श्रीबिल्वाष्टकम्
अष्टकम् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as श्रीबिल्वाष्टकम्
Sanskrit text from Sanskrit Wikisource.
त्रिदलं त्रिगुणाकारं त्रिणेत्रं च त्रियायुधम् ।
त्रिजन्मपापसंहारम् एकबिल्वं शिवार्पणम् ॥ १॥
त्रिशाकैर्बिल्वपत्रैश्च अच्छिद्रैः कोमलैश्शुभैः ।
तव पूजां करिष्यामि एकबिल्वं शिवार्पणम् ॥ २॥
दर्शनं बिल्ववृक्षस्य स्पर्शनं पापनाशनम् ।
अघोरपापसंहारम् एकबिल्वं शिवार्पणम् ॥ ३॥
काशीक्षेत्रनिवासं च कालभैरवदर्शनम् ।
प्रयागे माधवं दृष्ट्वा एकबिल्वं शिवार्पणम् ॥ ४॥
तुलसी बिल्वनिर्गुण्डी जंबीरामलकं तथा ।
पञ्चबिल्वमिति ख्याता एकबिल्वं शिवार्पणम् ॥ ५॥
तटाकं धननिक्षेपं ब्रह्मस्थाप्यं शिवालयम् ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ६॥
दन्त्यश्वकोटिदानानि अश्वमेधशतानि च ।
कोटिकन्यामहादानम् एकबिल्वं शिवार्पणम् ॥ ७॥
सालग्रामसहस्राणि विप्रान्नं शतकोटिकम् ।
यज्ञकोटिसहस्राणि एकबिल्वं शिवार्पणम् ॥ ८॥
अज्ञानेन कृतं पापं ज्ञानेनापि कृतं च यत् ।
तत्सर्वं नाशमायातु एकबिल्वं शिवार्पणम् ॥ ९॥
एकैकबिल्वपत्रेण कोटियज्ञफलं लभेत् ।
महादेवस्य पूजार्थम् एकबिल्वं शिवार्पणम् ॥ १०॥
अमृतोद्भववृक्षस्य महादेवप्रियस्य च ।
मुच्यन्ते कण्टकाघाता कण्टकेभ्यो हि मानवाः ॥ ११॥
॥ ॐ तत्सत् ॥
Sanskrit Wikisource, page "श्रीबिल्वाष्टकम्", revision 36836.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.