अभिलाषाष्टकम्
अष्टकम् · Sanskrit · ⏱ 1 min
अन्य नाम · Also known as अभिलाषाष्टकम्
Sanskrit text from Sanskrit Wikisource.
कदा पक्षीन्द्रांसोपरि गतमजं कञ्चनयनम्
रमासंश्लिष्टाङ्गं गगनरुचमापीतवसनम् ।
गदाशङ्खाम्भोजारिवरमालोक्य सुचिरं
गमिष्यत्येतन्मे ननु सफलतां नेत्रयुगलम् ॥ १॥
कदा क्षीराब्ध्यन्तः सुरतरुवनान्तर्मणिमये
समासीनं पीठे जलधितनयालिङ्गिततनुम् ।
स्तुतं देवैर्नित्यं मुनिवरकदम्बैरभिनुतम्
स्तवैः सन्तोष्यामि श्रुतिवचनगर्भैः सुरगुरुम् ॥ २॥
कदा मामाभीतं भयजलधितस्तापसतनुं
गता रागं गङ्गातटगिरिगुहावाससहनम् ।
लपन्तं हे विष्णो सुरवर रमेशेति सततं
समभ्येत्योदारं कमलनयनो वक्ष्यति वचः ॥ ३॥
कदा मे हृद्पद्मे भ्रमर इव पद्मे प्रतिवसन्
सदा ध्यानाभ्यासादनिशमुपहूतो विभुरसौ ।
स्फुरज्ज्योतीरूपो रविरिव रसासेव्यचरणो
हरिष्यत्यज्ञानाज्जनिततिमिरं तूर्णमखिलम् ॥ ४॥
कदा मे भोगाशा निबिडभवपाशादुपरतं
तपःशुद्धं बुद्धं गुरुवचनतोदैरचपलम् ।
मनो मौनं कृत्वा हरिचरणयोश्चारु सुचिरं
स्थितिं स्थाणुप्रायां भवभयहरां यास्यति पराम् ॥ ५॥
कदा मे संरुद्धाखिलकरणजालस्य परितो
जिताशेषप्राणानिलपरिकरस्य प्रजपतः ।
सदोङ्कारं चित्तं हरिपदसरोजे धृतवतः
समेष्यत्युल्लासं मुहुरखिलरोमावलिरियम् ॥ ६॥
कदा प्रारब्धान्ते परिशिथिलतां गच्छति शनैः
शरीरे चाक्षौघेऽप्युपरतवति प्राणपवने ।
वदत्यूर्ध्वं शश्वन्मम वदनकञ्जे मुहुरहो
करिष्यत्यावासं हरिरिति पदं पावनतमम् ॥ ७॥
कदा हित्वा जीर्णां त्वचमिव भुजङ्गस्तनुमिमां
चतुर्बाहुश्चक्राम्बुजदरकरः पीतवसनः ।
घनश्यामो दूतैर्गगनगतिनीतो नतिपरै-
र्गमिष्यामीशस्यान्तिकमखिलदुःखान्तकमिति ॥ ८॥
॥ इति श्रीमत्परमहंसस्वामिब्रह्मानन्दविरचितं
अभिलाषाष्टकं सम्पूर्णम् ॥
Sanskrit Wikisource, page "अभिलाषाष्टकम्", revision 56875.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 18 (Stotras, Vol. 2), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.