🌺

श्रीगुर्वष्टकम्

Shrigurva Ashtakam

अष्टकम् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as श्रीगुर्वष्टकम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

शरीरं सुरूपं तथा वा कलत्रम्
यशश्चारु चित्रं धनं मेरु तुल्यम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।१।।

कलत्रं धनं पुत्र पौत्रादिसर्वम्
गृहे बान्धवाः सर्वमेतद्धि जातम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।२।।

षडङ्गादिवेदो मुखे शास्त्रविद्या,
कवित्वादि गद्यं सुपद्यं करोति ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।३।।

विदेशेषु मान्यः स्वदेशेषु धन्यः,
सदाचारवृत्तेषु मत्तो न चान्यः ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।४।।

क्षमामण्डले भूपभूपालबृन्दैः,
सदा सेवितं यस्य पादारविन्दम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।५।।

यशो मे गतं दिक्षु दानप्रतापात्,
जगद्वस्तु सर्वं करे यत्प्रसादात् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।६।।

न भोगे न योगे न वा वाजिराजौ,
न कन्तामुखे नैव वित्तेषु चित्तम् ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।७।।

अरण्ये न वा स्वस्य गेहे न कार्ये,
न देहे मनो वर्तते मे त्वनर्ध्ये ।
मनश्चेन्न लग्नं गुरोरङ्घ्रिपद्मे,
ततः किं ततः किं ततः किं ततः किम् ।।८।।

गुरोरष्टकं यः पठेत्पुण्यदेही,
यतिर्भूपतिर्ब्रह्मचारी च गेही ।
लभेद्वाच्छितार्थं पदं ब्रह्मसंज्ञं,
गुरोरुक्तवाक्ये मनो यस्य लग्नम् ।।९।।

स्रोत · Source

Sanskrit Wikisource, page "श्रीगुर्वष्टकम्", revision 238100.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और अष्टकम्पुस्तकालय