आदिपर्व

अध्यायः १०९

Adi Parva (Sanskrit) · Adhyaya 109
अक्षर का आकार

वैशंपायन उवाच।

हते चित्राङ्गदे भीष्मो बाले भ्रातरि कौरव।
पालयामास तद्राज्यं सत्यवत्या मते स्थितः।।

`तथा विचित्रवीर्यं तु वर्तमानं सुखेऽतुले।'
संप्राप्तयौवनं दृष्ट्वा भ्रातरं धीमतां वरः।
भीष्मो विचित्रवीर्यस्य विवाहायाकरोन्मतिम्।।

अथ काशिपतेर्भीष्मः कन्यास्तिस्रोऽप्सरोपमाः।
शुश्राव सहिता राजन्वृण्वाना वै स्वयंवरम्।।

ततः स रथिनां श्रेष्ठो रथेनैकेन शत्रुजित्।
जगामानुमते मातुः पुरीं वाराणसीं प्रभुः।।

तत्र राज्ञः समुदितान्सर्वतः समुपागतान्।
ददर्श कन्यास्ताश्वै भीष्मः शान्तनुनन्दनः।।

`तासां कामेन संमत्ताः सहिताः काशिकोसलाः।
वङ्गाः पुण्ड्राः कलिङ्गाश्च ते जग्मुस्तां पुरीं प्रति।।'

कीर्त्यमानेषु राज्ञां तु तदा नामसु सर्वशः।
एकाकिनं तदा भीष्मं वृद्धं शान्तनुनन्दनम्।।

सोद्वेगा इव तं दृष्ट्वा कन्याः परमशोभनाः।
अपाक्रामन्त ताः सर्वा वृद्ध इत्येव चिन्तया।।

वृद्धः परमधर्मात्मा वलीपलितधारणः।
किकारणमिहायातो निर्लज्जो भरतर्षभः।।

मिथ्याप्रतिज्ञो लोकेषु किं वदिष्यति भारत।
ब्रह्मचारीति भीष्मो हि वृथैव प्रथितो भुवि।।

इत्येवं प्रबुवन्तस्ते हसन्ति स्म नृपाधमाः।

वैशंपायन उवाच।

क्षत्रियाणां वचः श्रुत्वा भीष्मश्चुक्रोध भारत।।

भीष्मस्तदा स्वयं कन्या वरयामास ताः प्रभुः।
उवाच च महीपालान्राजञ्जलदनिःस्वनः।।

रथमारोप्य ताः कन्या भीष्मः प्रहरतां वरः।
आहूय दानं कन्यानां गुणवद्भ्यः स्मृतं बुधैः।।

अलङ्कृत्य यथाशक्ति प्रदाय च धनान्यपि।
प्रयच्छन्त्यपरे कन्यां मिथुनेन गवामपि।।

वित्तेन कथितेनान्ये बलेनान्येऽनुमान्य च।
प्रमत्तामुपयन्त्यन्ये स्वयमन्ये च विन्दते।।

आर्षं विधिं पुरस्कृत्य दारान्विन्दन्ति चापरे।
अष्टमं तमथो वित्त विवाहं कविभिर्वृतम्।।

स्वयंवरं तु राजन्याः प्रशंसन्त्युपयान्ति च।
प्रमथ्य तु हृतामाहुर्ज्यायसीं धर्मवादिनः।।

ता इमाः पृथिवीपाला जिहीर्षामि बलादितः।
ते यतध्वं परं शक्त्या विजयायेतराय वा।।

स्थितोऽहं पृथिवीपाला युद्धाय कृतनिश्चयः।

वैशंपायन उवाच।

एवमुक्त्वा महीपालान्काशिराजं च वीर्यवान्।।

सर्वाः कन्याः स कौरव्यो रथमारोप्य च स्वकम्।
आमन्त्र्य च स तान्प्रायाच्छीघ्रं कन्याः प्रगृह्य ताः।।

ततस्ते पार्थिवाः सर्वे समुत्पेतुरमर्षिताः।
संस्पृशन्तः स्वकान्बाहून्दशन्तो दशनच्छदान्।।

तेषामाभरणान्याशु त्वरितानां विमुञ्चताम्।
आमुञ्चतां च वर्माणि संभ्रमः सुमहानभूत्।।

ताराणामिव संपातो बभूव जनमेजय।
भूषणानां च सर्वेषां कवचानां च सर्वशः।।

सवर्मभिर्भूषणैश्च प्रकीर्यद्बिरितस्ततः।
सक्रोधामर्षजिह्मभ्रूकषायीकृतलोचनाः।।

सूतोपक्लृप्तान् रुचिरान्सदश्वैरुपकल्पितान्।
रथानास्थाय ते वीराः सर्वप्रहरणान्विताः।।

प्रयान्तमथ कौरव्यमनुसस्रुरुदायुधाः।
ततः समभवद्युद्धं तेषां तस्य च भारत।
एकस्य च बहूनां च तुमुलं रोमहर्षणम्।।

ते त्विषून्दशसाहस्रांस्तस्मिन्युगपदाक्षिपन्।
अप्राप्तांश्चैव तानाशु भीष्मः सर्वांस्तथाऽन्तरा।।

अच्छिनच्छरवर्षेण महता लोमवाहिना।
ततस्ते पार्थिवाः सर्वे सर्वतः परिवार्य तम्।।

ववृषुः शरवर्षेण वर्षेणेवाद्रिमम्बुदाः।
स तं बाणमयं वर्षं शरैरावार्य सर्वतः।।

ततः सर्वान्महीपालान्पर्यविध्यत्त्रिभिस्त्रिभिः।
एकैकस्तु ततो भीष्मं राजन्विव्याध पञ्चभिः।।

स च तान्प्रतिविव्याध द्वाभ्यां द्वाभ्यां पराक्रमन्।
तद्युद्धमासीत्तुमुलं घोरं देवासुरोपमम्।।

पश्यतां लोकवीराणां शरशक्तिसमाकुलम्।
स धनूंषि ध्वजाग्राणि वर्माणि च शिरांसि।।

चिच्छेद समरे भीष्मः शतशोथ सहस्रशः।
तस्यातिपुरुषं कर्म लाघवं रथचारिणः।।

रक्षणं चात्मनः संख्ये शत्रवोऽप्यभ्यपूजयन्।
`अक्षतः क्षपयित्वान्यानसङ्ख्येयपराक्रमः।।

आनिनाय स काश्यस्य सुताः सागरगासुतः।'
तान्विनिर्जित्य तु रणे सर्वशस्त्रभृतां वरः।।

कन्याभिः सहितः प्रायाद्भारतो भारतान्प्रति।
ततस्तं पृष्ठतो राजञ्शाल्वराजो महारथः।।

अभ्यगच्छदमेयात्मा भीष्मं शान्तनवं रणे।
वारणं जघने भिन्दन्दन्ताभ्यामपरो यथा।।

वासितामनुसंप्राप्तो यूथपो बलिनां वरः।
स्त्रीकामस्तिष्ठतिष्ठेति भीष्ममाह स पार्थिवः।।

साल्वराजो महाबाहुरमर्षेण प्रचोदितः।
ततः स पुरुषव्याघ्रो भीष्मः परबलार्दनः।।

तद्वाक्याकुलितः क्रोधाद्विधूमोग्निरिव ज्वलन्।
विततेषुधनुष्पाणिर्विकुञ्चितललाटभृत्।।

क्षत्रधर्मं समास्थाय व्यपेतभयसंभ्रमः।
निवर्तयामास रथं साल्वं प्रति महारथः।।

निवर्तमानं तं दृष्ट्वा राजानः सर्व एव ते।
प्रेक्षकाः समपद्यन्त भीष्मसाल्वसमागमे।।

तौ वृषाविव नर्दन्तौ बलिनौ वासितान्तरे।
अन्योन्यमभिवर्तेतां बलविक्रमशालिनौ।।

ततो भीष्मं शान्तनवं शरैः शतसहस्रशः।
साल्वराजो नरश्रेष्ठः समवाकिरदाशुगैः।।

पूर्वमभ्यर्दितं दृष्ट्वा भीष्मं साल्वेन ते नृपाः।
विस्मिताः समपद्यन्त साधुसाध्विति चाब्रुवन्।।

लाघवं तस्य ते दृष्ट्वा समरे सर्वपार्थिवाः।
अपूजयन्त संहृष्टा वाग्भिः साल्वं नराधिपम्।।

क्षत्रियाणां ततो वाचः श्रुत्वा परपुञ्जयः।
क्रुद्धः शान्तनवो भीष्मस्तिष्ठतिष्ठेत्यभाषत।।

सारथिं चाब्रवीत्क्रुद्धो याहि यत्रैष पार्थिवः।
यावदेनं निहन्म्यद्य भुजङ्गमिव पक्षिराट्।।

ततोऽस्त्रं वारुणं सम्यग्योजयामास कौरवः।
तेनाश्वांश्चतुरोऽमृद्गात्साल्वराजस्य भूपते।।

अस्त्रैरस्त्राणि संवार्य साल्वराजस्य कौरवः।
भीष्मो नृपतिशार्दूल न्यवधीत्तस्य सारथिम्।।

अस्त्रेण चास्याथैन्द्रेण न्यवधीत्तुरगोत्तमान्।
कन्याहेतोर्नरश्रेष्ठ भीष्मः शान्तनवस्तदा।।

जित्वा विसर्जयामास जीवन्तं नृपसत्तमम्।
ततः साल्वः स्वनगरं प्रययौ भरतर्षभ।।

स्वराज्यमन्वशाच्चैव धर्मेण नृपतिस्तदा।
राजानो ये च तत्रासन्स्वयंवरदिदृक्षवः।।

स्वान्येव तेऽपि राष्ट्राणि जग्मुः परपुरञ्जयाः।
एवं विजित्य ताः कन्या भीष्मः प्रहरतां वरः।।

प्रययौ हास्तिनपुरं यत्र राजा स कौरवः।
विचित्रवीर्यो धर्मात्मा प्रशास्ति वसुधामिमाम्।।

यथा पितास्य कौरव्यः शान्तनुर्नृपसत्तमः।
सोऽचिरेणैव कालेन अत्यक्रामन्नराधिप।।

वनानि सरितश्चैव शैलांश्च विनिधान्द्रुमान्।
अक्षतः क्षपयित्वाऽरीन्सङ्ख्येऽसङ्ख्येयविक्रमः।।

आनयामास काश्यस्य सुताः सागरगासुतः।
स्नुषा इव स धर्मात्मा भगिनीरिव चानुजाः।।

यथा दुहितश्चैव परिगृह्य ययौ कुरून्।
आनिन्ये स महाबाहुर्भ्रातुः प्रियचिकीर्षया।।

ताः सर्वगुणसंपन्ना भ्राता भ्रात्रे यवीयसे।
भीष्मो विचित्रवीर्याय प्रददौ विक्रमाहृताः।।

एवं धर्मेण धर्मज्ञः कृत्वा कर्मातिमानुषम्।
भ्रातुर्विचित्रवीर्यस्य विवाहायोपचक्रमे।।

सत्यवत्या सह मिथः कृत्वा निश्चयमात्मवान्।
विवाहं कारयिष्यन्तं भीष्मं काशिपतेः सुता।
ज्येष्ठा तासामिदं वाक्यमब्रवीद्धसती तदा।।

मया सौभपतिः पूर्वं मनसा हि वृतः पतिः।
तेन चास्मि वृता पूर्वमेष कामश्च मे पितुः।।

मया वरयितव्योऽभूत्साल्वस्तस्मिन्स्वयंवरे।
एतद्विज्ञाय धर्मज्ञ धर्मतत्त्वं समाचर।।

एवमुक्तस्तया भीष्मः कन्यया विप्रसंसदि।
चिन्तामभ्यगमद्वीरो युक्तां तस्यैव कर्मणः।।

`अन्यसक्ता त्वियं कन्या ज्येष्ठा त्वम्बा मया जिता।
वाचा दत्ता मनोदत्ता कृतमङ्गलवाचना।।

निर्दिष्टा तु परस्यैव सा त्याज्या परचिन्तिनी।
इत्युक्त्वा चानुमान्यैव भ्रातरं स्ववशानुगम्।।'

विनिश्चित्य स धर्मज्ञो ब्राह्मणैर्वेदपारगैः।
अनुजज्ञे तदा ज्येष्ठामम्बां काशिपतेः सुताम्।।

अम्बिकाम्बालिके भार्ये प्रादाद्भ्रात्रे यवीयसे।
भीष्मो विचित्रवीर्याय विधिदृष्टेन कर्मणा।।

तयोः पाणी गृहीत्वा तु रूपयौवनदर्पितः।
विचित्रवीर्यो धर्मात्मा नाम्बामैच्छत्कथंचन।।

`अम्बामन्यस्य कीर्त्यन्तीमब्रवीच्चारुदर्शनाम्।

विचित्रवीर्य उवाच।

पापस्य फलमेवैष कामोऽसाधुर्निरर्थकः।
परतन्त्रोपभोगो मामार्य नाऽऽयोक्तुमर्हसि।।

भीष्म उवाच।

प्रातिष्ठच्छान्तनोर्वंशस्तात यस्य त्वमन्वयः।
अकामवृत्तो धर्मात्मन्साधु मन्ये मतं तव।।

इत्युक्त्वाम्बां समालोक्य विधिवद्वाक्यमब्रवीत्।
विसृष्टा ह्यसि गच्छ त्वं यथाकाममनिन्दिते।।

नानियोज्ये समर्थोऽहं नियोक्तुं भ्रातरं प्रियम्।
अन्यबावगतां चापि को नारीं वासयेद्गृहे।।

अतस्त्वां न नियोक्ष्यामि अन्यकामासि गम्यताम्।
अहमप्यूर्ध्वरेता वै निवृत्तो दारकर्मणि।।

न संबन्धस्तदावाभ्यां भविता वै कथंचन।

वैशंपायन उवाच।

इत्युक्ता सा गता तत्र सखीभिः परिवारिता।।

निर्दिष्टा हि शनै राजन्साल्वराजपुरं प्रति।
अथाम्बा साल्वंमागम्य साऽब्रवीत्प्रतिपूज्य तं।।

पुरा निर्दिष्टभावा त्वामागतास्मि वरानन।
देवव्रतं समुत्सृज्य सानुजं भरतर्षभम्।।

प्रतिगृह्णीष्व भद्रं ते विधिवन्मां समुद्यताम्।।

वैशंपायन उवाच।

तयैवमुक्तः साल्वोपि प्रहसन्निदमब्रवीत्।
निर्जिताऽसीह भीष्मेण मां विनिर्जित्य राजसु।।

अन्येन निर्जितां भद्रे विसृष्टां तेन चालयात्।
न गृह्णामि वरारोहे तत्र चैव तु गम्यताम्।।

वैशंपायन उवाच।

इत्युक्ता सा समागम्य कुरुराज्यमनुत्तमम्।
अम्बाब्रवीत्ततो भीष्मं त्वयाऽहं सहसा हृता।।

क्षत्रधर्ममवेक्षस्व त्वं भर्ता मम धर्मतः।
यां यः स्वयंवरे कन्यां निर्जयेच्छौर्यसंपदा।।

राज्ञः सर्वान्विनिर्जित्य स तामुद्वाहयेद्ध्रुवम्।
अतस्त्वमेव भर्ता मे त्वयाऽहं निर्जिता यतः।।

तस्माद्वहस्व मां भीष्म निर्जितां संसदि त्वया।
ऊर्ध्वरेता ह्यहमिति प्रत्युवाच पुनःपुनः।।

भीष्मं सा चाब्रवीदम्बा यथाजैषीस्तथा कुरु।
एवमन्वगमद्भीष्मं षट्समाः पुष्करेक्षणा।।

ऊर्ध्वरेतास्त्वहं भद्रे विवाहविमुखोऽभवम्।
तमेव साल्वं गच्छ त्वं यः पुरा मनसा वृतः।।

अन्यसक्तं किमर्थं त्वमात्मानमवदः पुरा।
अन्यसक्तां वधूं कन्यां वासयेत्स्वगृहे न हि।।

नाहमुद्वाहयिष्ये त्वां मम भ्रात्रे यवीयसे।
विचित्रवीर्याय शुभे यथेष्टं गम्यतामिति।।

भूयः साल्वं समभ्येत्य राजन्गृह्णीष्व मामिति।
नाहं गृह्णाम्यन्यजितामिति साल्वनिराकृता।।

ऊर्ध्वरेतास्त्वहमिति भीष्मेण च निराकृता।
अम्बा भीष्मं पुनः साल्वं भीष्मं साल्वं पुनः पुनः।।

गमनागमनेनैवमनैषीत्षट् समा नृप।
अश्रुभिर्भूमिमुक्षन्ती शोचन्ती सा मनस्विनी।।

पीनोन्नतकुचद्वन्द्वा विशालजघनेक्षणा।
श्रोणीभरालसगमा राकाचन्द्रनिभानना।।

वर्षत्कादम्बिनीमूर्ध्नि स्फुरन्ती चञ्चलेव सा।
सा ततो द्वादश समा बाहुदामभितो नदीम्।
पार्श्वे हिमवतो रम्ये तपो घोरं समाददे।।

संक्षिप्तकरणा तत्र तप आस्थाय सुव्रता।
पादाङ्गुष्ठेन साऽतिष्ठदकम्पन्त ततः सुराः।।

तस्यास्तत्तु तपो दृष्ट्वा सुराणां क्षोभकारकम्।
विस्मितश्चैव हृष्टश्च तस्यानुग्रहबुद्धिमान्।।

अनन्तसेनो भगवान्कुमारो वरदः प्रभुः।
मानयन्राजपुत्रीं तां ददौ तस्यै शुभां स्रजम्।।

एषा पुष्करिणी दिव्या यथावत्समुपस्थिता।
अम्बे त्वच्छोकशमनी माला भुवि भविष्यति।।

एतां चैव मया दत्तां मालां यो धारयिष्यति।
सोऽस्य भीष्मस्य निधने कारणं वै भविष्यति।।

।। इति श्रीमन्महाभारते आदिपर्वणि संभवपर्वणि नवाधिकशततमोऽध्यायः।। 109 ।।