🌺

कात्यायन्यष्टकम्

Katyayanya Ashtakam

अष्टकम् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as कात्यायन्यष्टकम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

श्रीगणेशाय नमः ।

अवर्षिसञ्ज्ञं पुरमस्ति लोके कात्यायनी तत्र विराजते या ।
प्रसाददा या प्रतिभा तदीया सा छत्रपुर्यां जयतीह गेया ॥ १॥

त्वमस्य भिन्नैव विभासि तस्यास्तेजस्विनी दीपजदीपकल्पा ।
कात्यायनी स्वाश्रितदुःखहर्त्री पवित्रगात्री मतिमानदात्री ॥ २॥

ब्रह्मोरुवेतालकसिंहदाढोसुभैरवैरग्निगणाभिधेन ।
संसेव्यमाना गणपत्यभिख्या युजा च देवि स्वगणैरिहासि ॥ ३॥

गोत्रेषु जातैर्जमदग्निभारद्वाजाऽत्रिसत्काश्यपकौशिकानाम् ।
कौण्डिन्यवत्सान्वयजैश्च विप्रैर्निजैर्निषेव्ये वरदे नमस्ते ॥ ४॥

भजामि गोक्षीरकृताभिषेके रक्‍ताम्बरे रक्‍तसुचन्दनाक्‍ते ।
त्वां बिल्वपत्रीशुभदामशोभे भक्ष्यप्रिये हृत्प्रियदीपमाले ॥ ५॥

खड्गं च शङ्खं महिषासुरीयं पुच्छं त्रिशूलं महिषासुरास्ये ।
प्रवेशितं देवि करैर्दधाने रक्षानिशं मां महिषासुरघ्ने ॥ ६॥

स्वाग्रस्थबाणेश्वरनामलिङ्गं सुरत्‍नकं रुक्ममयं किरीट्म ।
शीर्षे दधाने जय हे शरण्ये विद्युत्प्रभे मां जयिनं कुरूष्व ॥ ७॥

नेत्रावतीदक्षिणपार्श्वसंस्थे विद्याधरैर्नागगणैश्च सेव्ये ।
दयाघने प्रापय शं सदास्मान्मातर्यशोदे शुभदे शुभाक्षि ॥ ८॥

इदं कात्यायनीदेव्याः प्रसादाष्टकमिष्टदम् ।
कुमठाचार्यजं भक्‍त्या पठेद्यः स सुखी भवेत् ॥ ९॥

॥ इति श्रीकात्यायन्यष्टकं सम्पूर्णम् ॥

स्रोत · Source

Sanskrit Wikisource, page "कात्यायन्यष्टकम्", revision 56880.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और अष्टकम्पुस्तकालय