आदिपर्व

अध्यायः ११६

Adi Parva (Sanskrit) · Adhyaya 116
अक्षर का आकार

जनमेजय उवाच।

किं कृतं कर्म धर्मेण येन शापमुपेयिवान्।
कस्य शापाच्च ब्रह्मर्षेः शूद्रयोनावजायत।।

वैशंपायन उवाच।

बभूव ब्राह्मणः कश्चिन्माण्डव्य इति विश्रुतः।
धृतिमान्सर्वधर्मज्ञः सत्ये तपसि च स्थितः।।

`स तीर्थयात्रां विचरन्नाजगाम यदृच्छया।
संनिकृष्टानि तीर्थानि ग्रामाणां यानि कानि च।
तत्राश्रमपदं कृत्वा वसति स्म महामुनिः।।'

स आश्रमपदद्वारि वृक्षमूले महातपाः।
ऊर्ध्वबाहुर्महायोगी तस्थौ मौनव्रतान्वितः।।

तस्य कालेन महता तस्मिंस्तपसि वर्ततः।
तमाश्रममनुप्राप्ता दस्यवो लोप्त्रहारिणः।।

अनुसार्यमाणा बहुभी रक्षिभिर्भरतर्षभ।
`तामेव वसतिं जग्मुस्ते ग्रामाल्लोप्त्रहारिणः।।

यस्मिन्नावसथे शेते स मुनिः संशितव्रतः।'
ते तस्यावसथे लोप्त्रं दस्यवः कुरुसत्तम।।

निधाय च भयाल्लीनास्तत्रैवानागते बले।
तेषु लीनेष्वथो शीघ्रं ततस्तद्रक्षिणां बलम्।।

आजगाम ततोऽपश्यंस्तमृषिं तस्करानुगाः।
तमपृच्छंस्ततो राजंस्तथावृत्तं तपोधनम्।।

कतरेण पथा याता दस्यवो द्विजसत्तम।
तेन गच्छामहे ब्रह्मन्यथा शीघ्रतरं वयम्।।

तथा तु रक्षिमां तेषां ब्रुवतां स तपोधनः।
न किंचिद्वचनं राजन्नब्रवीत्साध्वसाधु वा।।

ततस्ते राजपुरुषा विचिन्वानास्तमाश्रमम्।
ददृशुस्तत्र लीनांस्तांश्चोरांस्तद्द्रव्यमेव च।।

ततः शङ्का समभवद्रक्षिणां तं मुनिं प्रति।
संयम्यैनं ततो राज्ञे दस्यूंश्चैव न्यवेदयन्।।

तं राजा सह तैश्चोरैरन्वशाद्वध्यतामिति।
स रक्षिभिस्तैरज्ञातः शूले प्रोतो महातपाः।।

ततस्ते शूलमारोप्य तं मुनिं रक्षिणस्तदा।
प्रतिजग्मुर्महीपालं धनान्यादाय तान्यथ।।

शूलस्थः स तु धर्मात्मा कालेन महता ततः।
निराहारोऽपि विप्रर्षिर्मरणं नाभ्यपद्यत।।

धारयामास च प्राणानृषींश्च समुपानयत्।
शूलाग्रे तप्यमानेन तपस्तेन महात्मना।।

सन्तापं परमं जग्मुर्मुनयस्तपसाऽन्विताः।
ते रात्रौ शकुना भूत्वा सन्निपत्त्य तु भारत।
दर्शन्तो यथाशक्ति तमपृच्छन्द्विजोत्तमम्।।

श्रोतुमिच्छामहे ब्रह्मन्किं पापं कृतवानसि।
येनेह समनुप्राप्तं शूले दुःखभयं महत्।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि षोडशाधिकशततमोऽध्यायः।। 116 ।।