आदिपर्व

अध्यायः १४१

Adi Parva (Sanskrit) · Adhyaya 141
अक्षर का आकार

वैशंपायन उवाच।

ततो द्रुपदमासाद्य भारद्वाजः प्रतापवान्।
अब्रवीत्पार्थिवं राजन्सखायं विद्धि मामिह।।

इत्येवमुक्तः सख्या स प्रीतिर्पूर्वं जनेश्वरः।
भारद्वाजेन पाञ्चाल्यो नामृष्यत वचोऽस्य तत्।।

स क्रोधामर्षजिह्मभ्रूः कषायीकृतलोचनः।
ऐश्वर्यमदसंपन्नो द्रोणं राजाऽब्रवीदिदम्।।

द्रुपद उवाच।

अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा।
यन्मां व्रवीषि प्रसभं सखा तेऽहमिति द्विज।।

न हि राज्ञामुदीर्णानामेवंभूतैर्नरैः क्वचित्।
सख्यं भवति मन्दात्मञ्श्रिया हीनैर्धनच्युतैः।।

सौहृदान्यपि जीर्यन्ते कालेन परिजीर्यतः।
सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्।।

न सख्यमजरं लोके हृदि तिष्ठति कस्यचित्।
कामश्चैतन्नाशयति क्रोधो वैनं रहत्युत।।

मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत्।
आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्।।

न दरिद्रो वसुमतो नाविद्वान्विदुषः सखा।
न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते।।

ययोरेव समं वित्तं ययोरेव समं श्रुतम्।
तयोर्विवाहः सख्यं च न तु पुष्टविपुष्टयोः।।

नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।
नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते।।

वैशंपायन उवाच।

द्रुपदेनैवमुक्तस्तु भारद्वाजः प्रतापवान्।
मुहूर्तं चिन्तयित्वा तु मन्युनाऽभिपरिप्लुतः।।

स विनिश्चित्य मनसा पाञ्चाल्यं प्रतिबुद्धिमान्।
`शिष्यैः परिवृतः श्रीमान्पुत्रेण सहितस्तथा।।'

जगाम कुरुमुख्यानां नागरं नागसाह्वयम्।
तां प्रतिज्ञां प्रतिज्ञाय यां कर्ता नचिरादिव।।

स नागपुरमागम्य गौतमस्य निवेशने।
भारद्वाजोऽवसत्तत्र प्रच्छन्नं द्विजसत्तमः।।

ततोऽस्य तनुजः पार्थान्कृपस्यानन्तरं प्रभुः।
अस्त्राणि शिक्षयामास नाबुध्यन्त च तं जनाः।।

एवं स तत्र गूढात्मा कंचित्कालमुवास ह।
कुमारास्त्वथ निष्क्रम्य समेता गजसाह्वयात्।।

क्रीडन्तो वीटया तत्र वीराः पर्यचरन्मुदा।
`तेषां संक्रीडमानानामुदपानेऽङ्गुलीयकम्।।

पपात धर्मपुत्रस्य वीटा तत्रैव चापतत्।
गर्तान्बुना प्रतिच्छन्नं तारारूपमिवाम्बरे।।

दृष्ट्वा चैते कुमाराश्च तं यत्नात्पर्यवारयन्।'
ततस्ते यत्नमातिष्ठन्वीटामुद्धर्तुमादृताः।
न च ते प्रत्ययद्यन्त कर्म वीटोपलब्धये।।

ततोऽन्योन्यमवैक्षन्त व्रीडयावनताननाः।
तस्या योगमविदन्तो भृशं चोत्कण्ठिताभवन्।।

तेऽपश्यन्ब्राह्मणं श्याममापन्नं पलितं कृशम्।
कृत्यवन्तमदूरस्थमग्निहोत्रपुरस्कृतम्।।

ते तं दृष्ट्वा महातमानमुपगम्य कुमारकाः।
भग्नोत्साहक्रियात्मानो ब्राह्मणं पर्यवारयन्।।

अथ द्रोणः कुमारांस्तान्दृष्ट्वा कत्यवशस्तदा।
प्रहस्य मन्दं पैशल्यादभ्यभाषत वीर्यवान्।।

अहो वो धिग्बलं क्षात्रं धिगेतां वः कृतास्त्रताम्।
भरतस्यान्वये जाता ये वीटां नाधिगच्छत।।

वीटां च मुद्रिकां चैव ह्यहमेतदपि द्वयम्।
उद्धरेयमिषीकाभिर्भोजनं मे प्रदीयताम्।।

ततोऽब्रवीत्तदा द्रोणं कुन्तीपुत्रो युधिष्ठिरः।
कृपस्यानुमते ब्रह्मन्भिक्षामाप्नुहि शाश्वतीम्।।

एवमुक्तः प्रत्युवाच प्रहस्य भरतानिदम्।

द्रोण उवाच।

एषा मुष्टिरिषीकाणां मयाऽस्त्रेणाभिमन्त्रिता।।

अस्या वीर्यं निरीक्षध्वं यदन्येषु न विद्यते।
वेत्स्यामीषिकया वीटां तामिषीकां तथाऽन्यया।।

तामन्यया समायोगे वीटाया ग्रहणं मम।

वैशंपायन उवाच।

ततो यथोक्तं द्रोणेन तत्सर्वं कृतमञ्जसा।।

तदवेक्ष्य कुमारास्ते विस्मयोत्फुल्ललोचनाः।
आश्चर्यमिदमत्यन्तमिति मत्वा वचोऽब्रुवन्।।

मुद्रिकामणि विप्रर्षे शीध्रमेतां समुद्धरथ

वैशंपायन उवाच।

ततः शरं समादाय धनुश्चापि महायशाः।।

शरेण विद्ध्वा मुद्रां तामूर्ध्वमावाहयत्प्रभुः।
स शरं समुपादाय कूपादङ्गुलिवेष्टनम्।।

ददौ ततः कुमाराणां विस्मितानामविस्मितः।
मुद्रिकामुद्धृतां दृष्ट्वा तमाहुस्ते कुमारकाः।।

अभिवन्दामहे ब्रह्मन्नैतदन्येषु विद्यते।
कोऽसि कस्यासि जानीमो वयं किं करवामहे।।

वैशंपायन उवाच।

एवमुक्तस्ततो द्रोणः प्रत्युवाच कुमारकान्।
आचक्षध्वं च भीष्माय रूपेण च गुणैश्च माम्।।

स एव सुमहातेजाः सांप्रतं प्रतिपत्स्यते।

वैशंपायन उवाच।

तथेत्युक्त्वा च गत्वा च भीष्ममूचुः कुमारकाः।।

ब्राह्मणस्य वचः कृत्स्नं तच्च कर्म तथाविधम्।
भीष्मः श्रुत्वा कुमाराणां द्रोणं तं प्रत्यजानत।।

युक्तरूपः स हि गुरुरित्येवमनुचिन्त्य च।
अथैनमानीय तदा स्वयमेव सुसत्कृतम्।।

परिपप्रच्छ निपुणं भीष्मः शस्त्रभृतां वरः।
हेतुमागमने तच्च द्रोणः सर्वं न्यवेदयत्।।

द्रोण उवाच।

महर्षेरग्निवेश्यस्य सकाशमहमच्युत।
अस्त्रार्थमगमं पूर्वं धनुर्वेदजिघृक्षया।।

ब्रह्मचारी विनीतात्मा जटिलो बहुलाः समाः।
अवसं सुचिरं तत्र गुरुशुश्रूषणे रतः।।

पाञ्चाल्यो राजपुत्रश्च यज्ञसेनो महाबलः।
इष्वस्त्रहेतोर्न्यवसत्तस्मिन्नेव गुरौ प्रभुः।।

स मे तत्र सखा चासीदुपकारी प्रियश्च मे।
तेनाहं सह संगम्य वर्तयन्सुचिरं प्रभो।।

बाल्यात्प्रभृति कौरव्य सहाध्ययनमेव च।
स मे सखा सदा तत्र प्रियवादी प्रियंकरः।।

अब्रवीदिति मां भीष्म वचनं प्रीतिवर्धनम्।
अहं प्रियतमः पुत्रः पितुर्द्रोण महात्मनः।।

अभिषेक्ष्यति मां राज्ये स पाञ्चाल्यो यदा तदा।
तद्भोज्यं भवता राज्यमर्धं सत्येन ते शपे।।

मम भोगाश्च वित्तं च त्वदधीनं सुखानि च।
एवमुक्त्वाऽथ वव्राज कृतास्त्रः पूजितो मया।।

तच्च वाक्यमहं नित्यं मनसा धारयंस्तदा।
सोऽहं पितृनियोगेन पुत्रलोभाद्यशस्विनीम्।।

शारद्वतीं महाप्रज्ञामुपयेमे महाव्रताम्।
अग्निहोत्रे च सत्रे च दमे च सततं रताम्।।

लेभे च गौतमी पुत्रमश्वत्थामानमौरसम्।
भीमविक्रमकर्माणमादित्यसमतेजसम्।।

पुत्रेण तेन प्रीतोऽहं भरद्वाजो मया यथा।
गोक्षीरं पिबतो दृष्ट्वा धनिनस्तत्र पुत्रकान्।
अश्वत्थामारुदद्बालस्तन्मे संदेहयद्दिशः।।

न स्नातकोऽवसीदेत वर्तमानः स्वकर्मसु।
इति संचिन्त्य मनसा तं देशं बहुशो भ्रमन्।।

विशुद्धणिच्छन्गाङ्गेय धर्मोपेतं प्रतिग्रहम्।
अन्तादन्तं परिक्रम्य नाध्यगच्छं पयस्विनीम्।।

यवपिष्टोदकेनैनं लोभयेयं कुमारकम्।
पीत्वा पिष्टरसं बालः क्षीरं पीतं मयाऽपि च।।

ननर्तोत्थाय कौरव्य हृष्टो बाल्याद्विमोहितः।
तं दृष्ट्वा नृत्यमानं तु बालैः परिवृतं सुतम्।।

हास्यतामुपसंप्राप्तं कश्मलं तत्र मेऽभवत्।
द्रोणं धिगस्त्वधनिनं यो धनं नाधिगच्छति।।

पिष्टोदकं सुतो यस्य पीत्वा क्षीरस्य तृष्णया।
नृत्यतिस्म मुदाविष्टः क्षीरं पीतं मयाऽप्युत।।

इति संभाषतां वाचं श्रुत्वा मे बुद्धिरच्यवत्।
आत्मानं चात्मना गर्हन्मनसेदं व्यचिन्तयम्।।

अपि चाहं पुरा विप्रैर्वर्जितो गर्हितो वसे।
परोपसेवां पापिष्ठां न च कुर्यां धनेप्सया।।

इति मत्वा प्रियं पुत्रं भीष्मादाय ततो ह्यहम्।
पूर्वस्नेहानुरागित्वात्सदारः सौमकिं गतः।।

अभिषिक्तं तु श्रुत्वैव कृतार्थोऽस्मीति चिन्तयन्।
प्रियं सखायं सुप्रीतो राज्यस्थं समुपागमम्।।

संस्मरन्सङ्गमं चैव वचनं चैव तस्य तत्।
ततो द्रुपदमागम्य सखइपूर्वमहं प्रभो।।

अब्रुवं पुरुषव्याघ्र सखायं विद्धि मामिति।
उपस्थितस्तु द्रुपदं सखिवच्चास्मि सङ्गतः।।

स मां निराकारमिव प्रहसन्निदमब्रवीत्।
अकृतेयं तव प्रज्ञा ब्रह्मन्नातिसमञ्जसा।।

यदात्थ मां त्वं प्रसभं सखा तेऽहमिति द्विज।
संगतनीह जीर्यन्ति कालेन परिजीर्यतः।।

सौहृदं मे त्वया ह्यासीत्पूर्वं सामर्थ्यबन्धनम्।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।।

साम्याद्धि सख्यं भवति वैषम्यान्नोपपद्यते।
न सख्यमजरं लोके विद्यते जातु कस्यचित्।।

कामो वैनं विहरति क्रोधो वैनं रहत्युत।
मैवं जीर्णमुपास्स्व त्वं सख्यं भवदुपाधिकृत्।।

आसीत्सख्यं द्विजश्रेष्ठ त्वया मेऽर्थनिबन्धनम्।
नह्यनाढ्यः सखाऽऽढ्यस्य नाविद्वान्विदुषः सखा।।

न शूरस्य सखा क्लीबः सखिपूर्वं किमिष्यते।
न हि राज्ञामुदीर्णानामेवं भूतैर्नरैः क्वचित्।।

सख्यं भवति मन्दात्मञ्छ्रिया हीनैर्धनच्युतैः।
नाश्रोत्रियः श्रोत्रियस्य नारथी रथिनः सखा।।

नाराजा पार्थिवस्यापि सखिपूर्वं किमिष्यते।
अहं त्वया न जानामि राज्यार्थे संविदं कृताम्।।

एकरात्रं तु ते ब्रह्मन्कामं दास्यामि भोजनम्।
एवमुक्तस्त्वहं तेन सदारः प्रस्थितस्तदा।।

तां प्रतिज्ञां प्रतिज्ञाय यां कर्ताऽस्म्यचिरादिव।
द्रुपदेनैवमुक्तोऽहं मन्युनाऽभिपरिप्लुतः।।

अभ्यागच्छं कुरून्भीष्म शिष्यैरर्थी गुणान्वितैः।
ततोऽहं भवतः कामं संवर्धयितुमागतः।।

इदं नागपुरं रम्यं ब्रूहि किं करवाणि ते।

वैशंपायन उवाच।

एवमुक्तस्तदा भीष्मो भारद्वाजमभाषत।।

भीष्म उवाच।

अपज्यं क्रियतां चापं साध्वस्त्रं प्रतिपादय।
भुङ्क्ष भोगान्भृशं प्रीतः पूज्यमानः कुरुक्षये।।

कुरूणामस्ति यद्वित्तं राज्यं चेदं सराष्ट्रकम्।
त्वमेव परमो राजा सर्वे वाक्यकरास्तव।।

यच्च ते प्रार्थितं ब्रह्मन्कृतं तदिति चिन्त्यताम्।
दिष्ट्या प्राप्तोऽसि विप्रर्षे महान्मेऽनुग्रहः कृतः।।