🌺

गंगाष्टकम् (शंकरभगवतकृतम्)

Gamgashtakam Shamkarabhagavatakrtam

अष्टकम् · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as गंगाष्टकम् (शंकरभगवतकृतम्)

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

॥श्री गंगाष्टकम् ॥

ॐ भगवति तव तीरे नीरमात्राशनोऽहं
विगतविषयतृष्णः कृष्णमाराधयामि ।
सकलकलुषभंगे स्वर्गसोपानगंगे
तरलतरतरंगे देवि गंगे प्रसीद ॥१॥
भगवति भवलीलामौइलिमाले तवांभः
कणमणुपरिमाणं प्राणिनो ये स्पृशन्ति ।
अमरनगरनारिचामरमरग्राहिणीनां
विगतकलिकलंकातंकमंके लुठन्ति ॥२॥
ब्रह्माण्डं खंडयन्ती हरशिरसि जटावल्लिमुल्लासयन्ती
खल्लोर्कात् आपतन्ती कनकगिरिगुहागण्डशैलात् स्खलन्ती ।
क्षोणी पृष्ठे लुठन्ती दुरितचयचमूनिंर्भरं भत्सर्यन्ती
पाथोधिं पुरयन्ती सुरनगरसरित् पावनी नः पुनातु ॥३॥
मज्जनमातंगकुंभच्युतमदमदिरामोदमत्तालिजालं
स्नानंः सिद्धांगनानां कुचयुगविगलत् कुंकुमासंगपिंगम् ।
सायंप्रातर्मुनीनां कुशकुसुमचयैः छन्नतीरस्थनीरं
पाय न्नो गांगमंभः करिकलभकराक्रान्तरं हस्तरंगम् ॥४॥
आदावादि पितामहस्य नियमव्यापारपात्रे जलं
पश्चात् पन्नगशायिनो भगवतः पादोदकं पावनम् ।
भूयः शंभुजटाविभूषणमणिः जहनोर्महर्षेरियं
कन्या कल्मषनाशिनी भगवती भागीरथी दृश्यते ॥५॥
शैलेन्द्रात् अवतारिणी निजजले मज्जत् जनोत्तारिणी
पारावारविहारिणी भवभयश्रेणी समुत्सारिणी ।
शेषाहेरनुकारिणी हरशिरोवल्लिदलाकारिणी
काशीप्रान्तविहारिणी विजयते गंगा मनोओहारिणो ॥६॥
कुतो वीचिर्वीचिस्तव यदि गता लोचनपथं
त्वमापीता पीतांबरपुग्निवासं वितरसि ।
त्वदुत्संगे गंगे पतति यदि कायस्तनुभृतां
तदा मातः शातक्रतवपदलाभोऽप्यतिलघुः ॥७॥
गंगे त्रैलोक्यसारे सकलसुरवधूधौतविस्तीर्णतोये
पूर्णब्रह्मस्वरूपे हरिचरणरजोहारिणि स्वर्गमार्गे ।
प्रायश्चितं यदि स्यात् तव जलकाणिक्रा ब्रह्महत्यादिपापे
कस्त्वां स्तोतुं समर्थः त्रिजगदघहरे देवि गंगे प्रसीद ॥८॥
मातर्जाह्नवी शंभुसंगवलिते मौलै निधायाञ्जलिं
त्वत्तीरे वपुषोऽवसानसमये नारायणांध्रिद्वयम् ।
सानन्दं स्मरतो भविष्यति मम प्राणप्रयाणोत्सवे
भूयात् भक्तिरविच्युता हरिहरद्वैतात्मिका शाश्वती ॥९॥
गंगाष्टकमिदं पुण्यं यः पठेत् प्रयतो नरः ।
सर्वपापविनिर्भुक्तो विष्णुलोकं स गच्छति ॥१०॥

इति श्रीमत्परमहंसपरिव्राजकाचार्य श्रीगोविन्दभगवत्पूज्यपादस्यशिष्या
श्रीमच्छङ्करभगवतः कृतौ गङ्गाष्टकस्तोत्रं सम्पूर्णम् ।

स्रोत · Source

Sanskrit Wikisource, page "गंगाष्टकम् (शंकरभगवतकृतम्)", revision 90920.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और अष्टकम्पुस्तकालय