गङ्गाष्टकम् (कालिदासकृतम्)
अष्टकम् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as गङ्गाष्टकम् (कालिदासकृतम्)
Sanskrit text from Sanskrit Wikisource.
श्रीगणेशाय नमः ॥
कत्यक्षीणि करोटयः कति कति द्वीपिद्विपानां त्वचः
काकोलाः कति पन्नगाः कति सुधाधाम्नश्च खण्डा कति ।
किं च त्वं च कति त्रिलोकजननित्वद्वारिपूरोदरे
मज्जज्जन्तुकदम्बकं समुदयत्येकैकमादाय यत् ॥ १॥
देवि त्वत्पुलिनाङ्गणे स्थितिजुषां निर्मानिनां ज्ञानिनां
स्वल्पाहारनिबद्धशुद्धवपुषां तार्णं गृहं श्रेयसे ।
नान्यत्र क्षितिमण्डलेश्वरशतैः संरक्षितो भूपतेः
प्रासादो ललनागणैरधिगतो भोगीन्द्रभोगोन्नतः ॥ २॥
तत्तत्तीर्थगतैः कदर्थनशतैः किं तैरनर्थाश्रितै-
र्ज्योतिष्टोममुखैः किमीशविमुखैर्यज्ञैरवज्ञाद्दतै ।
सूते केशववासवादिविबुधागाराभिरामां श्रियं गङ्गे
देवि भवत्तटे यदि कुटीवासः प्रयासं विना ॥ ३॥
गङ्गातीरमुपेत्य शीतलशिलामालम्ब्य हेमाचलीं
यैराकर्णि कुतूहलाकुलतया कल्लोलकोलाहलः ।
ते शृण्वन्ति सुपर्वपर्वतशिलासिंहासनाध्यासनाः
सङ्गीतागमशुद्धसिद्धरमणीमञ्जीरधीरध्वनिम् ॥ ४॥
दूरं गच्छ सकच्छगं च भवतो नालोकयामो
मुखं रे पाराक वराक साकमितरैर्नाकप्रदैर्गम्यताम् ।
सद्यः प्रोद्यतमन्दमारुतरजःप्राप्ता कपोलस्थले
गङ्गाम्भःकणिका विमुक्तगणिकासङ्गाय सम्भाव्यते ॥ ५॥
विष्णोः सङ्गतिकारिणी हरजटाजूटाटवीचारिणी
प्रायश्चित्तनिवारिणी जलकणैः पुण्यौधविस्तारिणी ।
भूभृत्कन्दरदारिणी निजजले मज्जज्जनोत्तारिणी
श्रेयः स्वर्गविहारिणी विजयते गङ्गा मनोहारिणी ॥ ६॥
वाचालं विकलं खलं श्रितमलं कामाकुलं व्याकुलं
चाण्डालं तरलं निपीतगरलं दोषाविलं चाखिलम् ।
कुम्भीपाकगतं तमन्तककरादाकृष्य कस्तारयेन्-
मातर्जह्नुनरेन्द्रनन्दिनि तव स्वल्पोदबिन्दुं विना ॥ ७॥
श्लेषमश्लेषणयानलेऽमृतबिले शाकाकुले व्याकुले
कण्ठे घर्घरघोषनादमलिने काये च सम्मीलति ।
यां ध्यायन्न्पि भारभङ्गुरतरां प्राप्नोति मुक्तिं नरः
स्नातुश्वेतसि जाह्न्वी निवसतां संसारसन्तापहृत् ॥ ८॥
इति श्रीमत्कालिदासविरचितं गङ्गाष्टकस्तोत्रं सम्पूर्णम् ॥
Sanskrit Wikisource, page "गङ्गाष्टकम् (कालिदासकृतम्)", revision 142999.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.