गङ्गासहस्रनामस्तोत्रम्
सहस्रनाम · Sanskrit · ⏱ 8 min
अन्य नाम · Also known as गङ्गासहस्रनामस्तोत्रम्
Sanskrit text from Sanskrit Wikisource.
अगस्त्युवाच ।
विनास्नानेनगङ्गायानृणाञ्जन्मनिरर्थकम् ।
उपायान्तरमस्त्यन्योनिस्नानफलंलभेत् ॥ १॥
अशक्तानाञ्चपङ्गूनामालस्योपहतात्मनाम् ।
दूरदेशान्तरस्थानाङ्गङ्गास्नानङ्कथम्भवेत् ॥ २॥
दानंवा अथव्रतंवा अथमन्त्रःस्तोत्रञ्जपे अथवा ।
तीर्थान्तराभिषेकोवादेवतोपासनन्तुवा ॥ ३॥
यास्तिकिञ्चित्पडक्त्रगङ्गास्नानफलप्रदम् ।
विधानान्तरमात्रेणतद्वदप्रणतायमे ॥ ४॥
त्वत्तोनवेदस्कन्दान्योगङ्गागर्भसमुद्भव ।
परंस्वर्गतरङ्गिण्यामहिमानंमहामते ॥ ५॥
स्कन्द उवाच ।
सन्तिपुण्यजलानीहसरांसिसरितोमुने ।
स्थानेस्थानेचतीर्थानिजितात्माध्युषितानिच ॥ ६॥
दृष्टप्रत्ययकारीणिमहामहिमभाञ्ज्यपि ।
परंस्वर्गतरङ्गिण्याःकोट्यंशोपिनतत्रवै ॥ ७॥
अनेनैवानुमानेनबुद्ध्यस्वकलशोद्भव ।
दध्रेगङ्गोत्तमाङ्गेनदेवदेवेनशम्भुना ॥ ८॥
स्नानकाले अन्यतीर्थेषुजप्यतेजाह्नवीजनैः ।
विनाविष्णुपदीङ्क्वान्यत्समर्थमघमोचने ॥ ९॥
गङ्गास्नानफलम्ब्रह्मन्गङ्गायामेवलभ्यते ।
यथाद्राक्षाफलस्वादोद्राक्षायामेवनान्यतः ॥ १०॥
अस्त्युपाय इहत्वेकःस्योनाविकलम्फलम् ।
स्नानस्यदेवसरितोमहागुह्यतमोमुने ॥ ११॥
शिवभक्तायशान्तायविष्णुभक्तिपरायच ।
श्रद्धालवेत्वास्तिकायगर्भवासमुमुक्षवे ॥ १२॥
कथनीयंनचान्यस्यकस्यचित्केनचित्क्वचित् ।
इदंरहस्यम्परमंमहापातकनाशनम् ॥ १३॥
महाश्रेयस्करम्पुण्यंमनोरथकरम्परम् ।
निदीप्रीतिजनकंशिवसन्तोषसन्तति ॥ १४॥
नाम्नांसहस्रङ्गङ्गायाःस्तवराजेषुशोभनम् ।
जप्यानाम्परमञ्जप्यंवेदोपनिषदासमम् ॥ १५॥
जपनीयम्प्रयत्नेनमौनिनावाचकंविना ।
शुचिस्थानेषुशुचिनासुस्पष्टाक्षरमेवच ॥ १६॥
ॐ नमोगङ्गादेव्यै ।
ॐ काररूपिण्यजराऽतुलाऽनन्ताऽमृतस्रवा ।
अत्युदाराऽभयाऽशोकाऽलकनन्दाऽमताऽमला ॥ १७॥
अनाथवत्सलाऽमोघऽपंयोनिरमृतप्रदा ।
अव्यक्तलक्षणाऽक्षोभ्याऽनवच्छिन्नाऽपराजिता ॥ १८॥
अनाथनाथाऽभिष्टार्थसिद्धिदाऽनङ्गवर्धिनी ।
अणिमादिगुणाऽधाराग्रगण्याऽलीकहारिणी ॥ १९॥
अचिन्त्यशक्तिरनघाऽद्भुतरूपाऽघहारिणी ।
अद्रिराजसुताऽष्टाङ्गयोगसिद्धिप्रदाऽच्युता ॥ २०॥
अक्षुण्णशक्तिरसुदाऽनन्ततीर्थाऽमृतोदका ।
अनन्तमहिमाऽपाराऽनन्तसौख्यप्रदाऽन्नदा ॥ २१॥
अशेषदेवतामूर्तिरघोराऽमृतरूपिणी ।
अविद्याजालशमनीह्यप्रतर्क्यगतिग्रदा ॥ २२॥
अशेषविघ्नसहर्त्रीत्वशेषगुणगुम्फिता ।
अज्ञानतिमिरज्योतिरनुग्रहपरायणा ॥ २३॥
अभिरामाऽनवद्याङ्ग्यनन्तसाराऽकलङ्किनी ।
आरोग्यदाऽऽनन्दवल्लीत्वापन्नार्तिविनाशिनी ॥ २४॥
आश्चर्यमुर्तिरायुष्याह्याढ्याऽऽद्याऽऽप्राऽऽर्यसेविता ।
आप्यायिन्याप्तविद्याऽऽख्यात्वानन्दाऽऽश्वासदायिनी ॥ २५॥
आलस्यघ्न्यापदांहन्त्रीह्यानन्दामृतवर्षिणी ।
इरावतीष्टदात्रीष्टात्विष्टापूर्तफलप्रदा ॥ २६॥
इतिहासश्रुतीड्यार्थात्विहामुत्रशुभप्रदा ।
इज्याशीलसमिज्येष्ठात्विन्द्रादिपरिवन्दिता ॥ २७॥
इलालङ्कारमालेद्धात्विन्दिरारम्यमन्दिरा ।
इदिन्दिरादिसंसेव्यात्विश्वरीश्वरवल्लभा ॥ २८॥
ईतिभीतिहरेड्याचत्वीडनीयचरित्रभृत् ।
उत्कृष्टशक्तिरुत्कृष्टोडुपमण्डलचारिणी ॥ २९॥
उदिताम्बरमार्गोस्रोरगलोकविहारिणी ।
उक्षोर्वरोत्पलोत्कुम्भा उपेन्द्रचरणद्रवा ॥ ३०॥
उदन्वत्पूर्तिहेतुश्चोदारोत्साहप्रवर्धिनी ।
उद्वेगघ्न्युष्णशमनी उष्णरश्मिसुताप्रिया ॥ ३१॥
उत्पत्तिस्थितिसंहारकारिण्युपरिचारिणी ।
ऊर्जंवहन्त्यूर्जधरोर्जावतीचोर्मिमालिनी ॥ ३२॥
ऊर्ध्वरेतःप्रियोर्ध्वाध्वाद्यूर्मिलोर्ध्वगतिप्रदा ।
ऋषिवृन्दस्तुतर्द्धिश्चऋणत्रयविनाशिनी ॥ ३३॥
ऋतम्भरर्द्धिदात्रीचऋक्स्वरूपाऋजुप्रिया ।
ऋक्षमार्गवहर्क्षार्चिरृजुमार्गप्रदर्शिनी ॥ ३४॥
एधिताऽखिलधर्मार्थात्वेकैकामृतदायिनी ।
एधनीयस्वभावैज्यात्वेजिताशेषपातका ॥ ३५॥
ऐश्वर्यदैश्वर्यरूपाह्यैतिह्यंह्यैन्दवीद्युतिः ।
ओजस्विन्योषधीक्षेत्रमोजोदौदनदायिनी ॥ ३६॥
ओष्ठामृतौन्नत्यदात्रीत्वौषधम्भवरोगिणाम् ।
औदार्यचञ्चुरौपेन्द्रीत्वौग्रीह्यौमेयरूपिणी ॥ ३७॥
अम्बराध्ववहांऽबष्ठाम्बरमालाम्बुजेक्षणा ।
अम्बिकाम्बुमहायोनिरन्धोदान्धकहारिणी ॥ ३८॥
अंशुमालाह्यंशुमतीत्वङ्गीकृतषडानना ।
अन्धतामिस्रहन्त्र्यन्धुरञ्जनाह्यञ्जनावती ॥ ३९॥
कल्याणकारिणीकाम्याकमलोत्पलगन्धिनी ।
कुमुद्वतीकमलिनीकान्तिःकल्पितदायिनी ॥ ४०॥
काञ्चनाक्षीकामधेनुःकीर्तिकृत्क्लेशनाशिनी ।
क्रतुश्रेष्ठाक्रतुफलाकर्मबन्धविभेदिनी ॥ ४१॥
कमलाक्षीक्लमहराकृशानुतपनद्युतिः ।
करुणार्द्राचकल्याणीकलिकल्मषनाशिनी ॥ ४२॥
कामरूपाक्रियाशक्तिःकमलोत्पलमालिनी ।
कुटस्थाकरुणाकान्ताकुर्मयानाकलावती ॥ ४३॥
कमलाकल्पलतिकाकालीकलुषवैरिणी ।
कमनीयजलाकम्राकपर्दिसुकपर्दगा ॥ ४४॥
कालकुटप्रशमनीकदम्बकुसुमप्रिया ।
कालिन्दीकेलिललिताकलकल्लोलमालिका ॥ ४५॥
क्रान्तलोकत्रयाकण्डूःकण्डूतनयवत्सला ।
खड्गिनीखड्गधाराभाखगाखण्डेन्दुधारिणी ॥ ४६॥
खेखेलगामिनीखस्थाखण्डेन्दुतिलकप्रिया ।
खेचरीखेचरीवन्द्याख्यातिःख्यातिप्रदायिनी ॥ ४७॥
खन्दितप्रणताघौघाखलबुद्धिविनाशिनी ।
खातैनःकन्दसन्दोहाखड्गखट्वाङ्गखेटिनी ॥ ४८॥
खरसन्तापशमनीखनिःपीयूषपाथसाम् ।
गङ्गागन्धवतिगौरीगन्धर्वनगरप्रिया ॥ ४९॥
गम्भीराङ्गीगुणमयीगतातङ्कागतिप्रिया ।
गणनाथाम्बिकागीतागद्यपद्यपरिष्टुता ॥ ५०॥
गान्धारीगर्भशमनीगतिभ्रष्टगतिप्रदा ।
गोमतीगुह्यविद्यागौर्गोप्त्रीगगनगामिनी ॥ ५१॥
गोत्रप्रवर्धिनीगुण्यागुणातीतागुणाग्रणीः ।
गुहाम्बिकागिरिसुतागोविन्दाङ्घ्रिसमुद्भवा ॥ ५२॥
गुणनियचरित्राचगायत्रीगिरिशप्रिया ।
गूढरूपागुणवतीगुर्वीगौरववर्धिनी ॥ ५३॥
ग्रहपीडाहरागुन्द्रागरघ्नीगानवत्सला ।
घर्महन्त्रीघृतवतीघृततुष्टिप्रदायिनी ॥ ५४॥
घण्टारवप्रियाघोराऽघौघविध्वंसकारिणी ।
घ्राणतुष्टिकरीघोषाघनानन्दाघनप्रिया ॥ ५५॥
घातुकार्घूणितजलाघृष्टपातकसन्ततिः ।
घटकृटिप्रपीतापाघटिताशेषमङ्गला ॥ ५६॥
घृणवतीघृणनिधिर्घस्मराघूकनादिनी ।
घुसृणापिञ्जरतनुर्घर्घराघर्घरस्वना ॥ ५७॥
चन्द्रिकाचन्द्रकान्ताम्बुश्चञ्चदापाचलद्युतिः ।
चिन्मयीचितिरूपाचचन्द्रायुतशतानना ॥ ५८॥
चाम्पेयलोचनाचारुश्चार्वङ्गीचारुगामिनी ।
चार्याचारित्रनिलयाचित्रकृच्चित्ररूपिनी ॥ ५९॥
चम्पूश्चन्दनशुच्यबुश्चर्चनीयाचिरस्थिरा ।
चारुचम्पकमालाढ्याचमिताशेषदुष्कृता ॥ ६०॥
चिदाकाशवहाचिन्त्याचञ्चच्चामरवीजिता ।
चोरिताशेषवृचिनाचरिताशेषमण्डला ॥ ६१॥
छेदिताखिलपापौघाछद्मघ्नीछलहारिणी ।
छन्नत्रिविष्टपतलाछोटिताशेषबन्धना ॥ ६२॥
छुरितामृतधारौघाछिन्नैनाश्छन्दगामिनी ।
छत्रीकृतमरालौघाछटिकृतनिजामृता ॥ ६३॥
जाह्नवीज्याजगन्माताजप्याजङ्घालवीचिका ।
जयाजनार्दनप्रीताजुषणीयाजगद्धिता ॥ ६४॥
जीवनञ्जीवनप्राणाजगज्ज्येष्ठाजगन्मयी ।
जीवजीवातुलतिकाजन्मिजन्मनिबर्हिणी ॥ ६५॥
जाड्यविध्वंसनकरीजगद्योनिर्जलाविला ।
जगदानन्दजननीजलजाजलजेक्षणा ॥ ६६॥
जनलोचनपीयूषाजटातटविहारिणी ।
जयन्तीजञ्जपूकघ्नीजनितज्ञानविग्रहा ॥ ६७॥
झल्लरीवाद्यकुशलाझलज्झालजलावृता ।
झिण्टीशवन्द्याझङ्कारकारिनीझर्झरावती ॥ ६८॥
टीकिताशेषपातालाटङ्किकैनोद्रिपाटने ।
टङ्कारनृत्यत्कल्लोलाटीकनीयमहातटा ॥ ६९॥
डम्बरप्रवहाडीनराजहंसकुलाकुला ।
डमड्डमरुहस्ताचडामरोक्तमहाण्डका ॥ ७०॥
ढौकिताशेषनिर्वाणाढक्कानादचलज्जला ।
ढुण्ढिविघ्नेशजननीढणड्ढुणितपातका ॥ ७१॥
तर्पणीतीर्थतीर्थाचत्रिपथात्रिदशेश्वरी ।
त्रिलोकगोप्त्रीतोयेशीत्रैलोक्यपरिवन्दिता ॥ ७२॥
तापत्रितयसंहर्त्रीतेजोबलविवर्धिनी ।
त्रिलक्ष्यातारणीतारातारापतिकरार्चिता ॥ ७३॥
त्रैलोक्यपावणीपुण्यातुष्टिदातुष्टिरूपिनी ।
तृष्णाछेत्रीतीर्थमातात्रिविक्रमपदोद्भवा ॥ ७४॥
तपोमयीतपोरूपातपःस्तोमफलप्रदा ।
त्रैलोक्यव्यापिनीतृप्तिस्तृप्तिकृत्तत्त्वरूपिणी ॥ ७५॥
त्रैलोक्यसुन्दरीतुर्यातुर्यातीतपदप्रदा ।
त्रैलोक्यलक्ष्मीस्त्रिपदीतथ्यातिमिरचन्द्रिका ॥ ७६॥
तेजोगर्भातपःसारात्रिपुरारिशिरोगृहा ।
त्रयीस्वरूपिणीतन्वीतपनाङ्गजभीतिनुत् ॥ ७७॥
तरिस्तरणिजामित्रन्तर्पिताशेषपूर्वजा ।
तुलाविरहितातीव्रपापतूलतनूनपात् ॥ ७८॥
दारिद्र्यदमनीदक्षादुष्प्रेक्षादिव्यमण्डना ।
दीक्षावतीदुरावाप्याद्राक्षामधुरवारिभृत् ॥ ७९॥
दर्शितानेककुतुकादुष्टदुर्जयदुःखहृत् ।
दैन्यहृद्दुरितघ्नीचदानवारिपदाब्जजा ॥ ८०॥
दन्दशूकविषघ्नीचदारिताघौघसन्ततिः ।
द्रुतादेवद्रुमच्छन्नादुर्वाराघविघातिनी ॥ ८१॥
दमग्राह्यादेवमातादेवलोकप्रदर्शिनी ।
देवदेवप्रियादेवीदिक्पालपददायिनी ॥ ८२॥
दीर्घायुःकारिणीदीर्घादोग्घ्रीदूषणवर्जिता ।
दुग्धाम्बुवाहिणीदोह्यादिव्यादिव्यगतिप्रदा ॥ ८३॥
द्युनदीदीनशरणन्देहिदेहनिवारिणी ।
द्राघीयसीदाघहन्त्रीदितपातकसन्ततिः ॥ ८४॥
दूरदेशान्तरचरीदुर्गमादेववल्लभा ।
दुर्वृत्तघ्नीदुर्विगाह्यादयाधारादयावती ॥ ८५॥
दुरासदादानशीलाद्राविणीद्रुहिणस्तुता ।
दैत्यदानवसंशुद्धिकर्त्रीदुर्बुद्धिहारिणी ॥ ८६॥
दानसारादयासाराद्यावाभूमिविगाहिनी ।
दृष्टादृष्टफलप्राप्तिर्देवतावृन्दवन्दिता ॥ ८७॥
दीर्घव्रतादीर्घदृष्टिर्दीप्ततोयादुरालभा ।
दण्डयित्रीदण्डनीतिर्दुष्टदण्डधरार्चिता ॥ ८८॥
दुरोदरघ्नीदावार्चिर्द्रवद्द्रव्यैकशेवधिः ।
दीनसन्तापशमनीदात्रीदवथुवैरिणी ॥ ८९॥
दरीविदारणपरादान्तादान्तजनप्रिया ।
दारिताद्रितटादुर्गादुर्गारण्यप्रचारिणी ॥ ९०॥
धर्मद्रवाधर्मधुराधेनुर्धीराधृतिर्ध्रुवा ।
धेनुदानफलस्पर्शाधर्मकामार्थमोक्षदा ॥ ९१॥
धर्मोर्मिवाहिनीधुर्याधात्रीधात्रीविभूषणम् ।
धर्मिणीधर्मशीलाचधन्विकृटिकृतावना ॥ ९२॥
ध्यातृपापहराध्येयाधावनीधूतकल्मषा ।
धर्मधाराधर्मसाराधनदाधनवर्धिनी ॥ ९३॥
धर्माधर्मगुणच्छेत्रीधत्तूरकुसुमप्रिया ।
धर्मेशीधर्मशास्त्रज्ञाधनधान्यसमृद्धिकृत् ॥ ९४॥
धर्मलभ्याधर्मजलाधर्मप्रसवधर्मिणी ।
ध्यानगम्यस्वरूपाचधरणीधातृपूजिता ॥ ९५॥
धूर्धूर्जटिजटासंस्थाधन्याधीर्धारणावती ।
नन्दानिर्वाणजननीनन्दिनीनुन्नपातका ॥ ९६॥
निषिद्धविघ्ननिचयानिजानन्दप्रकाशिनी ।
नभोङ्गणचरीनूतिर्नम्यानारायणीनुता ॥ ९७॥
निर्मलानिर्मलाख्यानानाशिनीतापसम्पदाम् ।
नियतानित्यसुखदानानाश्चर्यमहानिधिः ॥ ९८॥
नदीनदसरोमातानायिकानाकदीर्घिका ।
नष्टोद्धरणधीराचनन्दनानन्ददायिनी ॥ ९९॥
निर्णिक्ताशेषभुवनानिःसङ्गानिरुपद्रवा ।
निरालम्बानिष्प्रपञ्चानिर्णाशितमहामला ॥ १००॥
निर्मलज्ञानजननीनिःशेषप्राणितापहृत् ।
नित्योत्सवानित्यतृप्तानमस्कार्यानिरञ्जना ॥ १०१॥
निष्ठावतीनिरातङ्कानिर्लेपानिश्चलात्मिका ।
निरवद्यानिरीहाचनीललोहितमूर्धगा ॥ १०२॥
नन्दिभृङ्गिगणस्तुत्यानागानन्दानगात्मजा ।
निष्प्रत्यूहानाकनदीनिरयार्णवदीर्घनौः ॥ १०३॥
पुण्यप्रदापुण्यगर्भापुण्यापुण्यतरङ्गिणी ।
पृथुःपृथुफलापूर्णाप्रणतार्तिप्रभञ्जिनी ॥ १०४॥
प्राणदाप्राणिजननीप्राणेशीप्राणरूपिणी ।
पद्मालयापराशक्तिःपुरजित्परमप्रिया ॥ १०५॥
परापरफलप्राप्तिःपावनीचपयस्विनी ।
परानन्दाप्रकृष्टार्थाप्रतिष्ठापालनीपरा ॥ १०६॥
पुराणपठिताप्रीताप्रणवाक्षररूपिणी ।
पार्वतीप्रेमसम्पन्नापशुपाशविमोचनी ॥ १०७॥
परमात्मस्वरूपाचपरब्रह्मप्रकाशिनी ।
परमानन्दनिष्पन्दाप्रायश्चित्तस्वरूपिणी ॥ १०८॥
पानीयरूपनिर्वाणापरित्राणपरायणा ।
पापेन्धनदवज्वालापापारिःपापनामनुत् ॥ १०९॥
परमैश्वर्यजननीप्रज्ञाप्राज्ञापरापरा ।
प्रत्यक्षलक्ष्मीःपद्माक्षीपरव्योमामृतस्रवा ॥ ११०॥
प्रसन्नरूपाप्रणिधिःपूताप्रत्यक्षदेवता ।
पिनाकिपरमप्रीतापरमेष्ठिकमण्डलुः ॥ १११॥
पद्मनाभपदार्घ्येणप्रसूतापद्ममालिनी ।
परर्द्धिदापुष्टिकरीपथ्यापूर्तिःप्रभावती ॥ ११२॥
पुनानापीतगर्भघ्नीपापपर्वतनाशिनी ।
फलिनीफलहस्ताचफुल्लाम्बुजविलोचना ॥ ११३॥
फालितैनोमहाक्षेत्राफणिलोकविभूषणम् ।
फेनच्छलप्रणुन्नैनाःफुल्लकैरवगन्धिनी ॥ ११४॥
फेनिलाच्छाम्बुधाराभाफुडुच्चाटितपातका ।
फाणितस्वादुसलिलाफाण्टपथ्यजलाविला ॥ ११५॥
विश्वमाताचविश्वेशीविश्वाविश्वेश्वरप्रिया ।
ब्रह्मण्याब्रह्मकृद्ब्राह्मीब्रह्मिष्ठाविमलोदका ॥ ११६॥
विभावरीचविरजाविक्रान्तानेकविष्टपा ।
विश्वमित्रंविष्णुपदीवैष्णवीवैष्णवप्रिया ॥ ११७॥
विरूपाक्षप्रियकरीविभूतिर्विश्वतोमुखी ।
विपाशावैबुधीवेद्यावेदाक्षररसस्रवा ॥ ११८॥
विद्यावेगवतीवन्द्याबृंहणीब्रह्मवादिनी ।
वरदाविप्रकृष्टाचवरिष्ठाचविशोधनी ॥ ११९॥
विद्याधरीविशोकाचवयोवृन्दनिषेविता ।
बहूदकाबलवतीव्योमस्थाविबुधप्रिया ॥ १२०॥
वाणीवेदवतीवित्ताब्रह्मविद्यातरङ्गिणी ।
ब्रह्माण्डकृटिव्याप्ताम्बुर्ब्रह्महत्यापहारिणी ॥ १२१॥
ब्रह्मेशविष्णुरूपाचबुद्धिर्विभववर्धिनी ।
विलासिसुखदावैश्याव्यापिनीचवृषारणिः ॥ १२२॥
वृषाङ्कमौलिनिलयाविपन्नार्तिप्रभञ्जिनी ।
विनीताविनताब्रध्नतनयाविनयान्विता ॥ १२३॥
विपञ्चीवाद्यकुशलावेणुश्रुतिविचक्षणा ।
वर्चस्करीबलकरीबलोन्मूलितकल्मषा ॥ १२४॥
विपाप्माविगतातङ्काविकल्पपरिवर्जिता ।
वृष्टिकर्त्रीवृष्टिजलाविधिर्विच्छिन्नबन्धना ॥ १२५॥
व्रतरूपावित्तरूपाबहुविघ्नविनाशकृत् ।
वसुधारावसुमतीविचित्राङ्गीविभावसुः ॥ १२६॥
विजयाविश्वबीजञ्चवामदेवीवरप्रदा ।
वृषाश्रिताविषघ्नीचविज्ञानोर्म्यंशुमालिनी ॥ १२७॥
भव्याभोगवतीभद्राभवानीभूतभाविनी ।
भूतधात्रीभयहराभक्तदारिद्र्यघातिनी ॥ १२८॥
भुक्तिमुक्तिप्रदाभेशीभक्तस्वर्गापवर्गदा ।
भागीरथीभानुमतीभाग्यम्भोगवतीभृतिः ॥ १२९॥
भवप्रियाभवद्वेष्ट्रीभूतिदाभूतिभूषणा ।
भाललोचनभावज्ञाभूतभव्यभवत्प्रभुः ॥ १३०॥
भ्रान्तिज्ञानप्रशमनीभिन्नब्रह्माण्डमण्डपा ।
भूरिदाभक्तिसुलभाभाग्यवद्दृष्टिगोचरी ॥ १३१॥
भञ्जितोपप्लवकुलाभक्ष्यभोज्यसुखप्रदा ।
भिक्षणीयाभिक्षुमाताभावाभावस्वरूपिणी ॥ १३२॥
मन्दाकिनीमहानन्दामातामुक्तितरङ्गिणी ।
महोदयामधुमतीमहापुण्यामुदाकरी ॥ १३३॥
मुनिस्तुतामोहहन्त्रीमहातीर्थामधुस्रवा ।
माधवीमानिनीमान्यामनोरथपथातिगा ॥ १३४॥
मोक्षदामतिदामुख्यामहाभाग्यजनाश्रिता ।
महावेगवतीमेध्यामहामहिमभूषणा ॥ १३५॥
महाप्रभावामहतीमीनचञ्चललोचना ।
महाकारुण्यसम्पूर्णामहर्द्धिश्चमहोत्पला ॥ १३६॥
मूर्तिमन्मुक्तिरमणीमणिमाणिक्यभूषणा ।
मुक्ताकलापनेपथ्यामनोनयननन्दिनी ॥ १३७॥
महपातकराशिघ्नीमहादेवार्धहारिणी ।
महोर्मिमालिनीमुक्तामहादेवीमनोन्मनी ॥ १३८॥
महापुण्योदयप्राप्यामायातिमिरचन्द्रिका ।
महाविद्यामहामायामहामेधामहौषधम् ॥ १३९॥
मालाधरीमहोपायामहोरगविभूषणा ।
महामोहप्रशमनीमहामङ्गलमङ्गलम् ॥ १४०॥
मार्तण्डमण्डलचरीमहालक्ष्मीर्मदोज्झिता ।
यशस्विनीयशोदाचयोग्यायुक्तात्मसेविता ॥ १४१॥
योगसिद्धिप्रदायाज्यायज्ञेशपरिपूरिता ।
यज्ञेशीयज्ञफलदायजनीयायशस्करी ॥ १४२॥
यमिसेव्यायोगयोनिर्योगिनीयुक्तबुद्धिदा ।
योगज्ञानप्रदायुक्तायमाद्यष्टाङ्गयोगयुक् ॥ १४३॥
यन्त्रिताघौघसञ्चारायमलोकनिवारिणी ।
यातायातप्रशमनीयातनानामकृन्तनी ॥ १४४॥
यामिनीशहिमाच्छोदायुगधर्मविवर्जिता ।
रेवतीरतिकृद्रम्यारत्नगर्भारमारतिः ॥ १४५॥
रत्नाकरप्रेमपात्रंरसज्ञारसरूपिणी ।
रत्नप्रासादगर्भाचरमणीयतरङ्गिणी ॥ १४६॥
रत्नार्चीरुद्ररमणीरागद्वेषविनाशिनी ।
रमारामारम्यरूपारोगिजीवातुरूपिणी ॥ १४७॥
रुचिकृद्रोचनीरम्यारुचिरारोगहारिणी ।
राजहंसारत्नवतीराजत्कल्लोलराजिका ॥ १४८॥
रामणीयकरेखाचरुजारीरोगरोषिणी ।
राकारङ्कार्तिशमनीरम्यारोलम्बराविणी ॥ १४९॥
रागिणीरञ्जितशिवारूपलावण्यशेवधिः ।
लोकप्रसूर्लोकवन्द्यालोलत्कल्लोलमालिनी ॥ १५०॥
लीलावतीलोकभूमिर्लोकलोचनचन्द्रिका ।
लेखस्रवन्तीलटभालघुवेगालघुत्वहृत् ॥ १५१॥
लास्यत्तरङ्गहस्ताचललितालयभङ्गिगा ।
लोकबन्धुर्लोकधात्रीलोकृत्तरगुणोर्जिता ॥ १५२॥
लोकत्रयहितालोकालक्ष्मीर्लक्षणलक्षिता ।
लीलालक्षितनिर्वाणालावण्यामृतवर्षिणी ॥ १५३॥
वैश्वानरीवासवेड्यावन्ध्यत्वपरिहारिणी ।
वासुदेवाङ्घ्रिरेणुघ्नीवज्रिवज्रनिवारिणी ॥ १५४॥
शुभावतीशुभफलाशान्तिःशान्तनुवल्लभा ।
शूलिनीशैशववयाःशीतलाऽमृतवाहिनी ॥ १५५॥
शोभावतीशीलवतीशोषिताशेषकिल्बिषा ।
शरण्याशिवदाशिष्टाशरजन्मप्रसूःशिवा ॥ १५६॥
शक्तिःशशाङ्कविमलाशमनस्वसृसंमता ।
शमाशमनमार्गघ्नीशितिकण्ठमहाप्रिया ॥ १५७॥
शुचिःशुचिकरीशेषाशेषशायिपदोद्भवा ।
श्रीनिवासश्रुतिःश्रद्धाश्रीमतीश्रीःशुभव्रता ॥ १५८॥
शुद्धविद्याशुभावर्ताश्रुतानन्दाश्रुतिस्तुतिः ।
शिवेतरघ्नीशबरीशाम्बरीरूपधारिणी ॥ १५९॥
श्मशानशोधनीशान्ताशश्वच्छतधृतिष्टुता ।
शालिनीशालिशोभाढ्याशिखिवाहनगर्भभृत् ॥ १६०॥
शंसनीयचरित्राचशातिताशेषपातका ।
षड्गुणैश्वर्यसम्पन्नाषडङ्गश्रुतिरूपिणी ॥ १६१॥
षण्ढताहारिसलिलाष्ट्यायन्नदनदीशता ।
सरिद्वराचसुरसासुप्रभासुरदीर्घिका ॥ १६२॥
स्वःसिन्धुःसर्वदुःखघ्नीसर्वव्याधिमहौषधम् ।
सेव्यासिद्धिःसतीसूक्तिःस्कन्दसूश्चसरस्वती ॥ १६३॥
सम्पत्तरङ्गिणीस्तुत्यास्थाणुमौलिकृतालया ।
स्थैर्यदासुभगासौख्यास्त्रीषुसौभाग्यदायिनी ॥ १६४॥
स्वर्गनिःश्रेनिकासूक्ष्मास्वधास्वाहासुधाजला ।
समुद्ररूपिणीस्वर्ग्यासर्वपातकवैरिणी ॥ १६५॥
स्मृताघहारिणीसीतासंसाराब्धितरण्डिका ।
सौभाग्यसुन्दरीसन्ध्यासर्वसारसमन्विता ॥ १६६॥
हरप्रियाहृषीकेशीहंसरूपाहिरण्मयी ।
हृताघसङ्घाहितकृद्धेलाहेलाघगर्वहृत् ॥ १६७॥
क्षेमदाक्षालिताघौघाक्षुद्रविद्राविणीक्षमा ।
॥ उत्तरन्यासः ॥
इतिनामसहस्रंहिगङ्गायाःकलशोद्भव ।
कीर्तयित्वानरःसम्यग्गङ्गास्नानफलंलभेत् ॥ १६८॥
सर्वपापप्रशमनंसर्वविघ्नविनाशनम् ।
सर्वस्तोत्रजपाच्छ्रेष्ठंसर्वपावनपावनम् ॥ १६९॥
श्रद्धयाभीष्टफलदञ्चतुर्वर्गसमृद्धिकृत् ।
सकृज्जपादवाप्नोतिह्येकक्रतुफलंमुने ॥ १७०॥
सर्वतीर्थेषुयःस्नातःसर्वयज्ञेषुदीक्षितः ।
तस्ययत्फलमुदिष्टन्त्रिकालपठनाच्चतत् ॥ १७१॥
सर्वव्रतेषुयत्पुण्यंसम्यक्चीर्णेषुवाडव ।
तत्फलंसमवाप्नोतित्रिसन्ध्यंनियतःपठन् ॥ १७२॥
स्नानकालेपठेस्तुयत्रकुत्रजलाशये ।
तत्रसन्निहितानूनङ्गङ्गात्रिपथगामुने ॥ १७३॥
श्रेयोर्थीलभतेश्रेयोधनार्थीलभतेधनम् ।
कामीकामानवाप्नोतिमोक्षार्थीमोक्षमाप्नुयात् ॥ १७४॥
वर्षन्त्रिकालपठनाच्छ्रद्धयाशुचिमानसः ।
ऋतुकालाभिगमनादपुत्रःपुत्रवान्भवेत् ॥ १७५॥
नाकालमरणन्तस्यनाग्निचोराहिसाध्वसम् ।
नाम्नांसहस्रङ्गङ्गायायोजपेच्छ्रद्धयामुने ॥ १७६॥
गङ्गानामसहस्रन्तुजप्त्वाग्रामान्तरंव्रजेत् ।
कार्यसिद्धिमवाप्नोतिनिर्विघ्नोगेहमाविशेत् ॥ १७७॥
तिथिवारर्क्षयोगानांनदोषःप्रभवेत्तदा ।
यदाजप्त्वाव्रजेदेतत्स्तोत्रङ्ग्रामान्तरंनरः ॥ १७८॥
आयुरारोग्यजननंसर्वोपद्रवनाशनम् ।
सर्वसिद्धिकरम्पुंसाङ्गङ्गानामसहस्रकम् ॥ १७९॥
जन्मान्तरसहस्रेषुयत्पापंसम्यगर्जितम् ।
गङ्गानामसहस्रस्यजपनात्तत्क्षयंव्रजेत् ॥ १८०॥
ब्रह्मघ्नोमपिःस्वर्णस्तेयीचगुरुतल्पगः ।
तत्संयोगीभ्रूणहन्तामातृहापितृहामुने ॥ १८१॥
विश्वासघातीगरदःकृतघ्नोमित्रघातकः ।
अग्निदोगोवधकरोगुरुद्रव्यापहारकः ॥ १८२॥
महापातकयुक्तोपिसंयुक्तोप्युपपातकैः ।
मुच्यतेश्रद्धयाजप्त्वागङ्गानामसहस्रकम् ॥ १८३॥
आधिव्याधिपरिक्षिप्तोघोरतापपरिप्लुतः ।
मुच्यतेसर्वदुःखेभ्यःस्तवस्यास्यानुकीर्तनात् ॥ १८४॥
संवत्सरेणयुक्तात्मापठन्भक्तिपरायणः ।
अभीप्सितांलभेत्सिद्धिंसर्वैःपापैःप्रमुच्यते ॥ १८५॥
संशयाविष्टचित्तस्यधर्मविद्वेषिणोपिच ।
दाम्भिकस्यापिहिंस्रस्यचेतोधर्मपरम्भवेत् ॥ १८६॥
वर्णाश्रमपथीनस्तुकामक्रोधविवर्जितः ।
यत्फलंलभतेज्ञानीतदाप्नोत्यस्यकीर्तनात् ॥ १८७॥
गायत्र्ययुतजप्येनयत्फलंसमुपार्जितम् ।
सकृत्पठनतःसम्यक्तदशेषमवाप्नुयात् ॥ १८८॥
गान्दत्त्वावेदविदुषेयत्फलंलभतेकृती ।
तत्पुण्यंसम्यगाख्यातंस्तवराजसकृज्जपात् ॥ १८९॥
गुरुशुश्रूषणङ्कुर्वन्यावज्जीवंनरोत्तमः ।
यत्पुण्यमर्जयेत्तद्भाग्वर्षन्त्रिषवणञ्जपन् ॥ १९०॥
वेदपारायणात्पुण्यंयदत्रपरिपठ्यते ।
तत्षण्मासेनलभतेत्रिसन्ध्यम्परिकीर्तनात् ॥ १९१॥
गङ्गायाःस्तवराजस्यप्रत्यहम्परिशीलनात् ।
शिवभक्तिमवाप्नोतिविष्णुभक्तो अथवाभवेत् ॥ १९२॥
यःकीर्तयेदनुदिनङ्गङ्गानामसहस्रकम् ।
तत्समीपेसहचरीगङ्गादेवीसदाभवेत् ॥ १९३॥
सर्वत्रपूज्योभवतिसर्वत्रविजयीभवेत् ।
सर्वत्रसुखमाप्नोतिजाह्नवीस्तोत्रपाठतः ॥ १९४॥
सदाचारीसविज्ञेयःसशुचिस्तुसदैवहि ।
कृतसर्वसुरार्चःसकीर्तये इमांस्तुतिम् ॥ १९५॥
तस्मिंस्तृप्तेभवेत्तृप्ताजाह्नवीनात्रसंशयः ।
तस्मातसर्वप्रयत्नेनगङ्गाभक्तंसमर्चयेत् ॥ १९६॥
स्तवराजमिमङ्गाङ्गंशृणुयाश्चिवैपठेत् ।
श्रावयेदथतद्भक्तान्दम्भलोभविवर्जितः ॥ १९७॥
मुच्यतेक्षिविधैःपापैर्मनोवाक्कायसम्भवैः ।
क्षणान्निष्पापतामेतिपितॄणाञ्चप्रियोभवेत् ॥ १९८॥
सर्वदेवप्रियश्चापिसर्वर्षिगणसंमतः ।
अन्तेविमानमारुह्यदिव्यस्त्रीशतसंवृतः ॥ १९९॥
दिव्याभरणसम्पन्नेदिव्यभोगसमन्वितः ।
नन्दनादिवनेस्वैरन्देववत्सप्रमोदते ॥ २००॥
भुज्यमानेषुविप्रेषुश्राद्धकालेविशेषतः ।
जपन्निदंमहास्तोत्रम्पितॄणान्तृप्तिकारकम् ॥ २०१॥
यावन्तितत्रसिक्थानियावन्तों अवुकणाःस्थिताः ।
तावन्त्येवहिवर्षाणिमोदन्तेस्वःपितामहाः ॥ २०२॥
यथाप्रीणन्तिपितरोगङ्गायाम्पिण्डदानतः ।
तथैवतृप्नुयुःश्राद्धेस्तवस्यास्यानुसंश्रवात् ॥ २०३॥
एतत्स्तोत्रङ्गृहेयस्यलिखितम्परिपूज्यते ।
तत्रपापभयंनास्तिशुचितद्भवनंसदा ॥ २०४॥
अगस्तेकिम्बहूक्तेनशृणुमेनिश्चितंवचः ।
संशयोनात्रकर्तव्यःसन्देग्धरिफलंनहि ॥ २०५॥
यावन्तिमर्त्येस्तोत्राणिमन्त्रजालान्यनेकशः ।
तावन्तिस्तवराजस्यगाङ्गेयस्यसमानिन ॥ २०६॥
यावज्जन्मजपेस्तुनाम्नामेतत्सहस्रकम् ।
सकीकटेष्वपिमृतोनपुनर्गर्भमाविशेत् ॥ २०७॥
नित्यंनियमवानेतोजिपेत्स्तोत्रमुत्तमम् ।
अन्यत्रापिविपन्नःसगङ्गातीरेमृतोभवेत् ॥ २०८॥
एतत्स्तोत्रवरंरम्यम्पुराप्रोक्तम्पिनाकिना ।
विष्णवेनिजभक्तायमुक्तिबीजाक्षरास्पदम् ॥ २०९॥
गङ्गास्नानप्रतिनिधिःस्तोत्रमेतन्मयेरितम् ।
सिस्नासुर्जाह्नवीन्तस्मादेतत्स्तोत्रञ्जपेतसुधीः ॥ २१०॥
इतिश्रीस्कान्दमहापुराणे एकाशीतिसाहस्र्यां
संहितायाचतुर्थेकाशीखण्डेपूर्वार्द्धेगङ्गासहस्रनाम
कथनंनामैकोनत्रिंशत्तमो अध्यायः ॥
Sanskrit Wikisource, page "गङ्गासहस्रनामस्तोत्रम्", revision 56853.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.