आदिपर्व

अध्यायः १४०

Adi Parva (Sanskrit) · Adhyaya 140
अक्षर का आकार

जनमेजय उवाच।

कृपस्यापि मम ब्रह्मन्संभवं वक्तुमर्हसि।
शरस्तम्बात्कथं जज्ञे कथं वाऽस्त्राण्यवाप्तवान्।।

वैशंपायन उवाच।

महर्षेर्गौतमस्यासीच्छरद्वान्नाम गौतमः।
पुत्रः किल महाराज जातः सहशरैर्विभो।।

न तस्य वेदाध्ययने तथा बुद्धिरजायत।
यथास्य बुद्धिरभवद्धनुर्वेदे परन्तप।।

अधिजग्मुर्यथा वेदास्तपसा ब्रह्मचारिणः।
तथा स तपसोपेतः सर्वाण्यस्त्राण्यवाप ह।।

धनुर्वेदपरत्वाच्च तपसा विपुलेन च।
भृशं सन्तापयामास देवराजं स गौतमः।।

ततो जालवतीं नाम देवकन्यां सुरेश्वरः।
प्राहिणोत्तपसो विघ्नं कुरु तस्येति कौरव।।

सा हि गत्वाऽऽश्रमं तस्य रमणीयं शरद्वतः।
धनुर्बाणधरं बाला लोभयामास गौतमम्।।

तामेकवसनां दृष्ट्वा गौतमोऽप्सरसं वने।
लोकेऽप्रतिमसंस्थानां प्रोत्फुल्लनयनोऽभवत्।।

धनुश्च हि शरास्तस्य कराभ्यामपतन्भुवि।
वेपथुश्चास्य सहसा शरीरे समजायत।।

स तु ज्ञानगरीयस्त्वात्तपसश्च समर्थनात्।
अवतस्थे महाप्राज्ञो धैर्येण परमेण ह।।

यस्तस्य सहसा राजन्विकारः समदृश्यत।
तेन सुस्राव रेतोऽस्य स च तन्नान्वबुध्यत।।

धनुश्च सशरं त्यक्त्वा तथा कृष्णाजिनानि च।
स विहायाश्रमं तं च तां चैवाप्सरसं मुनिः।।

जगाम रेतस्तत्तस्य शरस्तम्बे पपात च।
शरस्तम्बे च पतितं द्विधा तदभवन्नृप।।

तस्याथ मिथुं जज्ञे गौतमस्य शरद्वतः।
`महर्षेर्गौतमस्यास्य ह्याश्रमस्य समीपतः।।'
मृगयां चरतो राज्ञः शान्तनोस्तु यदृच्छया।।

कश्चित्सेनाचरोऽरण्ये मिथुनं तदपश्यत।
धनुश्च सशरं दृष्ट्वा तथा कृष्णाजिनानि च।।

ज्ञात्वा द्विजस्य चापत्ये धनुर्वेदान्तगस्य ह।
स राज्ञे दर्शयामास मिथुनं सशरं धनुः।।

स तदादाय मिथुनं राजा च कृपयान्वितः।
आजगाम गृहानेव मम पुत्राविति ब्रुवन्।।

ततः संवर्धयामास संस्कारैश्चाप्ययोजयत्।
प्रातिपेयो नरश्रेष्ठो मिथुनं गौतमस्य तत्।।

कृपया यन्मया बालाविमौ संवर्धिताविति।
तस्मात्तयोर्नाम चक्रे तदेव स महीपतिः।
`तस्मात्कृप इति ख्यातः कृपी कन्या च साऽभवत्।।'

पितापि गौतमस्तत्र तपसा ताववन्दित।
आगत्य तस्मै गोत्रादि सर्वमाख्यातवांस्तदा।।

`कृपोऽपि च तदा राजन्धनुर्वेदपरोऽभवत्।'
चतुर्विधं धनुर्वेदं शास्त्राणि विविधानि च।।

निशिलेनास्य तत्सर्वं गुह्यमाख्यातवान्पिता।
सोऽचिरेणैव कालेन परमाचार्यतां गतः।।

कृपमाहूय गाङ्गेयस्तव शिष्या इति ब्रुवन्।
पौत्रान्परिसमाधाय कृपमाराधयत्तदा।।

ततोऽधिजग्मुः सर्वे ते धनुर्वेदं महारथाः।
धृतराष्ट्रात्मजाश्चैव पाण्डवाः सह यादवैः।।

वृष्णयश्च नृपाश्चान्ये नानादेशसमागताः।
`कृपमाचार्यमासाद्य परमास्त्रज्ञतां गतः।'

वैशंपायन उवाच।

विशेषार्थी ततो भीष्मः पौत्राणां विनयेप्सया।।

इष्वस्त्रज्ञान्पर्यपृच्छदाचार्यान्वीर्यसंमतान्।
नाल्पधीर्नामहाभागस्तथा नानस्त्रकोविदः।।

नादेवसत्वो विनयेत्कुरूनस्त्रे महावलान्।
इति संचिन्त्य गाङ्गेयस्तदा भरतसत्तमः।।

द्रोणाय वेदविदुषे भारद्वाजाय धमते।
पाण्डवान्कौरवांश्चैव ददौ शिष्यान्नरर्षभ।।

शास्त्रतः पूजितश्चैव सम्यक्तेन महात्मना।
स भीष्मेण महाभागस्तुष्टोऽस्त्रविदुषां वरः।।

प्रतिजग्राह तान्सर्वाञ्शिष्यत्वेन महायशाः।
शिक्षयामास च द्रोणो धनुर्वेदमशेषतः।।

तेऽचिरेणैव कालेन सर्वशस्त्रविशारदाः।
बभूवुः कौरवा राजन्पाण्डवाश्चामितौजसः।।

जनमेजय उवाच।

कथं समभवद्द्रोणः कथं चास्त्राण्यवाप्तवान्।
कथं चागात्कुरून्ब्रह्मन्कस्य पुत्रः स वीर्यवान्।।

कथं चास्य सुतो जातः सोश्वत्थामाऽस्त्रवित्तमः।
एतदिच्छाम्यहं श्रोतुं विस्तरेण प्रकीर्तय।।

वैशंपायन उवाच।

गङ्गाद्वारं प्रति महान्बभूव भगवानृषिः।
भरद्वाज इति ख्यातः सततं संशितव्रतः।।

सोऽभिषेक्तुं गतो गङ्गां पूर्वमेवागतां सतीम्।
महर्षिभिर्भरद्वाजो हविर्धाने चरन्पुरा।।

ददर्शाप्सरसं साक्षाद्धृताचीमाप्लुतामृषिः।
रूपयौवनसंपन्नां मददृप्तां मदालसाम्।।

तस्या वायुर्नदीतीर वसनं पर्यवर्तत।
व्यपकृष्टाम्बरां दृष्ट्वा तामृषिश्चकमे ततः।।

तत्र संसक्तमनसो भरद्वाजस्य धीमतः।
हृष्टस्य रेतश्चस्कन्द तदृषिर्द्रोण आदधे।।

ततः समभवद्द्रोणः कलशे तस्य धीमतः।
अध्यगीष्ट स वेदांश्च वेदाङ्गानि च सर्वशः।।

अग्नेरस्त्रमुपादाय यदृषिर्वेद काश्यपः।
अध्यगच्छद्भरद्वाजस्तदस्त्रं देवकार्यतः।।

अग्निवेश्यं महाभागं भरद्वाजः प्रतापवान्।
प्रत्यपादयदाग्नेयमस्त्रमस्त्रविदां वरः।।

`कनिष्ठजातं स मुनिर्भ्राता भ्रातरमन्तिके।
अग्निवेश्यस्तथा द्रोणं तदा भरतसत्तम।'
भारद्वाजं तदाग्नेयं महास्त्रं प्रत्यपादयत्।।

भरद्वाजसखा चासीत्पृषतो नाम पार्थिवः।
तस्यापि द्रुपदो नाम तथा समभवत्सुतः।।

स नित्यमाश्रमं गत्वा द्रोणेन सह पार्थिवः।
चिक्रीडाध्ययनं चैव चकार क्षत्रियर्षभः।।

ततो व्यतीते पृषते स राजा द्रुपदोऽभवत्।
पञ्चालेषु महाबाहुरुत्तरेषु नरेश्वरः।।

भरद्वाजोऽपि भगवानारुरोह दिवं तदा।
तत्रैव च वसन्द्रोणस्तपस्तेपे महातपाः।।

वेदवेदाङ्गविद्वान्स तपसा दग्धकिल्बिषः।
ततः पितृनियुक्तात्मा पुत्रलोभान्महायशाः।।

शारद्वतीं ततो भार्यां कृपीं द्रोणोऽन्वविन्दत।
अग्निहोत्रे च धर्मे च दमे च सतत रताम्।।

अलभद्गौतमी पुत्रमश्वत्थामानमेव च।
स जातमात्रो व्यनदद्यथैवोच्चैःश्रवा हयः।।

तच्छ्रुत्वान्तर्हितं भूतमन्तरिक्षस्थमब्रवीत्।
अश्वस्येवास्य यत्स्थाम नदतः प्रदिशो गतम्।।

अश्वत्थामैव बालोऽयं तस्मान्नाम्ना भविष्यति।
सुतेन तेन सुप्रीतो भारद्वाजस्ततोऽभवत्।।

तत्रैव च वसन्धीमान्धनुर्वेदपरोऽभवत्।
स शुश्राव महात्मानं जामदग्न्यं परंतपम्।।

सर्वज्ञानविदं विप्रं सर्वशस्त्रभृतां वरम्।
ब्राह्मणेभ्यस्तदा राजन्दित्सन्तं वसु सर्वशः।।

स रामस्य धनुर्वेदं दिव्यान्यस्त्राणि चैव ह।
श्रउत्वा तेषु मनश्चक्रे नीतिशास्त्रे तथैव च।।

ततः स व्रतिभिः शिष्यैस्तपोयुक्तैर्महातपाः।
वृतः प्रायान्महावाहुर्महेन्द्रं पर्वतोत्तमम्।।

ततो महेन्द्रमासाद्य भारद्वाजो महातपाः।
क्षत्रघ्नं तममित्रघ्नमपश्यद्भृगुनन्दनम्।।

ततो द्रोणो वृतः शिष्यैरुपगम्य भृगूद्वहम्।
आचख्यावात्मनो नाम जन्म चाङ्गिरसः कुले।।

निवेद्य शिरसा भूमौ पादौ चैवाभ्यवादयत्।
ततस्तं सर्वमुत्सृज्य वनं जिगमिषुं तदा।।

जामदग्न्यं महात्मानं भारद्वाजोऽब्रवीदिदम्।
भरद्वाजात्समुत्पन्नं तथा त्वं मामयोनिजम्।।

आगतं वित्तकामं मां विद्धि द्रोणं द्विजोत्तम।
तमब्रवीन्महात्मा स सर्वक्षत्रियमर्दनः।।

स्वागतं ते द्विजश्रेष्ठ यदिच्छसि वदस्व मे।
एवमुक्तस्तु रामेण भारद्वाजोऽब्रवीद्वचः।।

रामं प्रहरतां श्रेष्ठं दित्सन्तं विविधं वसु।
अहं धनमनन्तं हि प्रार्थये विपुलव्रत।।

राम उवाच।

हिरण्यं मम यच्चान्यद्वसु किंचिदिह स्थितम्।
ब्राह्मणेभ्यो मया दत्तं सर्वमेतत्तपोधन।।

तथैवेयं धरा देवी सागरान्ता सपत्तना।
कश्यपाय मया दत्ता कृत्स्ना नगरमालिनी।।

शरीरमात्रमेवाद्य ममेदमवशेषितम्।
अस्त्राणि च महार्हाणि शस्त्राणि विविधानि च।।

अस्त्राणि वा शरीरं वा ब्रह्मञ्शस्त्राणि वा पुनः।
वृणीष्व किं प्रयच्छामि तुभ्यं द्रोण वदाशु तत्।।

द्रोण उवाच।

अस्त्राणि मे समग्राणि ससंहाराणि भार्गव।
स प्रयोगरहस्यानि दातुमर्हस्यशेषतः।।

`एतद्वसु वसूनां हि सर्वेषां विप्रसत्तम।'
तथेत्युक्त्वा ततस्तस्मै प्रादादस्त्राणि भार्गवः।
सरहस्यव्रतं चैव धनुर्वेदमशेषतः।।

प्रतिगृह्य तु तत्सर्वं कृतास्त्रे द्विजसत्तमः।
प्रियं सखायं सुप्रीतो जगाम द्रुपदं प्रति।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि
चत्वारिंशदधिकशततमोऽध्यायः।। 140 ।।