अद्वैतशतकम्
अष्टकम् · Sanskrit · ⏱ 8 min
अन्य नाम · Also known as अद्वैतशतकम्
Sanskrit text from Sanskrit Wikisource.
प्रणम्य परमानन्दं
स्वात्मानं परमेश्वरम् ।
अद्वैतशतकं वक्ष्ये
सर्ववेदान्तसंग्रहम् ॥१॥
ज्ञप्तिरूपो महादेवो
स्वेच्छया देहमाविशन् ।
जीवात्मेति श्रुतौ प्रोक्तो
देहो मायेति संज्ञितः ॥२॥
तस्माद् दृश्यमयो देहो
देहि दृग् रूप उच्यते ।
एवं दृग् दृश्यरूपेण
संस्थितं भूतमण्डलम् ॥३॥
विना देहेन जीवात्मा
किञ्चित् कर्तुं न शक्तिमान् ।
विना जोवेन देहोऽपि
ज्ञातुं द्रष्टुं न शक्तिमान् ॥४॥
तस्मात्तादात्न्तसंबन्धं
प्राप्तो देहेन चेतनः ।
देहोहमिति निश्चित्य
कर्माणि कुरुते सदा ॥५॥
वपुश्चतुर्विधं प्रोक्तं
मनुष्याणां विवेकिनाम् ।
स्थूलं सूक्ष्मं कारणञ्च
सामान्यञ्चेति नामभिः ॥६॥
संसारार्णवमग्नानां
जन्तूनामविवेकिनाम् ।
सामान्यदेहरहितम्
त्रिविधं वपुरूच्यते ॥७॥
जागरे स्थूलदेहस्यात्
सूक्ष्मदेहः प्रकीर्तितः ।
स्वप्ने, सुषुप्तौ देहश्च
कारणाक्यः प्रकीर्तितः ॥८॥
दृश्यरूपमिदं सर्वं
देह इत्याभिधीयते ।
तत्रव्याप्तं परं ज्योति-
र्देहोति परिगीयते ॥९॥
अयं सामान्य देहस्यात्
मनुष्याणां विवेकिनाम् ।
सावस्था हि तुरोयारख्या
भुवनेषु सुदुर्लभा ॥१०॥
यदा सामन्यदेहेऽस्मिन्
स्थितिः पुंसाभिजायते ।
तदा योगीश्वरो वेदैः
परमात्मेति गीयते ॥११॥
यदा स्थूलादिदेहेषु
मनुष्याणां स्थितिर्भवेत् ।
जीवात्मेति तदा प्रोक्तः
सङ्कोचग्रहणाद् बुधैः ॥१२॥
अयं जीवो हि संसारे
सदाऽसारे परिभ्रमन् ।
लोकाल्लोकान्तरं गत्वा
गर्भपात्रं विशात्यसौ ॥१३॥
गत्वा गर्भगृहाद् भूयो
मानुषं लोकमाविशन् ।
पुत्रोऽयं मम भार्येयं
अस्मदीयमिदं धनम् ॥१४॥
इदं गोत्रमिदं मित्रं
अस्मदीयमिदं गृहम् ।
इयं माता मम पिता
जना एते ममारयः ॥१५॥
इति निश्चित्य जीवात्मा
रागदेषं दिने दिने ।
एतान् प्रति करोत्येव
स्वाज्ञानादेव केवलम् ॥१६॥
एकरूपस्य देवस्य
सर्वेषामन्तरात्मनः ।
व्योमवद् व्याप्तदेहस्य
बोधरूपस्य सर्वदा ॥१७॥
कुत्रचिद् दृश्यरूपस्य
मायादीनां परिग्रहात् ।
सर्वस्याधाररूपस्य
मेघाधीनां यथा नभः ॥१८॥
सच्चिदानन्दरूपस्य
ब्रह्मरुद्रादिकल्पनात् ।
विभागं कुरुते जीवः
स्वाऽज्ञानादेव केवलम् ॥१९॥
व्याप्तरूपस्य देवस्य
सङ्कोचं दुःखमेव हि ।
तदेव जीवः कुरुते
स्वाऽज्ञानादेव केवलम् ॥२०॥
अथ सत्यविहीनानां
कामिनां कामचारिणाम् ।
स्वधर्मविमुखानां च
संसर्गं कुरुते सदा ॥२१॥
पुनर्वश्यावशो स्थित्वा
तैस्सार्धं श्वखरागवत् ।
सर्वधर्मविनिर्मुक्तो
देहो ता एव सेवते ॥२२॥
आलापे हरिणाक्षीणां
दर्शनस्पर्शनादिषु ।
हासभावविलासेषु
मनः सम्यङ् निमज्जति ॥२३॥
विषयग्रहणाज्जन्तोः
प्रद्वेष उपजायते ।
मातरं पितरं पुत्रं
वृद्धञ्चान्यजनान् प्रति ॥२४॥
अलब्धविषयो जन्तुः
चिन्तया परितप्यते ।
शोकमोहभयक्ळेश-
क्रोधलोभाधियुक्तया ॥२५॥
लब्धे तु परमप्रीति
सौभाग्यशतसंयुतम् ।
अभिप्रायशतं ध्यात्वा
विषयेषु विषज्यते ॥२६॥
अलब्धविषये लब्धे
जन्तुः श्रेयो न लभ्यते ।
एवं विषयगर्तेषु
परिमज्जति मानवः ॥२७॥
सम्पाद्य मित्रं जीवात्मा
तेषां दुःखं दिने दिने ।
ममेति मन्यते नित्यं
जन्मान्तरकृताश्रुभात् ॥२८॥
प्रारब्धकर्मणां भुक्तिं
कुर्वन् देहि दिने दिने ।
पौरुषेण प्रयत्नेन
कर्माणि कुरुते सदा ॥२९॥
संसारे वर्तमानानां
पुंसां तेनैव हेतुना ।
श्रुभाश्रुभानि कर्माणि
द्विविधनीति सन्मतम् ॥३०॥
श्रुभाश्रुभानि कर्माणि
पौरुषाणि न चेद्यदि ।
वेदानां विधिवाक्यानां
व्यर्थत्वं भवति ध्रुवम् ॥३१॥
न हिंस्यात् सर्वभूतानि
न कुर्यादहितं सताम् ।
एवमादीनि वाक्यानि
व्यार्थन्येव विचारणे ॥३२॥
अन्यथा विधिवाक्यानि
प्रवर्तन्ते तु कं प्रति ।
जीवं प्रति प्रवृत्तिश्चेत्
सोऽपि कर्मवशानुगः ॥३३॥
कर्मानुसारि जीवश्च
कर्माण्येवानुवर्तते ।
तस्माद्धि कर्माणि क्षीणे
तस्य मृत्युर्भवेद् ध्रुवम् ॥३४॥
ये मूढा द्विविधं कर्म
नाङ्गीकुर्वन्ति मोहतः ।
तेषां हि मरणं मोक्षो
लोकायतिकवद्ध्रुवम् ॥३५॥
स्थूलदेहं गृहीत्वैवं
अनुभूय शुभाशुभम् ।
पौरुषं सूक्ष्मदेहेन
भोक्तुमारभते पुनः ॥३६॥
स्थूलदेहात् सूक्ष्मदेह-
व्यावृत्तिं मरणं स्मृतम् ।
जीवानां मृतिकालेऽस्मिन्
सूक्ष्मदेहः प्रकीर्तितः ॥३७॥
प्रारब्धकर्माणां नाशात्
उपभोगेन चेतनः ।
स्थूलदेहात् सूक्ष्मदेह-
व्यावृत्तिं कुरुतेऽवशः ॥३८॥
यथा स्वप्ने स्थूलदेहात्
सूक्ष्मदेहस्थितिर्भवेत् ।
मृतिकाले तथा पुसां
सूक्ष्मदेहस्थितिर्भवेत् ॥३९॥
यत् कर्म कुरुते स्वप्ने
सूक्ष्मदेहेन चेतनः ।
स्थूलदेहेन जीवात्मा
तदेव कुरुते तदा ॥४०॥
स्थूलदेहं विहयैवं
गृहीत्वा सूक्ष्मविग्रहम् ।
स्वर्गं वा नरकं वाऽपि
जीवात्मा परिगच्छति ॥४१॥
जीवात्मा पुण्यबाहुल्यात्
स्वर्गलोकं यथाक्रमम् ।
विकासयति भोगार्थं
स्वरूपे स्वेन चतेसा ॥४२॥
विशुद्धं ज्ञानमेवैकं
यथा स्वप्ने त्रिधा भवेत् ।
ग्राहकग्रहणाध्यैश्च
स्वर्गलोके तथा भवेत् ॥४३॥
यद्यत् स्वप्नप्रपञ्चस्य
चोपादानं स्वयं भवेत् ।
स्वर्गस्य नरकस्यैव
उपादानं स्वयं भवेत् ॥४४॥
जीवात्मा लिङ्गदेहेन
स्वर्गं नरकमेव वा ।
गत्वा मनोमयं पश्चा-
दनुभूय शुभाशुभम् ॥४५॥
प्रविश्य कारणं देहं
परिपूर्णं मनोमयम् ।
महत् सुखमवाप्नोति
परित्यज्य परिश्रमम् ॥४६॥
विहाय कारणं देहं
स्वात्मज्ञानमयाद्भुतम् ।
शुक्ळार्तेवे सुसंशुद्धे
गर्भपात्रे प्रबुद्धवान् ॥४७॥
पुनर्गर्भगृहाद्बुद्ध्वा
शुद्धशुक्ळार्तवं तदा ।
उपाधित्वेन संगृह्य
देहमेव किलेच्छति ॥४८॥
गर्भपात्रे स्थितं कुर्वन्
बह्वभद्रावहः पुमान् ।
मूर्च्छावस्थां गृहीत्वादौ
जन्मान्तरसुभाशुभात् ॥४९॥
प्रवाहतोऽनादिमयं
देहमेव पुनः पुनः ।
ध्यात्वा ध्यात्वा कालवशात्
देह एव प्रजायते ॥५०॥
उपाधित्वेन संगृह्य
स्थितश्शुक्ळार्तवं यदा ।
देहं विना स्थियस्यास्य
कथं ध्यानं भवेत्तदा ॥५१॥
बोधमात्रैकरूपस्य
देवस्यानन्दरूपिणः ।
स्वस्वरूपेऽपरिच्छेद्या
माया स्यात् पारमेश्वरी ॥५२॥
ज्ञप्तिरूपस्य देवस्य
ज्ञप्तिरूपोऽहमेव हि ।
इति ज्ञानविहीनस्य
बोधो मायेति कथ्यते ॥५३॥
एवं विचारणे माया
दैवीति परिकल्पिता ।
तया सङ्कोचमात्तस्य
बन्धोऽनादिरिहोच्यते ॥५४॥
अनाध्यन्तवती माया
स्थिता मायाविचारणे ।
चराचरमिदं विश्वं
तत्कार्यत्वात् तथा भवेत् ॥५५॥
अत एव हि देवस्य
सच्चिदानन्दरूपिणः ।
सप्तयोनिष्वहंभाव-
स्तत्र तत्र दृढं भवेत् ॥५६॥
लोकेषु वर्तमानानां
पुंसां तेन च हेतुना ।
देहं विनाप्यहङ्कारो
वर्तते वासनावशात् ॥५७॥
वृक्षबीजे यथा वृक्षो
स्थितश्शाखादिसंयुतः ।
तथाहमि स्थितो देहो
हस्तपादादिसंयुतः ॥५८॥
तस्माद् गर्भस्थितिं कुर्वन्
जीबोऽविद्यादिसंयुतः ।
अहङ्कारवशादेव
देह एव प्रजायते ॥५९॥
देहि सम्पूर्णदेहोऽसौ
जन्मान्तरशुभाशुभात् ।
पुनर्गर्भगृहाद् गत्वा
मूर्च्छामाप सुविस्मिताम् ॥६०॥
एवं देहत्रये कुर्वन्
स्थितिं देहि परिभ्रमन् ।
जीवात्मेतुच्यते सद्भिः
सर्ववेदान्तपारगैः ॥६१॥
एवं संसरतः पुंसः
स्वेनार्जितशुभाशुभात् ।
देशिकालोकनादेव
वैराग्यं जायते हृदि ॥६२॥
एवं वैराग्ययुक्तस्य
पुंसो हृदि निरन्तरम् ।
आविर्बभूव शुद्धात्मा
विचारस्सोयमीदृशः ॥६३॥
धनेन दुःखरोपेण
दुर्लभेनात्ममृत्युना ।
पुंसां का प्रीतिरेवस्यात्
पापरूपेण सर्वदा ॥६४॥
किं मे गेहेन किं भोगैः
किं धनईर्धनदैरपि ।
किं मित्रबान्धवईः कार्यं
सर्व कालवशादसत् ॥६५॥
किं स्त्रिया पापरूपिण्या
किं पुत्रैर्भन्दहेतुकैः ।
मृत्युना गृह्यमाणस्य
तैः किं कार्यं क्षणे क्षणे ॥६६॥
अतीता बहवः पुत्राः
दारा जन्मनि जन्मनि ।
प्रारब्धकर्मभोक्तृणां
पुंसां किमिह तैः फलम् ॥६७॥
भावेष्वरतियुक्तस्य
पुंसस्सत्यार्थभाषिणः ।
कोऽहं कथमिदञ्चेति
चिन्ता स्यात् सुव्हिशारदा ॥६८॥
सा चिन्ता देशिकं विप्रं
वेदशास्त्रागमान्वितम् ।
ब्रह्मज्ञानवतां पुंसां
वरं घटयति क्षणात् ॥६९॥
शक्तिपातपवित्रोऽयं
जीवात्मा गुरुविग्रहम् ।
दृष्ट्वा परवशो भूत्वा
नतिञ्चकै पुनः पुनः ॥७०॥
नत्वा देवं महात्मानं
देशिकं करुणामयम् ।
स्वस्वरूपं परिज्ञातुं
प्राञ्जलिस्तमभाषत ॥७१॥
स्वरूपं परमानन्दं
ज्ञातुभिच्छामि देशिक ।
संसाराब्धितितीर्षूणां
कर्णधारोऽसि देहिनाम् ॥७२॥
इति पृष्टो विरक्तेन
शिष्येण परमार्थवित् ।
स्वस्वरूपं पां ध्यायन्
देशिकस्तमभाषत ॥७३॥
यमाश्रित्य प्रवर्तन्ते
जनास्सर्वे निरन्तरम् ।
स्वरूपमिति तं विद्यात्
करणैश्चक्षुरादिभिः ॥७४॥
जाग्रत्काले यमाश्रित्य
स्थूलदेहः प्रबर्तते ।
सूक्ष्मदेहस्तथा स्वप्ने
स्वरूपं तं विदुर्बुधाः ॥७५॥
सुषूप्तौ तु यमाश्रित्य
भासते कारणं वपुः ।
स्वाज्ञानमयमव्यक्तं
स्वरूपमवधारय ॥७६॥
यो जाग्रदादिभेदेन
मिथ्यारूपेण भासते ।
तेषां द्रष्टृस्वरूपेण
स एव परमेश्वरः ॥७७॥
स एव त्वं शिवो विष्णु-
रग्निरिन्द्रचतुर्मुखः ।
स एव सूर्यस्सोमश्च
सः शास्ता स विनायकः ॥७८॥
वाणी श्रीगिरिजा दुर्गा
देवी चेत्यादिनामभिः ।
विभिद्य प्रोच्यते प्राज्ञै-
र्मतिभेदेन नान्यथा ॥७९॥
एकरूपं समाश्रित्य
सङ्कल्पञ्च विकल्पकम् ।
यदा करोत्यसौ देही
मन इत्युच्यते तदा ॥८०॥
संशयं परित्यज्य
रूपं प्रत्यवधारितः ।
यस्मिन् काले प्रत्यगात्मा
बुद्धिरित्युच्यते तदा ॥८१॥
यदाऽसौ स्वपरामर्शाद्
इदमित्थमिति स्फुटम् ।
रूपं प्रति विजानाति
तदाहङ्कारवान् भवेत् ॥८२॥
यदा हस्तः कर इति
बाहोः पर्याय एव हि ।
मनोबुद्धिरहङ्कार-
श्चित्तं चेति तथात्मनः ॥८३॥
यथावह्नोर्वर्तिभेदात्
इक्षोः पाकविशेषतः ।
नामरूपात्मको भेदः
स तथा जीवस्य नान्यथा ॥८४॥
यथा क्षीरे घृतं व्याप्त
तथ्या दृश्ये परः पुमान् ।
उपाधिभेदात् भेदस्स्यात्
तस्मादेकस्य नान्यथा ॥८५॥
एकरूपो महादेवः
सर्वभूतेष्ववस्थितः ।
एकरूपो महाकाशो
घटादिषु यथा स्थितः ॥८६॥
पृथक् पृथक् स्थितानाञ्च
देहानामविवादतः ।
पाणिपादादियुक्तानां
भेदो नास्ति विचारणे ॥८७॥
चराचरमिदं विश्वं
पञ्चभूतात्मकं स्मृतम् ।
देहानां पञ्चभूतानां
भेदो नास्ति तथास्थिते ॥८७॥
मृन्मयत्वाद् घटादीनां
यथा भेदो न विद्यते ।
पञ्चभूतात्मकत्वेन
देहानाञ्च तथैव च ॥८९॥
एवं विचारणे तात
नास्ति भेदः कदाचन ।
देहानां पञ्चभूतानां
जडानामाशुनाशिनाम् ॥९०॥
नवप्रदेशमात्रोऽयं
हस्तपादादिमानहम् ।
इति निश्चयवान् लोके
जीव इत्यभिधीयते ॥९१॥
सर्वत्र परिपूर्णोऽहं
अयं देहो समेति च ।
इति निश्चयवानन्तः
परमात्मेति कथ्यते ॥९२॥
एवं स्थिते न भेदस्स्यात्
जीवात्मपरमात्मनोः ।
तयोरभेद एव स्यात्
चित्स्वरूपाविशेषतः ॥१३॥
देहसाक्षी प्राण एव
इति चेत्तन्न संगतम् ।
सुषुप्तौ सर्वदेहानां
जडत्वादेव नान्यथा ॥१४॥
स्वव्यापारकृते प्राणो
देहोपरतिदर्शनात् ।
देहस्य कर्ता न प्राण
इत्येवमवधारय ॥९५॥
यच्चिन्त्यते भूपतिना
तत् कुर्वन्त्यनुजीविनः ।
तस्मात् प्राणो न कर्ता स्याद्
इति लोकेषु दर्शनात् ॥९६॥
देहत्रयसमुद्भूतां
वासनां संपरित्यजन् ।
परिगृह्य परं देहं
परिपूर्णं परो भव ॥९७॥
परिपूर्णमयं रूपं
परिगृह्य शुभशुभम् ।
नित्यनैमित्तिकं कर्म
सदा कुर्वन्न लित्यते ॥९८॥
कृतानि वाङ् मनः कायै-
र्लोके कर्माणि जन्तुभिः ।
तोषामन्यतमत्वेन
कथं कर्ता भविष्यति ॥९९॥
सर्वत्रावस्थितं शान्तं
स्वस्वरूपाभिधं शिवम् ।
अनुभूय वपुस्त्यक्त्वा
ज्ञाप्तिमात्रमयो भव ॥१००॥
Sanskrit Wikisource, page "अद्वैतशतकम्", revision 26051.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.