🪷

ईशावास्योपनिषद्भाष्यम् शङ्कराचार्यकृतम्

Ishavasyopanishadbhashyam Shankaracaryakrtam

उपनिषद् · 🔱 भगवान शिव · Sanskrit · ⏱ 9 min

अन्य नाम · Also known as ईशावास्योपनिषद्भाष्यम् शङ्कराचार्यकृतम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

शुद्धत्वापापविद्धत्वैकत्वनित्यत्वाशरीरत्वसर्वगतत्वादि वक्ष्यमाणम् । तच्च कर्मणा विरुध्यत इति युक्त एवैषां कर्मस्वविनियोगः । न ह्येवंलक्षणमात्मनो याथात्म्यम् उत्पाद्यं विकार्यम् आप्यं संस्कार्यं वा कर्तृभोक्तृरूपं वा, येन कर्मशेषता स्यात् ; सर्वासामुपनिषदामात्मयाथात्म्यनिरूपणेनैवोपक्षयात्, गीतानां मोक्षधर्माणां चैवंपरत्वात् । तस्मादात्मनोऽनेकत्वकर्तृत्वभोक्तृत्वादि च अशुद्धत्वपापविद्धत्वादि चोपादाय लोकबुद्धिसिद्धं कर्माणि विहितानि । यो हि कर्मफलेनार्थी दृष्टेन ब्रह्मवर्चसादिना अदृष्टेन स्वर्गादिना च द्विजातिरहं न काणत्वकुणित्वाद्यनधिकारप्रयोजकधर्मवानित्यात्मानं मन्यते सोऽधिक्रियते कर्मस्विति ह्यधिकारविदो वदन्ति । तस्मादेते मन्त्रा आत्मनो याथात्म्यप्रकाशनेन आत्मविषयं स्वाभाविककर्मविज्ञानं निवर्तयन्तः शोकमोहादिसंसारधर्मविच्छित्तिसाधनमात्मैकत्वादिविज्ञानमुत्पादयन्तीति । एवमुक्ताधिकार्यभिधेयसम्बन्धप्रयोजनान्मन्त्रान्संक्षेपतो व्याख्यास्यामः —
ईशा वास्यमिदं सर्वं यत्किं च जगत्यां जगत् ।
तेन त्यक्तेन भुञ्जीथा मा गृधः कस्य स्विद्धनम् ॥ १ ॥
भाष्यम्
एवमात्मविदः पुत्राद्येषणात्रयसंन्यासेनात्मज्ञाननिष्ठतया आत्मा रक्षितव्य इत्येष वेदार्थः । अथेतरस्य अनात्मज्ञतयात्मग्रहणाशक्तस्य इदमुपदिशति मन्त्रः —
कुर्वन्नेवेह कर्माणि जिजीविषेच्छतं समाः ।
एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ २ ॥
भाष्यम्
अथेदानीमविद्वन्निन्दार्थोऽयं मन्त्र आरभ्यते —
असुर्या नाम ते लोका अन्धेन तमसा वृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ ३ ॥
भाष्यम्
यस्यात्मनो हननादविद्वांसः संसरन्ति, तद्विपर्ययेण विद्वांसो मुच्यन्तेऽनात्महनः, तत्कीदृशमात्मतत्त्वमित्युच्यते —
अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् ।
तद्धावतोऽन्यानत्येति तिष्ठ—त्तस्मिन्नपो मातरिश्वा दधाति ॥ ४ ॥
भाष्यम्
न मन्त्राणां जामितास्तीति पूर्वमन्त्रोक्तमप्यर्थं पुनराह —
तदेजति तन्नैजति तद्दूरे तद्वन्तिके ।
तदन्तरस्य सर्वस्य तदु सर्वस्यास्य बाह्यतः ॥ ५ ॥
भाष्यम्
यस्तु सर्वाणि भूतानि आत्मन्येवानुपश्यति ।
सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ ६ ॥
भाष्यम्
इममेवार्थमन्योऽपि मन्त्र आह —
यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः ।
तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ ७ ॥
भाष्यम्
योऽयमतीतैर्मन्त्रैरुक्त आत्मा, स स्वेन रूपेण किंलक्षण इत्याह अयं मन्त्रः —
स पर्यगाच्छुक्रमकायमव्रण—मस्नाविरं शुद्धमपापविद्धम् ।
कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतो—ऽर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ ८ ॥
भाष्यम्
अत्राद्येन मन्त्रेण सर्वैषणापरित्यागेन ज्ञाननिष्ठोक्ता प्रथमो वेदार्थः ‘ईशावास्यमिदं सर्वम्. . . मा गृधः कस्य स्विद्धनम्’ (ई. उ. १) इति । अज्ञानां जिजीविषूणां ज्ञाननिष्ठासम्भवे ‘कुर्वन्नेवेह कर्माणि जिजीविषेत्’ (ई. उ. २) इति कर्मनिष्ठोक्ता द्वितीयो वेदार्थः । अनयोश्च निष्ठयोर्विभागो मन्त्रद्वयप्रदर्शितयोर्बृहदारण्यकेऽपि दर्शितः — ‘सोऽकामयत जाया मे स्यात्’ (बृ. उ. १-४-१७) इत्यादिना अज्ञस्य कामिनः कर्माणीति । ‘मन एवास्यात्मा वाग्जाया’ (बृ. उ. १-४-१७), (बृ. उ. १-५-२) इत्यादिवचनात् अज्ञत्वं कामित्वं च कर्मनिष्ठस्य निश्चितमवगम्यते । तथा च तत्फलं सप्तान्नसर्गस्तेष्वात्मभावेनात्मस्वरूपावस्थानम् । जायाद्येषणात्रयसंन्यासेन चात्मविदां कर्मनिष्ठाप्रातिकूल्येन आत्मस्वरूपनिष्ठैव दर्शिता — ‘किं प्रजया करिष्यामो येषां नोऽयमात्मायं लोकः’ (बृ. उ. ४-४-२२) इत्यादिना । ये तु ज्ञाननिष्ठाः संन्यासिनस्तेभ्यः ‘असुर्या नाम ते’ (ई. उ. ३) इत्यादिना अविद्वन्निन्दाद्वारेणात्मनो याथात्म्यम् ‘स पर्यगात्’ (ई. उ. ८) इत्येतदन्तैर्मन्त्रैरुपदिष्टम् । ते ह्यत्राधिकृता न कामिन इति । तथा च श्वेताश्वतराणां मन्त्रोपनिषदि — ‘अत्याश्रमिभ्यः परमं पवित्रं प्रोवाच सम्यगृषिसंघजुष्टम्’ (श्वे. उ. ६-२१) इत्यादि विभज्योक्तम् । ये तु कामिनः कर्मनिष्ठाः कर्म कुर्वन्त एव जिजीविषवः, तेभ्य इदमुच्यते — ‘ अन्धं तमः’ (ई. उ. ९) इत्यादि । कथं पुनरेवमवगम्यते, न तु सर्वेषाम् इति ? उच्यते — अकामिनः साध्यसाधनभेदोपमर्देन ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति यत् आत्मैकत्वविज्ञानम्, तन्न केनचित्कर्मणा ज्ञानान्तरेण वा ह्यमूढः समुच्चिचीषति । इह तु समुच्चिचीषया अविद्वदादिनिन्दा क्रियते । तत्र च यस्य येन समुच्चयः सम्भवति न्यायतः शास्त्रतो वा तदिहोच्यते । तद्दैवं वित्तं देवताविषयं ज्ञानं कर्मसम्बन्धित्वेनोपन्यस्तं न परमात्मज्ञानम्, ‘विद्यया देवलोकः’ (बृ. उ. १-५-१६) इति पृथक्फलश्रवणात् । तयोर्ज्ञानकर्मणोरिहैकैकानुष्ठाननिन्दा समुच्चिचीषया, न निन्दापरैव एकैकस्य, पृथक्फलश्रवणात् — ‘विद्यया तदारोहन्ति’ ‘विद्यया देवलोकः’ (बृ. उ. १-५-१६) ‘न तत्र दक्षिणा यान्ति’ ‘कर्मणा पितृलोकः’ (बृ. उ. १-५-१६) इति । न हि शास्त्रविहितं किञ्चिदकर्तव्यतामियात् । तत्र —
अन्धं तमः प्रविशन्ति ये अविद्यामुपासते ।
ततो भूय इव ते तमो य उ विद्यायां रताः ॥ ९ ॥
भाष्यम्
तत्रावान्तरफलभेदं विद्याकर्मणोः समुच्चयकारणमाह । अन्यथा फलवदफलवतोः संनिहितयोरङ्गाङ्गितया जामितैव स्यादिति —
अन्यदेवाहुर्विद्यया अन्यदाहुरविद्यया ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १० ॥
भाष्यम्
यत एवमतः —
विद्यां चाविद्यां च यस्तद्वेदोभयं सह ।
अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते ॥ ११ ॥
भाष्यम्
अधुना व्याकृताव्याकृतोपासनयोः समुच्चिचीषया प्रत्येकं निन्दोच्यते —
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते ।
ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥ १२ ॥
भाष्यम्
अधुना उभयोरुपासनयोः समुच्चयकारणमवयवफलभेदमाह —
अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् ।
इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ १३ ॥
भाष्यम्
यत एवम्, अतः समुच्चयः सम्भूत्यसम्भूत्युपासनयोर्युक्तः एकैकपुरुषार्थत्वाच्चेत्याह —
सम्भूतिं च विनाशं च यस्तद्वेदोभयं सह ।
विनाशेन मृत्युं तीर्त्वा सम्भूत्यामृतमश्नुते ॥ १४ ॥
भाष्यम्
मानुषदैववित्तसाध्यं फलं शास्त्रलक्षणं प्रकृतिलयान्तम् ; एतावती संसारगतिः । अतः परं पूर्वोक्तम् ‘आत्मैवाभूद्विजानतः’ इति सर्वात्मभाव एव सर्वैषणासंन्यासज्ञाननिष्ठाफलम् । एवं द्विप्रकारः प्रवृत्तिनिवृत्तिलक्षणो वेदार्थोऽत्र प्रकाशितः । तत्र प्रवृत्तिलक्षणस्य वेदार्थस्य विधिप्रतिषेधलक्षणस्य कृत्स्नस्य प्रकाशने प्रवर्ग्यान्तं ब्राह्मणमुपयुक्तम् । निवृत्तिलक्षणस्य प्रकाशने अत ऊर्ध्वं बृहदारण्यकम् । तत्र निषेकादिश्मशानान्तं कर्म कुर्वन् जिजीविषेद्यो विद्यया सहापरब्रह्मविषयया, तदुक्तम् — ‘विद्यां चाविद्यां च यस्तद्वेदोभयं सह । अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. १) इति, तत्र सोऽधिकारी केन मार्गेणामृतत्वमश्नुते इत्युच्यते — ‘तद्यत्तत्सत्यमसौ स आदित्यो य एष एतस्मिन्मण्डले पुरुषो यश्चायं दक्षिणेऽक्षन्पुरुषः’ (बृ. उ. ५-५-२) एतदुभयं सत्यं ब्रह्मोपासीनः यथोक्तकर्मकृच्च यः, सोऽन्तकाले प्राप्ते सत्यात्मानमात्मनः प्राप्तिद्वारं याचते —
हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् ।
तत्त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ १५ ॥
भाष्यम्
हिरण्मयेन पात्रेण हिरण्मयमिव हिरण्मयम्, ज्योतिर्मयमित्येतत्, तेन पात्रेणेव अपिधानभूतेन सत्यस्य आदित्यमण्डलस्थस्य ब्रह्मणः अपिहितम् आच्छादितं मुखं द्वारम् ; तत् त्वं हे पूषन् अपावृणु अपसारय सत्यधर्माय तव सत्यस्योपासनात्सत्यं धर्मो यस्य मम सोऽहं सत्यधर्मा तस्मै मह्यम् ; अथवा, यथाभूतस्य धर्मस्यानुष्ठात्रे, दृष्टये तव सत्यात्मन उपलब्धये ॥
पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह
रश्मीन्समूह तेजो यत्ते रूपं कल्याणतमं
तत्ते पश्यामि योऽसावसौ पुरुषः सोऽहमस्मि ॥ १६ ॥
भाष्यम्
हे पूषन् जगतः पोषणात्पूषा रविः । तथा एक एव ऋषति गच्छतीत्येकर्षिः हे एकर्षे । तथा सर्वस्य संयमनाद्यमः हे यम । तथा रश्मीनां प्राणानां रसानां च स्वीकरणात्सूर्यः हे सूर्य । प्रजापतेरपत्यं प्राजापत्यः हे प्राजापत्य । व्यूह विगमय रश्मीन् स्वान् । समूह एकीकुरु उपसंहर तेजः तावकं ज्योतिः । यत् ते तव रूपं कल्याणतमम् अत्यन्तशोभनम्, तत् ते तवात्मनः प्रसादात् पश्यामि । किञ्च, अहं न तु त्वां भृत्यवद्याचे योऽसौ आदित्यमण्डलस्थः असौ व्याहृत्यवयवः पुरुषः पुरुषाकारत्वात्, पूर्णं वानेन प्राणबुद्ध्यात्मना जगत्समस्तमिति पुरुषः ; पुरि शयनाद्वा पुरुषः । सोऽहम् अस्मि भवामि ॥
वायुरनिलममृतमथेदं भस्मान्तं शरीरम् ।
ओं क्रतो स्मर कृतं स्मर क्रतो स्मर कृतं स्मर ॥ १७ ॥
भाष्यम्
अथेदानीं मम मरिष्यतो वायुः प्राणः अध्यात्मपरिच्छेदं हित्वा अधिदैवतात्मानं सर्वात्मकम् अनिलम् अमृतं सूत्रात्मानं प्रतिपद्यतामिति वाक्यशेषः । लिङ्गं चेदं ज्ञानकर्मसंस्कृतमुत्क्रामत्विति द्रष्टव्यम्, मार्गयाचनसामर्थ्यात् । अथ इदं शरीरमग्नौ हुतं भस्मान्तं भस्मावशेषं भूयात् । ओमिति यथोपासनम् ओंप्रतीकात्मकत्वात्सत्यात्मकमग्न्याख्यं ब्रह्माभेदेनोच्यते । हे क्रतो सङ्कल्पात्मक स्मर यन्मम स्मर्तव्यं तस्य कालोऽयं प्रत्युपस्थितः, अतः स्मर एतावन्तं कालं भावितं कृतम् अग्ने स्मर यन्मया बाल्यप्रभृत्यनुष्ठितं कर्म तच्च स्मर । क्रतो स्मर कृतं स्मर इति पुनर्वचनमादरार्थम् ॥
पुनरन्येन मन्त्रेण मार्गं याचते —
अग्ने नय सुपथा राये अस्मान्विश्वानि देव वयुनानि विद्वान् ।
युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमउक्तिं विधेम ॥ १८ ॥
भाष्यम्
हे अग्ने नय गमय सुपथा शोभनेन मार्गेण । सुपथेति विशेषणं दक्षिणमार्गनिवृत्त्यर्थम् । निर्विण्णोऽहं दक्षिणेन मार्गेण गतागतलक्षणेन ; अतो याचे त्वां पुनः पुनः गमनागमनवर्जितेन शोभनेन पथा नय । राये धनाय, कर्मफलभोगायेत्यर्थः । अस्मान् यथोक्तधर्मफलविशिष्टान् विश्वानि सर्वाणि हे देव वयुनानि कर्माणि, प्रज्ञानानि वा विद्वान् जानन् । किञ्च, युयोधि वियोजय विनाशय अस्मत् अस्मत्तः जुहुराणं कुटिलं वञ्चनात्मकम् एनः पापम् । ततो वयं विशुद्धाः सन्तः इष्टं प्राप्स्याम इत्यभिप्रायः । किंतु वयमिदानीं ते न शक्नुमः परिचर्यां कर्तुम् ; भूयिष्ठां बहुतरां ते तुभ्यं नमउक्तिं नमस्कारवचनं विधेम नमस्कारेण परिचरेम इत्यर्थः ॥
‘अविद्यया मृत्युं तीर्त्वा विद्ययामृतमश्नुते’ (ई. उ. ११) ‘विनाशेन मृत्युं तीर्त्वा असम्भूत्यामृतमश्नुते’ (ई. उ. १४) इति श्रुत्वा केचित्संशयं कुर्वन्ति । अतस्तन्निर्धारणार्थं सङ्क्षेपतो विचारणां करिष्यामः । तत्र तावत्किंनिमित्तः संशय इति, उच्यते — विद्याशब्देन मुख्या परमात्मविद्यैव कस्मान्न गृह्यते, अमृतत्वं च ? ननूक्तायाः परमात्मविद्यायाः कर्मणश्च विरोधात्समुच्चयानुपपत्तिः । सत्यम् । विरोधस्तु नावगम्यते, विरोधाविरोधयोः शास्त्रप्रमाणकत्वात् ; यथा अविद्यानुष्ठानं विद्योपासनं च शास्त्रप्रमाणकम्, तथा तद्विरोधाविरोधावपि । यथा च ‘न हिंस्यात्सर्वा भूतानि’ इति शास्त्रादवगतं पुनः शास्त्रेणैव बाध्यते ‘अध्वरे पशुं हिंस्यात्’ इति, एवं विद्याविद्ययोरपि स्यात् ; विद्याकर्मणोश्च समुच्चयः । न ; ‘दूरमेते विपरीते विषूची अविद्या या च विद्येति ज्ञाता’ इति श्रुतेः । ‘विद्यां चाविद्यां च’ इति वचनादविरोध इति चेत्, न ; हेतुस्वरूपफलविरोधात् । विद्याविद्याविरोधाविरोधयोर्विकल्पासम्भवात् समुच्चयविधानादविरोध एवेति चेत्, न ; सहसम्भवानुपपत्तेः । क्रमेणैकाश्रये स्यातां विद्याविद्ये इति चेत्, न ; विद्योत्पत्तौ तदाश्रयेऽविद्यानुपपत्तेः ; न हि अग्निरुष्णः प्रकाशश्च इति विज्ञानोत्पत्तौ यस्मिन्नाश्रये तदुत्पन्नम्, तस्मिन्नेवाश्रये शीतोऽग्निरप्रकाशो वा इत्यविद्याया उत्पत्तिः । नापि संशयः अज्ञानं वा, ‘यस्मिन्सर्वाणि भूतानि आत्मैवाभूद्विजानतः । तत्र को मोहः कः शोक एकत्वमनुपश्यतः’ (ई. उ. ७) इति शोकमोहाद्यसम्भवश्रुतेः । अविद्यासम्भवात्तदुपादानस्य कर्मणोऽप्यनुपपत्तिमवोचाम । ‘अमृतमश्नुते’ इत्यापेक्षिकममृतम् ; विद्याशब्देन परमात्मविद्याग्रहणे ‘हिरण्मयेन’ (ई. उ. १५) इत्यादिना द्वारमार्गयाचनमनुपपन्नं स्यात् । तस्मात् यथाव्याख्यात एव मन्त्राणामर्थ इत्युपरम्यते ॥

स्रोत · Source

Sanskrit Wikisource, page "ईशावास्योपनिषद्भाष्यम् शङ्कराचार्यकृतम्", revision 95118.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

🪷Upanishad
रुद्रहृदयोपनिषत्
Rudrahrdayopanishat

Sanskrit text from Sanskrit Wikisource.

🔱 Lord ShivaSanskrit5 min
🪷Upanishad
रुद्राक्षजाबालोपनिषत्
Rudrakshajabalopanishat

Sanskrit text from Sanskrit Wikisource.

🔱 Lord ShivaSanskrit6 min
🪷Upanishad
शिवसङ्कल्पोपनिषत् (शिवसङ्कल्पमन्त्राः)
Shivasankalpopanishat

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

🔱 Lord ShivaSanskrit5 min
🪷Upanishad
शिवसङ्कल्पोपनिषत्
Shivasankalpopanishat Vajasaneya

Sanskrit text attributed to (ऋषयः) from अप्रकाशिता उपनिषदः, आड्यार्पुस्तकालयः, 1938.

🔱 Lord ShivaSanskrit1 min
🙏Stotra
शिवभुजंगम्
Shiva Bhujangam

Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.

🔱 Lord ShivaSanskrit5 min
🪔Aarti
आरती श्री शिवजी की
Jai Shiv Omkara Aarti

शिव जी की आरती, जो सोमवार, महाशिवरात्रि और श्रावण मास की पूजा में गाई जाती है। ब्रह्मा, विष्णु और सदाशिव की एकता का स्मरण।

🔱 Lord ShivaHindi1 min
और उपनिषद्पुस्तकालयभगवान शिव पूजा बुक करें