🌺

शिक्षाष्टकम्

Shiksha Ashtakam

अष्टकम् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as शिक्षाष्टकम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

रचयिता- चैतन्य महाप्रभु (१४८६-१५३४)

चेतोदर्पणमार्जनं भवमहादावाग्निनिर्वापणम् श्रेयः कैरवचन्द्रिकावितरणं विद्यावधू जीवनम् ।
आनंदाम्बुधिवर्धनं प्रतिपदं पूर्णामृतास्वादनम् सर्वात्मस्नपनं परं विजयते श्रीकृष्ण संकीर्तनम् ॥१॥

नाम्नामकारि बहुधा निज सर्व शक्ति-स्तत्रार्पिता नियमितः स्मरणे न कालः।
एतादृशी तव कृपा भगवन्ममापि दुर्दैवमीदृशमिहाजनि नानुरागः॥२॥

तृणादपि सुनीचेन तरोरपि सहिष्णुना।
अमानिना मानदेन कीर्तनीयः सदा हरिः ॥३॥

न धनं न जनं न सुन्दरीं कवितां वा जगदीश कामये।
मम जन्मनि जन्मनीश्वरे भवताद् भक्तिरहैतुकी त्वयि॥४॥

अयि नन्दतनुज किंकरं पतितं मां विषमे भवाम्बुधौ।
कृपया तव पादपंकज-स्थितधूलिसदृशं विचिन्तय॥५॥

नयनं गलदश्रुधारया वदनं गदगदरुद्धया गिरा।
पुलकैर्निचितं वपुः कदा तव नाम-ग्रहणे भविष्यति॥६॥

युगायितं निमेषेण चक्षुषा प्रावृषायितम् ।
शून्यायितं जगत् सर्वं गोविन्द विरहेण मे॥७॥

आश्लिष्य वा पादरतां पिनष्टु मा-मदर्शनान्मर्महतां करोतु वा।
यथा तथा वा विदधातु लम्पटो मत्प्राणनाथस्तु स एव नापरः॥८॥

स्रोत · Source

Sanskrit Wikisource, page "शिक्षाष्टकम्", revision 410364.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और अष्टकम्पुस्तकालय