जगन्नाथसहस्रनामस्तोत्रम्
सहस्रनाम · 🪷 भगवान विष्णु · Sanskrit · ⏱ 9 min
अन्य नाम · Also known as जगन्नाथसहस्रनामस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
॥ ॐ श्रीजगन्नाथाय नमो नमः ॥
प्रार्थना
देवदानवगन्धर्वयक्षविद्याधरोरगैः ।
सेव्यमानं सदा चारुकोटिसूर्यसमप्रभम् ॥ १॥
ध्यायेन्नारायणं देवं चतुर्वर्गफलप्रदम् ।
जय कृष्ण जगन्नाथ जय सर्वाधिनायक ॥ २॥
जयाशेषजगद्वन्द्यपादाम्भोज नमोऽस्तु ते ॥ ३॥
युधिष्ठिर उवाच
यस्य प्रसादात्तु सर्वं यस्तु विष्णुपरायणः ।
यस्तु धाता विधाता च यश्च सत्यं परो भवेत् ॥ १॥
यस्य मायामयं जालं त्रैलोक्यं सचराचरम् ।
मर्त्यांश्च मृगतृष्णायां भ्रामयत्यपि केवलम् ॥ २॥
नमाम्यहं जगतप्रीत्या नामानि च जगत्पतिम्।
बृहत्या कथितं यच्च तन्मे कथय साम्प्रतम् ॥ ३॥
भीष्म उवाच
युधिष्ठिर महाबाहो कथयामि शृणुष्व मे ।
जगन्नाथस्य नामानि पवित्राणि शुभानि च ॥ १॥
मायया यस्य संसारो व्यापृतः सचराचरः ।
यस्य प्रसादाद्ब्रह्माणं सृष्ट्वा पाति च सर्वदा ॥ २॥
ब्रह्मादिदशदिक्पालान् मायाविमोहितान् खलु ।
यस्य चेष्टावरोहश्च ब्रह्माण्डखण्डगोचरः ॥ ३॥
दया वा ममता यस्य सर्वभूतेषु सर्वगः ।
सत्यधर्मविभूषस्य जगन्नाथस्य सर्वतः ॥ ४॥
कथयामि सहस्राणि नामानि तव चानघ ॥ ५॥
अथ श्रीजगन्नाथस्य सहस्रनामस्तोत्रम् ।
अथ विनियोगः ।
अस्य मातृका मन्त्रस्य, वेदव्यासो ऋषिः, अनुष्टुप्छन्दः,
श्रीजगन्नाथो देवता, भगवतः श्रीजगन्नाथस्य प्रीत्यर्थे
सहस्रनाम पठने विनियोगः ।
ध्यानम्
नीलाद्रौ शङ्खमध्ये शतदलकमले रत्नसिंहासनस्थं
सर्वालङ्कारयुक्तं नवघनरुचिरं संयुतं चाग्रजेन ।
भद्राया वामभागे रथचरणयुतं ब्रह्मरुद्रेन्द्रवन्द्यं
वेदानां सारमीशं स्वजनपरिवृतं ब्रह्मदारु स्मरामि ॥
श्रीभगवानुवाच
चतुर्भुजो जगन्नाथः कण्ठशोभितकौस्तुभः ।
पद्मनाभो वेदगर्भश्चन्द्रसूर्यविलोचनः ॥ १॥
जगन्नाथो लोकनाथो नीलाद्रीशः परो हरिः ।
दीनबन्धुर्दयासिन्धुः कृपालुः जनरक्षकः ॥ २॥
कम्बुपाणिः चक्रपाणिः पद्मनाभो नरोत्तमः ।
जगतां पालको व्यापी सर्वव्यापी सुरेश्वरः ॥ ३॥
लोकराजो देवराजः शक्रो भूपश्च भूपतिः ।
नीलाद्रिपतिनाथश्च अनन्तः पुरुषोत्तमः ॥ ४॥
तार्क्ष्योध्यायः कल्पतरुः विमलाप्रीतिवर्द्धनः । var? तार्क्ष्यध्वजः
बलभद्रो वासुदेवो माधवो मधुसूदनः ॥ ५॥
दैत्यारिः पुण्डरीकाक्षो वनमाली बलप्रियः ।
ब्रह्मा विष्णुः वृष्णिवंशो मुरारिः कृष्णकेशवः ॥ ६॥
श्रीरामः सच्चिदानन्दो गोविन्दः परमेश्वरः ।
विष्णुर्जिष्णुर्महाविष्णुः प्रभविष्णुर्महेश्वरः ॥ ७॥
लोककर्ता जगन्नाथो महाकर्ता महायशाः ।
महर्षिः कपिलाचार्यो लोकचारी सुरो हरिः ॥ ८॥
आत्मा च जीवपालश्च शूरः संसारपालकः ।
एकोनैको ममप्रियो ब्रह्मवादी महेश्वरः ॥ ९॥ var? सर्वप्रियो रमाप्रियो
द्विभुजश्च चतुर्बाहुः शतबाहुः सहस्रकः ।
पद्मपत्रविशालाक्षः पद्मगर्भः परो हरिः ॥ १०॥
पद्महस्तो देवपालो दैत्यारिर्दैत्यनाशनः ।
चतुर्मूर्तिश्चतुर्बाहुश्चतुराननसेवितः ॥ ११॥
पद्महस्तश्चक्रपाणिः शङ्खहस्तो गदाधरः ।
महावैकुण्ठवासी च लक्ष्मीप्रीतिकरः सदा ॥ १२॥
विश्वनाथः प्रीतिदश्च सर्वदेवप्रियङ्करः ।
विश्वव्यापी दारुरूपश्चन्द्रसूर्यविलोचनः ॥ १३॥ var प्रियव्यापि
गुप्तगङ्गोपलब्धिश्च तुलसीप्रीतिवर्द्धनः ।
जगदीशः श्रीनिवासः श्रीपतिः श्रीगदाग्रजः ॥ १४॥
सरस्वतीमूलाधारः श्रीवत्सः श्रीदयानिधिः ।
प्रजापतिः भृगुपतिर्भार्गवो नीलसुन्दरः ॥ १५॥
योगमायागुणारूपो जगद्योनीश्वरो हरिः ।
आदित्यः प्रलयोद्धारी आदौ संसारपालकः ॥ १६॥
कृपाविष्टः पद्मपाणिरमूर्तिर्जगदाश्रयः ।
पद्मनाभो निराकारः निर्लिप्तः पुरुषोत्तमः ॥ १७॥
कृपाकरः जगद्व्यापी श्रीकरः शङ्खशोभितः ।
समुद्रकोटिगम्भीरो देवताप्रीतिदः सदा ॥ १८॥
सुरपतिर्भूतपतिर्ब्रह्मचारी पुरन्दरः ।
आकाशवायुमूर्तिश्च ब्रह्ममूर्तिर्जलेस्थितः ॥ १९॥
ब्रह्मा विष्णुर्दृष्टिपालः परमोऽमृतदायकः ।
परमानन्दसम्पूर्णः पुण्यदेवः परायणः ॥ २०॥ var पुण्यदेहः
धनी च धनदाता च धनगर्भो महेश्वरः ।
पाशपाणिः सर्वजीवः सर्वसंसाररक्षकः ॥ २१॥
देवकर्ता ब्रह्मकर्ता वषिष्ठो ब्रह्मपालकः ।
जगत्पतिः सुराचार्यो जगद्व्यापी जितेन्द्रियः ॥ २२॥
महामूर्तिर्विश्वमूर्तिर्महाबुद्धिः पराक्रमः ।
सर्वबीजार्थचारी च द्रष्टा वेदपतिः सदा ॥ २३॥
सर्वजीवस्य जीवश्च गोपतिर्मरुतां पतिः ।
मनोबुद्धिरहङ्कारकामादिक्रोधनाशनः ॥ २४॥ var क्रोधशातनः
कामदेवः कामपालः कामाङ्गः कामवल्लभः ।
शत्रुनाशी कृपासिन्धुः कृपालुः परमेश्वरः ॥ २५॥
देवत्राता देवमाता भ्राता बन्धुः पिता सखा ।
बालवृद्धस्तनूरूपो विश्वकर्मा बलोऽबलः ॥ २६॥ var बलोद्बलः
अनेकमूर्तिः सततं सत्यवादी सताङ्गतिः ।
लोकब्रह्म बृहद्ब्रह्म स्थूलब्रह्म सुरेश्वरः ॥ २७॥
जगद्व्यापी सदाचारी सर्वभूतश्च भूपतिः । var? सर्वभुईपश्च
दुर्गपालः क्षेत्रनाथो रतीशो रतिनायकः ॥ २८॥
बली विश्वबलाचारी बलदो बलि-वामनः ।
दरह्रासः शरच्चन्द्रः परमः परपालकः ॥ २९॥
अकारादिमकारान्तो मध्योकारः स्वरूपधृक् ।
स्तुतिस्थायी सोमपाश्च स्वाहाकारः स्वधाकरः ॥ ३०॥
मत्स्यः कूर्मो वराहश्च नरसिंहश्च वामनः ।
परशुरामो महावीर्यो रामो दशरथात्मजः ॥ ३१॥
देवकीनन्दनः श्रेष्ठो नृहरिः नरपालकः ।
वनमाली देहधारी पद्ममाली विभूषणः ॥ ३२॥
मल्लीकामालधारी च जातीयूथिप्रियः सदा ।
बृहत्पिता महापिता ब्राह्मणो ब्राह्मणप्रियः ॥ ३३॥
कल्पराजः खगपतिर्देवेशो देववल्लभः ।
परमात्मा बलो राज्ञां माङ्गल्यं सर्वमङ्गलः ॥ ३४॥ var राजा
सर्वबलो देहधारी राज्ञां च बलदायकः ।
नानापक्षिपतङ्गानां पावनः परिपालकः ॥ ३५॥
वृन्दावनविहारी च नित्यस्थलविहारकः ।
क्षेत्रपालो मानवश्च भुवनो भवपालकः ॥ ३६॥
सत्त्वं रजस्तमोबुद्धिरहङ्कारपरोऽपि च ।
आकाशङ्गः रविः सोमो धरित्रीधरणीधरः ॥ ३७॥
निश्चिन्तो योगनिद्रश्च कृपालुः देहधारकः । var शोकनिद्रश्च
सहस्रशीर्षा श्रीविष्णुर्नित्यो जिष्णुर्निरालयः ॥ ३८॥
कर्ता हर्ता च धाता च सत्यदीक्षादिपालकः । var शक्रदीक्षादि
कमलाक्षः स्वयम्भूतः कृष्णवर्णो वनप्रियः ॥ ३९॥
कल्पद्रुमः पादपारिः कल्पकारी स्वयं हरिः ।
देवानां च गुरुः सर्वदेवरूपो नमस्कृतः ॥ ४०॥
निगमागमचारी च कृष्णगम्यः स्वयंयशः ।
नारायणो नराणां च लोकानां प्रभुरुत्तमः ॥ ४१॥
जीवानां परमात्मा च जगद्वन्द्यः परो यमः ।
भूतावासो परोक्षश्च सर्ववासी चराश्रयः ॥ ४२॥
भागीरथी मनोबुद्धिर्भवमृत्युः परिस्थितः ।
संसारप्रणयी प्रीतः संसाररक्षकः सदा ॥ ४३॥
नानावर्णधरो देवो नानापुष्पविभूषणः ।
नन्दध्वजो ब्रह्मरूपो गिरिवासी गणाधिपः ॥ ४४॥
मायाधरो वर्णधारी योगीशः श्रीधरो हरिः ।
महाज्योतिर्महावीर्यो बलवांश्च बलोद्भवः ॥ ४५॥ var बलोद्भवः
भूतकृत् भवनो देवो ब्रह्मचारी सुराधिपः ।
सरस्वती सुराचार्यः सुरदेवः सुरेश्वरः ॥ ४६॥
अष्टमूर्तिधरो रुद्र इच्छामूर्तिः पराक्रमः ।
महानागपतिश्चैव पुण्यकर्मा तपश्चरः ॥ ४७॥
दिनपो दीनपालश्च दिव्यसिंहो दिवाकरः ।
अनभोक्ता सभोक्ता च हविर्भोक्ता परोऽपरः ॥ ४८॥
मन्त्रदो ज्ञानदाता च सर्वदाता परो हरिः ।
परर्द्धिः परधर्मा च सर्वधर्मनमस्कृतः ॥ ४९॥
क्षमादश्च दयादश्च सत्यदः सत्यपालकः ।
कंसारिः केशिनाशी च नाशनो दुष्टनाशनः ॥ ५०॥
पाण्डवप्रीतिदश्चैव परमः परपालकः ।
जगद्धाता जगत्कर्ता गोपगोवत्सपालकः ॥ ५१॥
सनातनो महाब्रह्म फलदः कर्मचारिणाम् ।
परमः परमानन्दः परर्द्धिः परमेश्वरः ॥ ५२॥
शरणः सर्वलोकानां सर्वशास्त्रपरिग्रहः ।
धर्मकीर्तिर्महाधर्मो धर्मात्मा धर्मबान्धवः ॥ ५३॥
मनःकर्ता महाबुद्धिर्महामहिमदायकः ।
भूर्भुवः स्वो महामूर्तिः भीमो भीमपराक्रमः ॥ ५४॥
पथ्यभूतात्मको देवः पथ्यमूर्तिः परात्परः ।
विश्वाकारो विश्वगर्भः सुरामन्दो सुरेश्वरः ॥ ५५॥ var सुरहा च
भुवनेशः सर्वव्यापी भवेशः भवपालकः ।
दर्शनीयश्चतुर्वेदः शुभाङ्गो लोकदर्शनः ॥ ५६॥
श्यामलः शान्तमूर्तिश्च सुशान्तश्चतुरोत्तमः ।
सामप्रीतिश्च ऋक् प्रीतिर्यजुषोऽथर्वणप्रियः ॥ ५७॥
श्यामचन्द्रश्चतुमूर्तिश्चतुर्बाहुश्चतुर्गतिः ।
महाज्योतिर्महामूर्तिर्महाधामा महेश्वरः ॥ ५८॥
अगस्तिर्वरदाता च सर्वदेवपितामहः ।
प्रह्लादस्य प्रीतिकरो ध्रुवाभिमानतारकः ॥ ५९॥
मण्डितः सुतनुर्दाता साधुभक्तिप्रदायकः ।
ॐकारश्च परम्ब्रह्म ॐ निरालम्बनो हरिः ॥ ६०॥
सद्गतिः परमो हंसो जीवात्मा जननायकः ।
मनश्चिन्त्यश्चित्तहारी मनोज्ञश्चापधारकः ॥ ६१॥
ब्राह्मणो ब्रह्मजातीनामिन्द्रियाणां गतिः प्रभुः ।
त्रिपादादूर्द्ध्वसम्भूतो विराट् चैव सुरेश्वरः ॥ ६२॥ var विराटश्च
परात्परः परः पादः पद्मस्थः कमलासनः ।
नानासन्देहविषयस्तत्त्वज्ञानाभिनिवृतः ॥ ६३॥
सर्वज्ञश्च जगद्बन्धुर्मनोजज्ञातकारकः ।
मुखसम्भूतविप्रस्तु वाहसम्भूतराजकः ॥ ६४॥
ऊरोवैश्यः पदोभूतः शूद्रो नित्योपनित्यकः ।
ज्ञानी मानी वर्णदश्च सर्वदः सर्वभूषितः ॥ ६५॥
अनादिवर्णसन्देहो नानाकर्मोपरिस्थितः ।
शुद्धादिधर्मसन्देहो ब्रह्मदेहः स्मिताननः ॥ ६६॥
शम्बरारिर्वेदपतिः सुकृतः सत्त्ववर्द्धनः ।
सकलं सर्वभूतानां सर्वदाता जगन्मयः ॥ ६७॥
सर्वभूतहितैषी च सर्वप्राणिहिते रतः ।
सर्वदा देहधारी च बटको बटुगः सदा ॥ ६८॥ var बटुको
सर्वकर्मविधाता च ज्ञानदः करुणात्मकः ।
पुण्यसम्पत्तिदाता च कर्ता हर्ता तथैव च ॥ ६९॥
सदा नीलाद्रिवासी च नतास्यश्च पुरन्दरः ।
नरो नारायणो देवो निर्मलो निरुपद्रवः ॥ ७०॥
ब्रह्माशम्भुः सुरश्रेष्ठः कम्बुपाणिर्बलोऽर्जुनः ।
जगद्धाता चिरायुश्च गोविन्दो गोपवल्लभः ॥ ७१॥
देवो देवो महाब्रह्म महाराजो महागतिः ।
अनन्तो भूतनाथश्च अनन्तभूतसम्भवः ॥ ७२॥
समुद्रपर्वतानां च गन्धर्वाणां तथाऽऽश्रयः ।
श्रीकृष्णो देवकीपुत्रो मुरारिर्वेणुहस्तकः ॥ ७३॥
जगत्स्थायी जगद्व्यापी सर्वसंसारभूतिदः ।
रत्नगर्भो रत्नहस्तो रत्नाकरसुतापतिः ॥ ७४॥
कन्दर्परक्षाकारी च कामदेवपितामहः ।
कोटिभास्करसञ्ज्योतिः कोटिचन्द्रसुशीतलः ॥ ७५॥
कोटिकन्दर्पलावण्यः काममूर्तिर्बृहत्तपः ।
मथुरापुरवासी च द्वारिको द्वारिकापतिः ॥ ७६॥
वसन्तऋतुनाथश्च माधवः प्रीतिदः सदा ।
श्यामबन्धुर्घनश्यामो घनाघनसमद्युतिः ॥ ७७॥
अनन्तकल्पवासी च कल्पसाक्षी च कल्पकृत् । var अनन्तः कल्पवासी
सत्यनाथः सत्यचारी सत्यवादी सदास्थितः ॥ ७८॥
चतुर्मूर्तिश्चतुर्बाहुश्चतुर्युगपतिर्भवः ।
रामकृष्णो युगान्तश्च बलभद्रो बलो बली ॥ ७९॥
लक्ष्मीनारायणो देवः शालग्रामशिलाप्रभुः ।
प्राणोऽपानः समानश्चोदानव्यानौ तथैव च ॥ ८०॥
पञ्चात्मा पञ्चतत्त्वं च शरणागतपालकः ।
यत्किञ्चित् दृश्यते लोके तत्सर्वं जगदीश्वरः ॥ ८१॥
जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।
जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।
जगदीशो महद्ब्रह्म जगन्नाथाय ते नमः ।
॥ इति श्रीजगन्नाथसहस्रनामस्तोत्रम् ॥
अथ श्रीजगन्नाथसहस्रनाम माहात्म्यम् ।
एवं नामसहस्रेण स्तवोऽयं पठ्यते यदि ।
पाठं पाठयते यस्तु शृणुयादपि मानवः ॥ १॥
सहस्राणां शतेनैव यज्ञेन परिपूज्यते ।
यत्पुण्यं सर्वतीर्थेषु वेदेषु च विशेषतः ॥ २॥
तत्पुण्यं कोटिगुणितं अचिराल्लभते नरः ।
जगन्नाथस्य नामानि पुण्यानि सफलानि च ॥ ३॥
विद्यार्थी लभते विद्यां योगार्थी योगमाप्नुयात् ।
कन्यार्थी लभते कन्यां जयार्थी लभते जयम् ॥ ४॥
कामार्थी लभते कामं पुत्रार्थी लभते सुतम् ।
क्षत्रियाणां प्रयोगेण सङ्ग्रामे जयदः सदा ॥ ५॥
वैश्यानां सर्वधर्मः स्याच्छूद्राणां सुखमेधते ।
साधूनां पठतो नित्यं ज्ञानदः फलदस्तथा ॥ ६॥
नाऽपवादं न दुःखं च कदा च लभते नरः ।
सर्वसौख्यं फलं प्राप्य चिरञ्जीवी भवेन्नरः ॥ ७॥
शृणु राजन् महाबाहो महिमानं जगत्पतेः ।
यस्य स्मरणमात्रेण सर्वपापैः प्रमुच्यते ॥ ८॥
जगन्नाथं लोकनाथं पठते यः सदा शुचिः ।
कलिकालोद्भवं पापं तत्क्षणात्तस्य नश्यति ॥ ९॥
इति श्रीब्रह्मपुराणे भीष्म-युधिष्ठिर-संवादे
श्रीजगन्नाथसहस्रनामस्तोत्रं समाप्तम् ॥
Sanskrit Wikisource, page "जगन्नाथसहस्रनामस्तोत्रम्", revision 56863.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
सबसे अधिक गाई जाने वाली आरती, जो प्रायः हर पूजा के अन्त में की जाती है। जगदीश हरि की स्तुति, जो भक्तों के संकट क्षण भर में दूर करते हैं।
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.