अवधूताष्टकम्
अष्टकम् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as अवधूताष्टकम्
Sanskrit text from Sanskrit Wikisource.
श्री परमात्मने नमः ॥
अथ परमहंस शिरोमणि-अवधूत-श्रीस्वामीशुकदेवस्तुतिः
निर्वासनं निराकाङ्क्षं सर्वदोषविवर्जितम् ।
निरालम्बं निरातङ्कं ह्यवधूतं नमाम्यहम् ॥ १॥
निर्ममं निरहङ्कारं समलोष्टाश्मकाञ्चनम् ।
समदुःखसुखं धीरं ह्यवधूतं नमाम्यहम् ॥ २॥
अविनाशिनमात्मानं ह्येकं विज्ञाय तत्वतः ।
वीतरागभयक्रोधं ह्यवधूतं नमाम्यहम् ॥ ३॥
नाहं देहो न मे देहो जीवो नाहमहं हि चित् ।
एवं विज्ञाय सन्तुष्टम् ह्यवधूतं नमाम्यहम् ॥ ४॥
समस्तं कल्पनामात्रं ह्यात्मा मुक्तः सनातनः ।
इति विज्ञाय सन्तुष्टं ह्यवधूतं नमाम्यहम् ॥ ५॥
ज्ञानाग्निदग्धकर्माणं कामसङ्कल्पवर्जितम् ।
हेयोपादेयहीनं तं ह्यवधूतं नमाम्यहम् ॥ ६॥
व्यामोहमात्रविरतौ स्वरूपादानमात्रतः ।
वीतशोकं निरायासं ह्यवधूतं नमाम्यहम् ॥ ७॥
आत्मा ब्रह्मेति निश्चित्य भावाभावौ च कल्पितौ ।
उदासीनं सुखासीनं ह्यवधूतं नमाम्यहम् ॥ ८॥
स्वभावेनैव यो योगी सुखं भोगं न वाञ्छति ।
यदृच्छालाभसन्तुष्टं ह्यवधूतं नमाम्यहम् ॥ ९॥
नैव निन्दाप्रशंसाभ्यां यस्य विक्रियते मनः ।
आत्मक्रीडं महात्मानं ह्यवधूतं नमाम्यहम् ॥ १०॥
नित्यं जाग्रदवस्थायां स्वप्नवद्योऽवतिष्ठते ।
निश्चिन्तं चिन्मयात्मानं ह्यवधूतं नमाम्यहम् ॥ ११॥
द्वेष्यं नास्ति प्रियं नास्ति नास्ति यस्य शुभाशुभम् ।
भेदज्ञानविहीनं तं ह्यवधूतं नमाम्यहम् ॥ १२॥
जडं पश्यति नो यस्तु जगत् पश्यति चिन्मयम् ।
नित्ययुक्तं गुणातीतं ह्यवधूतं नमाम्यहम् ॥ १३॥
यो हि दर्शनमात्रेण पवते भुवनत्रयम् ।
पावनं जङ्गमं तीर्थं ह्यवधूतं नमाम्यहम् ॥ १४॥
निष्कलं निष्क्रियं शान्तं निर्मलं परमामृतम् ।
अनन्तं जगदाधारं ह्यवधूतं नमाम्यहम् ॥ १५॥
॥ इति अवधूताष्टकं समाप्तम् ॥
Sanskrit Wikisource, page "अवधूताष्टकम्", revision 56876.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.