आदिपर्व

अध्यायः १०८

Adi Parva (Sanskrit) · Adhyaya 108
अक्षर का आकार

वैशंपायन उवाच।

`चेदिराजसुतां ज्ञात्वा दाशराजेन वर्धिताम्।
विवाहं कारयामास शास्त्रदृष्टेन कर्मणा।।'

ततो विवाहे निर्वृत्ते स राजा शान्तनुर्नृपः।
तां कन्यां रूपसंपन्नां स्वगृहे संन्यवेशयत्।।

ततः शान्तनवो धीमान्सत्यवत्यामजायत।
वीरश्चित्राङ्गदो नाम वीर्यवान्पुरुषेश्वरः।।

अथापरं महेष्वासं सत्यवत्यां सुतं प्रभुः।
विचित्रवीर्यं राजानं जनयामास वीर्यवान्।।

अप्राप्तवति तस्मिंस्तु यौवनं पुरुषर्षभे।
स राजा शान्तनुर्धीमान्कालधर्ममुपेयिवान्।।

स्वर्गते शान्तनौ भीष्मश्चित्राङ्गदमरिन्दनम्।
स्थापयामास वै राज्ये सत्यवत्या मते स्थितः।।

स तु चित्राङ्गदः शौर्यात्सर्वांश्चिक्षेप पार्थिवान्।
मनुष्यं न हि मेन स कंचित्सदृशमात्मनः।।

तं क्षिपन्तं सुरांश्चैव मनुष्यानसुरांस्तथा।
गन्धर्वराजो बलवांस्तुल्यनामाऽभ्ययात्तदा।।

गन्धर्व उवाच।

`त्वं वै सदृशनामासि युद्धं देहि नृपात्मज।
नाम वाऽन्यत्प्रगृह्णीष्व यदि युद्धं न दास्यसि।।

त्वयाहं युद्धमिच्छामि त्वत्सकाशं तु नामतः।
आगतोस्मि वृथाऽऽभाष्य न गच्छेन्नाम ते मम।।

इत्युक्त्वा गर्जमानौ तौ हिरण्वत्यास्तटं गतौ'।
तेनास्य सुमहद्युद्धं कुरुक्षेत्रे बभूव ह।।

तयोर्बलवतोस्तत्र गन्धर्वकुरुमुख्ययोः।
नद्यास्तीरे हिरण्वत्याः समास्तिस्रोऽभवद्रणः।।

तस्मिन्विमर्दे तुमुले शस्त्रवर्षसमाकुले।
मायाधिकोऽवधीद्वीरं गन्धर्वः कुरुसत्तमम्।।

स हत्वा तु नरश्रेष्ठं चित्राङ्गदमरिन्दमम्।
अन्ताय कृत्वा गन्धर्वो दिवमाचक्रमे ततः।।

तस्मिन्पुरुषशार्दूले निहते भूरितेजसि।
भीष्मः शान्तनवो राजा प्रेतकार्याण्यकारयत्।।

विचित्रवीर्यं च तदा बालमप्राप्तयौवनम्।
कुरुराज्ये महाबाहुरभ्यषिञ्चदनन्तरम्।।

विचित्रवीर्यः स तदा भीष्मस्य वचने स्थितः।
अन्वशासन्महाराज पितृपैतामहं पदम्।।