस्थौ पावकात्तस्मात्कुमारो देवसंनिभः।।
ज्वालावर्णो घोररूपः किरीटी वर्म धारयन्।
वीरः सखङ्गः सशरो धनुष्मान्स नदन्मुहुः।।
सोऽभ्यरोहद्रथवरं तेन च प्रययौ तदा।
जातमात्रे कुमारे च वाक्किलान्तर्हिताब्रवीत्।।
एष शिष्यश्च मृत्युश्च भारद्वाजस्य जायते।
भयापहो राजपुत्रः पाञ्चालानां यशस्करः।।
राज्ञः शोकापहो जात एष द्रोणवधाय हि।
इत्यवोचन्महद्भूतमदृश्यं खेचरं तदा।।
ततः प्रणेदुः पाञ्चालाः प्रहृष्टाः साधुसाध्विति।
द्वितीयायां च होत्रायां हुते हविषि मन्त्रिते।।
कुमारी चापि पाञ्चाली वेदिमध्यात्समुत्थिता।
प्रत्याख्याते पृषत्या च याजके भरतर्षभ।।
पुनः कुमारी पाञ्चाली सुभगा वेदिमध्यगा।
अन्तर्वेद्यां समुद्भूता कन्या सा सुमनोहरा।।
श्यामा पद्मपलाशाक्षी नीलकुञ्चितमूर्धजा।
मानुषं विग्रहं कृत्वा साक्षाच्छ्रीरिव वर्णिनी।।
ताम्रतुङ्गनखी सुभ्रूश्चारुपीनपयोधरा।
नीलोत्पलसमो गन्धो यस्याः क्रोशात्प्रधावति।।
या बिभर्ति परं रूपं यस्या नास्त्युपमा भुवि।
देवदानवयक्षाणामीप्सिता वरवर्णिनी।।
तां चापि जातां सुश्रोणीं वागुवाचाशरीरिणी।
सर्वयोषिद्वरा कृष्णा क्षयं क्षत्रस्य नेष्यति।।
सुरकार्यमियं काले करिष्यति सुमध्यमा।
अस्या हेतोः क्षत्रियाणां महदुत्पत्स्यते भयम्।।
तच्छ्रुत्वा सर्वपाञ्चालाः प्रणेदुः सिंहसङ्घवत्।
न चैनान्हर्षसंपन्नानियं सेहे वसुन्धरा।।
तथा तु मिथुनं जज्ञे द्रुपदस्य महात्मनः।
कुमारश्च कुमारी च मनोज्ञौ तौ नरर्षभौ।।
श्रिया परमया युक्तौ क्षात्रेण वपुषा तथा।
तौ दृष्ट्वा पृषती याजं प्रपेदे सा सुतार्थिनी।।
न वै मदन्यां जननीं जानीयातामिमाविति।
तथेत्युवाच तां याजो राज्ञः प्रियचिकीर्षया।।
तयोस्तु नामनी चक्रुर्द्विजाः संपूर्णमानसाः।
धृष्टत्वादप्रधृष्यत्वात् द्युम्नाद्युत्संभवादपि।।
धृष्टद्युम्नः कुमारोऽयं द्रुपद्सय भवत्विति।
कृष्णेत्येवाभवत्कन्या कृष्णा भूत्सा हि वर्णतः।।
तथा तन्मिथुनं जज्ञे द्रुपदस्य महामखे।
वैदिकाध्ययने पारं धृष्टद्युम्नो गतस्तदा।।
धृष्टद्युम्नं तु पाञ्चाल्यमानीय स्वं निवेशनम्।
उपाकरोदस्त्रहेतोर्भारद्वाजः प्रतापवान्।।
अमोक्षणीयं दैवं हि भावि मत्वा महामतिः।
तथा तत्कृतवान्द्रोण आत्मकीर्त्यनुरक्षणात्।।
सर्वास्त्राणि स तु क्षिप्रमाप्तवान्परया धिया।।
।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि ऊनपञ्चाशदधिकशततमोऽध्यायः।। 149 ।।