आदिपर्व

अध्यायः ११७

Adi Parva (Sanskrit) · Adhyaya 117
अक्षर का आकार

वैशंपायन उवाच।

ततः स मुनिशार्दूलस्तानुवाच तपोधनान्।
दोषतः कं गमिष्यामि न हि मेऽन्योपराध्यति।।

तं दृष्ट्वा रक्षिणस्तत्र तथा बहुतिथेऽहनि।
न्यवेदयंस्तथा राज्ञे यथावृत्तं नराधिप।।

राजा च तमृषिं श्रुत्वा निष्क्रम्य सह मन्त्रिभिः।
प्रसादयामास तदा शूलस्थमृषिसत्तमम्।।

प्रजोवाच।

यन्मयाऽपकृतं मोहादज्ञानादृषिसत्तम।
प्रसादये त्वां तत्राहं न मे त्वं क्रोद्धुमर्हसि।।

वैशंपायन उवाच।

एवमुक्तस्ततो राज्ञा प्रसादमकरोन्मुनिः।
कृतप्रसादं राजा तं ततः समवतारयत्।।

अवतार्य च शूलाग्रात्तच्छूलं निश्चकर्ष ह।
अशक्नुवंश्च निष्क्रष्टुं शूलं मूले स चिच्छिदे।।

स तथान्तर्गतेनैव शूलेन व्यचरन्मुनिः।
कण्ठपार्श्वान्तरस्थेन शङ्कुना मुनिराचत्।
पुष्पभाजनधारी स्यादिति चिन्तापरोऽभवत्।।'

स चातितपसा लोकान्विजिग्ये दुर्लभान्परैः।।

अणीमाण्डव्य इति च ततो लोकेषु गीयते।
स गत्वा सदनं विप्रो धर्मस्य परमार्थवित्।।

आसनस्थं ततो धर्मं दृष्ट्वोपालभत प्रभुम्।
किं नु तद्दुष्कृतं कर्म मया कृतमजानता।।

यस्येयं फलनिर्वृत्तिरीदृश्यासादिता मया।
शीघ्रमाचक्ष्व मे तत्त्वं पश्य मे तपसो बलम्।।

धर्म उवाच।

पतङ्गिकानां पुच्छेषु त्वयेषीका प्रवेशिता।
कर्मणस्तस्य ते प्राप्तं फलमेतत्तपोधन।।

स्वल्पमेव यथा दत्तं दानं बहुगुणं भवेत्।
अधर्म एवं विप्रर्षे बहुदुःखफलप्रदः।।

अणीमाण्डव्य उवाच।

कस्मिन्काले मया तत्तु कृतं ब्रूहि यथातथम्।
तेनोक्तं धर्मराजेन बालभावे त्वया कृतम्।।

अणीमाण्डव्य उवाच।

बालो हि द्वादशाद्वर्षाज्जन्मतो यत्करिष्यति।
न भविष्यत्यधर्मोऽत्र न प्रज्ञास्यति वै दिशः।।

अल्पेऽपराधेऽपि महान्मम दण्डस्त्वया धृतः।
गरीयान्ब्राह्मणवधः सर्वभूतवधादपि।।

शूद्रयोनावतो धर्म मानुषः संभविष्यसि।
मर्यादां स्थापयाम्यद्य लोके कर्मफलोदयाम्।।

आ चतुर्दशकाद्वर्षान्न भविष्यति पातकम्।
परतः कुर्वतामेव दोष एव भविष्यति।।

वैशंपायन उवाच।

एतेन त्वपराधेन शापात्तस्य महात्मनः।
धर्मो विदुररूपेण शूद्रयोनावजायत।।

धर्मे चार्थे च कुशलो लोभक्रोधविवर्जितः।
दीर्घदर्शी शमपरः कुरूणां च हिते रतः।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि सप्तदशाधिकशततमोऽध्यायः।। 117 ।।