इन्द्रसहस्रनामस्तोत्रम्
सहस्रनाम · Sanskrit · ⏱ 9 min
अन्य नाम · Also known as इन्द्रसहस्रनामस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
॥ इन्द्रसहस्रनामस्तोत्रं गणपतेः कृतिः ॥
इन्द्रो देवतमोऽनीलः सुपर्णः पूर्णबन्धुरः ।
विश्वस्य दमिता विश्वश्येशानो विश्वचर्षणिः ॥ १॥
विश्वानि चक्रिर्विश्वस्मादुत्तरो विश्वभूर्बृहन् ।
चेकितनो वर्तमानः स्वधयाऽचक्रया परः ॥ २॥
विश्वानरो विश्वरूपो विश्वायुर्विश्वतस्पृथुः ।
विश्वकर्मा विश्वदेवो व्ह्श्वतो धीरनिष्कृतः ॥ ३॥
त्रिषुजातस्तिग्मशृङ्गो देवो ब्रध्नोऽरुषश्चरन् ।
रुचानः परमो विद्वान् अरुचो रोचयन्नजः ॥ ४॥
ज्येष्ठो जनानां वॄषभो ज्योतिर्ज्येष्ठं सहोमहि ।
अभिक्रतूनां दमिता धर्ता विश्वस्य कर्मणः ॥ ५॥
धर्ता धनानं धातॄणां धाता धिरो धियेषितः ।
यज्ञस्य साधनो यज्ञो यज्ञवाहा अपामजः ॥ ६॥
यज्ञं जुषाणो यजतो युक्तग्राव्णोऽवितेषिरः ।
सुवज्ज्रश्च्यवनो योद्धा यशसो यज्ञियो यहुः ॥ ७॥
अवयाता दुर्मतीनां हन्ता पापस्य रक्षसः ।
कृशस्य चोदिता कृत्रुः कृतब्रह्मा धृतव्रतः ॥ ८॥
धृणवोजा अविताधीनां धनानां सञ्जिदच्युतः ।
विहन्ता तमसस्त्वष्टा तनूपास्तरुतातुरः ॥ ९॥
त्वेषनृम्णस्त्वेष्सन्दृक् तुराषाडपराजितः ।
तुग्य्रावृधोदस्मतमः तुविकूर्मितमस्तुजः ॥ १०॥
वृषप्रभर्मा विश्वानि विद्वानादङ्क्षर्दिरस्तवाः ।
मन्द्रो मतीनां वॄषभो मरुत्वान्मरुतामृषिः ॥ ११॥
महाहस्ती गणपतिर्धियं जिन्वो बृहस्पतिः ।
माहिनो मधवा मन्दी मर्कोऽर्को मेधिरो महान् ॥ १२॥
॥ इति प्रथमं नामशतकम् ॥
प्रतिरूपः परोमात्रः पुरुरूपः पुरुष्टुतः ।
पुरुहूतः पुरः स्थाताः पुरुमायः पुरन्दरः ॥ १३॥
पुरुप्रशस्तः पुरुकृत् पुरां दर्ता पुरूतमः ।
पुरुगूर्तः पृत्सुजेता पुरुवर्पाः प्रवेपनी ॥ १४॥
पप्रिः प्रचेतः परिभूः पनीयानप्रतिष्कुतः ।
प्रवृद्धः प्रवयाः पाता पूषण्वानन्तरा भरः ॥ १५॥
पुरुशाकः पाञ्चजन्यः पुरुभोजाः पुरुवसुः ।
पिशङ्गरातिः पपुरिः पुरोयोधः पृथुज्रया ॥ १६॥
प्ररिक्व प्रदिवः पूर्व्यः पुरोभूः पूर्वजा ऋषिः ।
प्रणेता प्रमतिः पन्यः पूर्वयावा प्रभूवसुः ॥ १७॥
प्रयज्युः पावकः पूषा पदवीः पथिकृत्पतिः ।
पुरुत्मा पलितोहेता प्रहेता प्राविता पिता ॥ १८॥
पुरुनृम्णः पर्वतेष्ठाः प्राचामन्युः पुरोहितः ।
पुराम्भिन्दुरनाधृष्यः पुराजाः पप्रथिन्तमः ॥ १९॥
पृतनाषाड् बाहुशर्धी बृहद्रेणुरनिष्टृतः ।
अभिभूतिरयोपाष्टिः बृहद्रेरपिधानवान् ॥ २०॥
ब्रह्मप्रियो ब्रह्मजूतो ब्रह्मवाहा अरङ्गमः ।
बोधिन्मना अवक्रक्षी बृहद्भानुरमित्रहा ॥ २१॥
भूरिकर्मा भरेकृत्नुर्भद्रकृद्?भार्वरोभृमिः ।
भरेषु हव्यो भूर्योजाः पुरोहा प्राशुषात्?प्रषाट् ॥ २२॥
प्रभङ्गीमहिषो भीमो भूर्यासुतिरशस्तिहा ।
प्रसक्षी विश्पतिर्वीरः परस्पाः शवस्सस्पतिः ॥ २३॥
॥ इति द्वितीयं नामशतकम् ॥
पुरुदत्रः पितृतमः पुरुक्षुर्भीगुः पणिः ।
प्रत्वाक्षाणः पुरां दर्मापनस्युर्भिमातिहा ॥ २४॥
पृथिव्या वृषभः प्रत्नः प्रमन्दी प्रथमः पृथुः ।
त्यः समुद्रव्यचाः पायुः प्रकेतश्चर्षणीसहः ॥ २५॥
कारुधायाः कविवृधः कनीनः क्रतुमान्क्रतुः ।
क्षपावस्ता कवितमो गिर्वाहाः कीरिचोदनः ॥ २६॥
क्षपावान्कौशिकः कारी राजाक्षम्यस्य गोपतिः ।
गौर्गोर्दुरो दुरोऽश्चस्य यवस्यदुर आदुरिः ॥ २७॥
चन्द्रबुध्नश्चर्षणिप्राश्चकृत्यश्चोदयन्मतिः ।
चन्द्रभानुश्चित्रतमश्चम्रीषश्चचक्रमासजः ॥ २८॥
तुविशुष्मस्तुविद्युम्नस्तुविजातस्तुवीमधः ।
तुविकूर्मिस्तुविम्रक्षस्तुविशग्मस्तुविप्रतिः ॥ २९॥
तुविनृम्णस्तुविग्रीवस्तुविराधास्तुविक्रतुः ।
तुविमात्रस्तुविग्राभस्तुविदेष्णस्तुविष्वणिः ॥ ३०॥
तूतुजित्स्तवसस्तक्वस्तुविग्रिस्तुर्वणिस्त्रदः ।
रथेष्ठस्तरणिस्तुम्रस्त्विषीमाननपच्युतः ॥ ३१॥
तोदस्तरुत्रस्तविषी मुषाणस्तविषस्तुरा ।
तितिर्वा ततुरिस्त्राता भूर्णिस्तूर्णिस्तवस्तरः ॥ ३२॥
यज्ञवृद्धो यज्ञियानां प्रथमो यज्वनो वृधः ।
अमित्रखादोऽनिमिषो विषुणोऽसुन्वन्तोऽजुरः ॥ ३३॥
अक्षितोतिर्दाभ्योऽर्यः शिप्रिणीवानगोरुढः ।
आश्रुत्कर्णोऽन्तरिक्षप्रा अमितौजा अरिष्टुतः ॥ ३४॥
॥ इति तृतीयं नामशतकम् ॥
अदृष्ट एकराडूर्ध्व ऊर्ध्वसानः सनाद्युवा ।
स्थिरः सूर्यः स्वभूत्योजाः सत्यराधाः सनश्रुतः ॥ ३५॥
प्रकल्पः सत्त्वानां केतुरच्युतच्युदुरुव्यचाः ।
शवसी स्वपतिः स्वोजाः शचीवानविदीधयुः ॥ ३६॥
सत्यशुष्मः सत्यसत्वा सूनुः सत्यस्य सोमपाः ।
दस्योर्हन्ता दिवो धर्ता राजा दिव्यस्य चेतनः ॥ ३७॥
ऋग्मियोऽर्वा रोचमानो रभोदा ऋतपा ऋतः ।
ऋजीषी रणकृद्रेवा नृत्वियो रध्रचोदनः ॥ ३८॥
ऋष्वोरायोऽवनीराजा रयिस्थानो रदावसुः ।
ऋभुक्षा अनिमानोऽश्चः सहमानः समुद्रियः ॥ ३९॥
ऋणकातिर्गिर्वर्णस्युः कीजः खिद्वाखजङ्करः ।
ऋजीषो वसुविद्वेन्यो वाजेषु दधृषः कविः ॥ ४०॥
विरप्शी वीलितो विप्रो विश्ववेदा ऋतावृधः ।
ऋतयुग्धर्मकृद्धेनुर्धनजिद्धामवर्मवाट् ॥ ४१॥
ऋतेजाः सक्षणिः सोम्यः संसृष्टिजिदृभुष्ठिरः ।
ऋतयुः सबलः सह्युर्वज्रवाहा ऋचीषमः ॥ ४२॥
ऋग्मीदधृष्वानृष्वौजाः सुगोपाः स्वयशस्तरः ।
स्वभिष्टिसुम्नः सेहानः सुनीतिः सुकृतः शुचिः ॥ ४२॥
ऋणयाः सहसः सूनुः सुदानुः सगणो वसुः ।
स्तोम्यः समद्वा सत्राहा स्तोमवाहा ऋतीषहः ॥ ४४॥
॥ इति चतुर्थं नामशतकम् ॥
शविष्ठः शवसः पुत्रः शतमन्युः शतक्रतुः ।
शक्रः शिक्षानरः शुष्मी श्रुत्कर्णः श्रवयत्सखा ॥ ४५॥
शतमूतिः शर्धनीतिः शतनीथः शतामघः ।
श्लोकी शिवतमः श्रुत्यं नामबिभ्रदनानतः ॥ ४६॥
शूरः शिप्री सहस्रोतिः शुभ्रः शृङ्क्षङ्गवृषोनपात् ।
शासः शाकी श्रवस्कामः शवसावानहंसनः ॥ ४७॥
सुरूपकृत्रुरीशानः शूशुवानः शचीपतिः ।
सतीनसत्वा सनिता शक्तीवानमितक्रतुः ॥ ४८॥
सहस्रचेताः सुमनाः श्रुत्यः शुद्धः श्रुतामघः ।
सत्रादावा सोमपावा सुक्रतुः श्मश्रुषु श्रितः ॥ ४९॥
चोदप्रवृद्धो विश्वस्य जगतः प्राणतस्पतिः ।
चौत्रः सुप्रकरस्रोना चक्रमानः सदावृधः ॥ ५०॥
स्वभिष्टिः सत्पतिः सत्यश्चारुर्वीरतमश्चती ।
चित्रश्चिकित्वानाज्ञाता प्रतिमानं सतः सतः ॥ ५१॥
स्थाताः सचेताः सदिवः सुदंसाः सुश्रवस्तमः ।
सहोदः सुश्रुतः सम्राट्सूपारः सुन्वतः सखा ॥ ५२॥
ब्रह्मवाहस्तमो ब्रह्मा विष्णुर्वस्वःपतिर्हरिः ।
रणाय संस्कृतो रुद्रो रणितेशानकृच्छिवः ॥ ५३॥
विप्रजूतो विप्रतमो यह्वो वज्री हिरण्ययः ।
वव्रो वीरतरोवायुर्मातरिश्वा मरुत्सखा ॥ ५४॥
गूर्तश्रवा विश्वगूर्तो वन्दनश्रुद्विचक्षणः ।
वृष्णिर्वसुपतिर्वाजी वृषभो वाजिनी वसुः ॥ ५५॥
॥ इति पञ्चमं नामशतकम् ॥
विग्रो विभीषणो वह्निर्वृद्धायुर्विश्रुतो वृषा ।
व्रजभृद्वृत्रहा वृद्धो विश्ववारो वृतञ्चयः ॥ ५६॥
वृषजूतिर्वृषरथो वृषभान्नो वृषक्रतुः ।
वृषकर्मा वृषमणाः सुदक्षः सुन्वतो वृधः ॥ ५७॥
अद्रोघवागसुरहा वेधाः सत्राकरोऽजरः ।
अपारः सुहवोऽभीरुरभिभङ्गोऽङ्गिरस्तमः ॥ ५८॥
अमर्त्यः स्वायुधोऽशत्रुरप्रतीतोऽभिमातिषाट् ।
अमत्री सूनुरर्चत्र्यः समद्दिष्टिरभयङ्करः ॥ ५९॥
अभिनेता स्पार्हराधाः सप्तरश्मिरभिष्टिकृत् ।
अनर्वास्वर्जिदिष्कर्ता स्तोतॄणामवितोपरः ॥ ६०॥
अजातशत्रुः सेनानि रुभयाव्युभयङ्करः ।
उरुगायःसत्ययोनिः सहस्वानुर्वरापतिः ॥ ६१॥
उग्रो गोप उग्रबाहुरुग्रधन्वोक्थवर्धनः ।
गाथश्रवा गिरां राजा गम्भीरो गिर्वणस्तमः ॥ ६२॥
वज्रहस्तचर्षणीनां वृषभो वज्रदक्षिणः ।
सोमकामः सोमपतिः सोमवृद्धः सुदक्षिणः ॥ ६३॥
सुब्रह्मा स्थविरः सूरः सहिष्टः सप्रथाः सराट् ।
हरिश्मशारुर्हरिवान्हरीणां पतिरस्तृतः ॥ ६४॥
हिरण्यबाहुरुर्व्यूतिर्हरिकेशो हिरीमशः ।
हरिशिप्रो हर्यमाणो हरिजातो हरिम्भरः ॥ ६५॥
हिरण्यवर्णो हर्यश्चो हरिवर्पा हरिप्रियः ।
हनिष्ठो हर्यक्ष्वो हव्यो हरिष्ठा हरियोजनः ॥ ६६॥
॥ इति षष्ठं नामशतकम् ॥
सत्वासुशिप्रः सुक्षत्रः सुवीरः सुतपा ऋषिः ।
गाथान्यो गोत्रभिद्ग्रामं वहमानो गवेषणः ॥ ६७॥
जिष्णुस्तस्थुष ईशानो ईशानो जगतो नृतुः ।
नर्याणि विद्वान्नृपतिः नेतानृम्णस्य तूतुजिः ॥ ६८॥
निमेधमानो नर्यापाः सिन्धूनां पतिरुत्तरः ।
नर्यो नियुत्वान्निचितो नक्षद्दाभोनहुष्टरः ॥ ६९॥
नव्यो निधाता नृमणाः सध्रीचीनः सुतरेणः ।
नृतमानो नदनुमान्नवीयान्नृतमोनृजित् ॥ ७०॥
विचयिष्ठो वज्रबाहुर्वृत्रखादोवलं रुजः ।
जातूभर्मा ज्येष्ठतमो जनभक्षो जनंसहः ॥ ७१॥
विश्वाषाड्वंसगोवस्यान्निष्पाडशनिमान्नृषाट् ।
पूर्भित्पुराषाडभिषाट् जगतस्तस्थुषस्पतिः ॥ ७२॥
संवृक्समत्सुसन्धाता सुसङ्क्षदृक्सविताऽरुणः ।
स्वर्यः स्वरोचिः सुत्रामा स्तुष्येय्यः सनजाः स्वरिः ॥ ७३॥
कृण्वन्नकेतवे केतुः पेशः कृण्वन्नपेशसे ।
वज्रेण हत्वी महिनो मरुत्स्तोत्रो मरुद्गःणः ॥ ७४॥
महावीरो महाव्रातो महाय्यः प्रमतिर्मही ।
माता मघोनां मंहिष्ठो मन्युमिर्मन्युमत्तमः ॥ ७५॥
मेषो महीवृन्मन्मदानो माहिनावान्महेमतिः ।
म्रक्षोमृलिको मंहिष्ठो म्रक्षकृत्वा महामहः ॥ ७६॥
मदचुन्मर्डितामद्वा मदानां पतिरातपः ।
सुशस्तिः स्वस्तिदाः स्वर्दृग्राधानामाकरः पतिः ॥ ७७॥
॥ इति सप्तमं नामशतकम् ॥
इषुहस्त इषां दाता वसुदाता विदद्वसुः ।
विभूतिर्व्यानाशिर्वेनो वरीयान् विश्वजिद्विभुः ॥ ७८॥
नृचक्षाः सहुरिः स्वर्वित्सुयज्ञः सुष्ठुतः स्वयुः ।
आपिः पृथिव्या जनिता सूर्यस्य जनिता श्रुतः ॥ ७९॥
ष्पङ्क्षड्विवहायाः स्मत्पुतन्धिर्वृषपर्वा वृषन्तमः ।
साधारणः सुखरथः स्वश्चः सत्राजिदद्भुतः ॥ ८०॥
ज्येष्ठराजो जीरदानुर्जग्मिर्वित्वक्षणो वशी ।
विधाता विश्वमा आशुर्मायी वृद्धमहावृधः ॥ ८१॥
वरेण्यो विश्वतूर्वात्स्येशानो द्यौर्विचर्षणिः ।
सतीनमन्युर्गोदत्रः सद्योजातोविभञ्जनुः ॥ ८२॥
वितन्तसाय्यो वाजानां विभक्ता वस्व आकरः ।
वीरको वीरयुर्वज्रं बभ्रिवीरेण्य आघृणिः ॥ ८३॥
वाजिनेयो वाजनिर्वाजानां पतिराजिकृत् ।
वास्तोष्पतिर्वर्पणीतिर्विशां राजा वपोदरः ॥ ८४॥
विभूतद्युम्न आचक्रिरादारी दोधतो वधः ।
आखण्डलो दस्मवर्चाः सर्वसेनो विमोचनः ॥ ८५॥
वज्रस्य भर्ता वार्याणां पतिर्गोजिद्गवां पतिः ।
विश्वव्यचाः सङ्क्षञ्चकानः सुहार्दो जनिता दिवः ॥ ८६॥
समन्तुनामा पुरुध प्रतिको बृहतः पतिः ।
दीध्यानो दामनो दाता दीर्घश्रवस ऋभ्वसः ॥ ८७॥
दंसनावान्दिवः संम्राड्देतवजूतो दिवावसुः ।
दशमो देवता दक्षो दुध्रोद्युम्नी द्युमन्तमः ॥ ८८॥
॥ इत्यष्टमं नामशतकम् ॥
मंहिङ्क्षष्ठरातुरित्थाधीर्दीद्यानो दधृषिर्दुधिः ।
दुष्टरीतुर्दुश्च्यवनो दिवोमानो दिवोवृषा ॥ ८९॥
दक्षाय्यो दस्युहाधृष्णुः दक्षिणावान् धियावसुः ।
धनस्पृद्धृषितो धाता दयमानो धनञ्जयः ॥ ९०॥
दिव्यो द्विबर्हा सन्नार्यः समर्यस्त्राः सिमः सखा ।
द्युक्षः समानो दंसिष्ठो राधसः पतिरध्रिगुः ॥ ९१॥
सम्राट् पिथिव्या ओजस्वान् वयोधा ऋतुपा ऋभुः ।
एको राजैधमानद्विडेकवीर उरुजयाः ॥ ९२॥
लोककृज्जनिताऽश्चानां जनिता गवाम् ।
जरिता जनुषां राजा गिर्वणाः सुन्वतोऽविता ॥ ९३॥
अत्कं वसानः कृष्टीनां राजोक्थ्यः शिप्रवानुरुः ।
ईड्योदाश्वानिनतमो धोरः सङ्क्रन्दनः स्ववान् ॥ ९४॥
जागृविर्जगतो राजा गृत्सो गोविद्धनाधनः ।
जेताऽभिभूरकूपारो दानवानसुरोर्णऽवः ॥ ९५॥
धृष्विर्दमूनास्तवसस्तवीयानन्तमोऽवृतः ।
रायोदाता रयिपतिः विपश्चिद्वृत्रहन्तमः ॥ ९६॥
अपरीतः षालपश्चाद् दध्वायुत्कार आरितः ।
वोह्लावनिष्ठो वृष्ण्यावान्वृषण्वान्वृकोऽवतः ॥ ९७॥
गर्भोऽसमष्टकाव्योयुगहिशुष्मोदधृष्वणिः ।
प्रत्रः परिर्वाजदावा ज्योतिः कर्ता गिरां पतिः ॥ ९८॥
॥ इति नवमं नामशतकम् ॥
अनवद्यः सम्भृताश्चो वज्रिवादद्रिवान्द्युमान् ।
दस्मो यजत्रो योधीयानकवारिर्यतङ्करः ॥ ९९॥
पृदाकुसानुरोजीयान् ब्रह्मणश्चोदिताः यमः ।
वन्दनेष्ठाः पुरां भेता बन्धुरेष्ठा बृहद्दिवः ॥ १००॥
वरूता मधुनो राजा प्रणेनीः पप्रथी युवा ।
उरुशंसोहवंश्रोता भूरिदावा बृहच्छ्रवाः ॥ १०१॥
माता स्तियानां वृषभो महोदाता महावधः ।
सुग्म्यः सुराधाः सत्राषाडोदतीनां नदोधुनिः ॥ १०२॥
अकामकर्शनः स्वर्षाः सुमृलीकः सहस्कृतः ।
पास्त्यस्य होता सिन्धूनां वृषाभोजो रथीतमः ॥ १०३॥
सखा मुनीनां जनिदाः स्वधावानसमोऽप्रतिः ।
मनस्वानध्वरो मर्यो बृबदुक्थोऽविता भगः ॥ १०४॥
अषाह्लोऽरीह्ल आदर्ता वीरं कर्तां विशस्पतिः ।
एको हव्यः सनादारुगोकोवाकस्य सक्षणिः ।
सुवृक्तिरमृतोऽमृक्तः खजकृद्वलदाः शुनः ॥ १०६॥
अमत्रो मित्र आकाय्यः सुदामाब्जिन् महोमही ।
रथः सुबाहुरुशना सुनीथो भूरिदाः सुदाः ॥ १०७॥
मदस्य राजा सोमस्य पीत्वीज्यान्दिवः पतिः ।
तविषीवान्धनो युध्मो हवनश्रुत्सहः स्वराट् ॥ १०८॥
॥ इति दशमं नामशतकम् ॥
॥ अत्रेमे भवन्त्युपसंहारश्लोकाः ॥
इदं सहस्रमिन्द्रस्य नाम्नां परमपावनम् ।
ऋग्वेदतो गणपतिः सङ्गृह्य विनिबद्धवान् ॥ १॥
नात्र नाम्नः पौनरुक्त्यं न च कारादि पूरणम् ।
श्लोकमध्ये न चारम्या शतकस्योपसंहृतिः ॥ २॥
नाम्नामेषां छान्दसत्वात्सर्वेषां च स्वरूपतः ।
अवलोक्या यथा छन्दः शब्दशुद्धिर्विचक्षणैः ॥ ३॥
अनेकपदनामानि विनियोज्यानि पूजने ।
चतुर्थ्यन्तप्रयोगेषु व्युत्क्रमाच्च यथान्वयम् ॥ ४॥
अस्य नामसहस्रस्य वेद्दमूलस्य सेवने ।
पूर्णं फलं तद्विज्ञेयं यत्स्वाध्यायनिषेवणे ॥ ५॥
मन्त्रेभ्यः सम्भृतं सारमेतन्नामसहस्रकम् ।
एन्द्रं यो भजते भक्त्या तस्य स्युः सिद्धयो वशे ॥ ६॥
इन्द्रो विजयते देवः सर्वस्य जगतः पतिः ।
वेदमूलं जयत्येतत्तस्य नामसहस्रकम् ॥ ७॥
॥ इति श्रीभगवन्महर्षिरमणान्तेवासिनो वासिष्ठस्य
नरसिंहसूनोर्गणपतेः कृतिः इन्द्रसहस्रनामस्तोत्रं सम्पूर्णम् ॥
Sanskrit Wikisource, page "इन्द्रसहस्रनामस्तोत्रम्", revision 54815.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.