किराताष्टकम्
अष्टकम् · Sanskrit · ⏱ 2 min
अन्य नाम · Also known as किराताष्टकम्
Sanskrit text from Sanskrit Wikisource.
प्रत्यर्थि व्रातवक्षःस्थलरुधिरसुरा-
पानमत्तम्पृषत्कं
चापे सन्धाय तिष्ठन् हृदयसरसिजे
मामके तापहन्ता ।
पिञ्छोत्तंसः शरण्यः पशुपतितनयो
सावधानः सदा नः ॥ १ ॥
आखेटाय वनेचरस्य गिरिजा-
सक्तस्य शम्भोःसुतः
त्रातुं यो भुवनं पुरा समजनि
ख्यातः किराताकृतिः ।
कोदण्डः छुरिकाधरो घनरुचिः
पिञ्छावतंसोज्वलः
स त्वं मामव सर्वदा रिपुगण
त्रस्तं दयावारिधे ॥ २ ॥
यो मां पीडयति प्रसह्य सततं
देही त्वदेकाश्रयं
भित्वा तस्य रिपोरुरः छुरिकया
शाताग्रया दुर्मतेः ।
देव त्वत्करपङ्कजोलसितया
श्रीमन् किराताकृते
तत्प्राणान् वितरान्तकाय भगवन्
कालारिपुत्राञ्जसा ॥ ३ ॥
विद्धो मर्ममसु दुर्वचोभिरसतां
सन्तप्तशल्योपमैः
दृप्तानां द्विषतामशान्तमनसां
खिन्नोऽस्मि यावद् भृशं
तावत् त्वं छुरिकाशरासनधरः
चित्ते ममाविर्भवन्
स्वामिन् देव किरातरूप शमय
प्रत्यर्थिवर्गं क्षणात् ॥ ४ ॥
हर्तुं वित्तधर्मतो मम रताः-
छोराश्च ये दुर्जनाः
तेषां मर्मसु ताडयाशु विशिखै-
स्त्वत्कार्मुकान्निःसृतैः ।
शास्तारं द्विषतां किरातवपुषं
सर्वार्थदं त्वामृते
पश्याम्यत्र पुरारिपुत्र शरणं
नान्यं प्रपन्नोऽस्म्यहम् ॥ ५ ॥
यक्षप्रेतपिशाचभूतनिवहाः
दुःखप्रदा भीषणाः
बाधान्ते नरशोणितोत्सुकधियो
ये तां रिपुप्रेरिताः ।
चापज्यानिनदैस्त्वमीश सकलान्
संहृत्य दुष्टग्रहान्
गौरीशात्मज दैवतेश्वर किरा-
ताकार संरक्ष माम् ॥ ६ ॥
द्रोग्धुं ये निरतास्त्वदीयपदप-
द्मैकान्तभक्ताय मे
मायाःछन्नकळेबराश्च विषदा
नाद्यैःसुदा कर्मभिः ।
वश्यस्तम्भनमारणादि कुशल-
प्रारम्भ दक्षानरीन्
दुष्टान्संहर देवदेव शबरा-
कार त्रिलोकेश्वर ॥ ७ ॥
तन्वा वा मनसा गिराऽपि सततं
दोषां चिकीर्षन्त्यलं
त्वत्पादप्रणतस्य मे निरपरा-
धस्यापि ये मानवाः ।
सर्वान् सहेर तान् गिरीशसुत मे
तापत्रयौघानपि
त्वामेकं शबराकृते भयहरं
नाथं प्रपन्नोऽस्म्यहम् ॥ ८ ॥
कृष्टो राजभटैः सदाऽपि परिभूतोअं
खलैर्वैरिभि-
श्चान्यर्घोरतरैर्वि पज्जलनिधौ
मग्नोऽस्मि दुःखातुरः
हा हा किं करवै विभो शबरवेषं
त्वामभीष्टार्थदं
वन्देऽहं परदैवतं कुरु कृपां
नाथार्थ बन्धो मयि ॥ ९ ॥
स्तोत्रं यः प्रजपेत् प्रशान्तकरणैर्-
नित्यं किराताष्टकं
स क्षिप्रं वशगान् करोति नृपती-
नाबद्धवैरानपि ।
संहृत्यात्म विरोधिनः खलजनान्
दुष्टग्रहानप्यसौ
यात्यन्ते यमदूतभीतिरहितो-
दिव्यां गतिं शाश्वतीम् ॥ १० ॥
इति किराताष्टकं सम्पूर्णम् ॥
Sanskrit Wikisource, page "किराताष्टकम्", revision 56883.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.