यमुनास्तोत्ररत्नम्
स्तोत्र · Sanskrit · ⏱ 7 min
अन्य नाम · Also known as यमुनास्तोत्ररत्नम्
Sanskrit text from Sanskrit Wikisource.
नमोऽचिन्त्याद्भुताक्लिष्टज्ञानवैराग्यराशये ।
नाथाय मुनयेऽगाधभगवद्भक्तिसिन्धवे ।। १ ।।
तस्मै नमो मधुजिदङ्घ्रिसरोजतत्त्वज्ञानानुरागमहिमातिशयान्तसीम्ने ।
नाथाय नाथमुनयेऽत्र परत्र चापि नित्यं यदीयचरणौ शरणं मदीयं ।। २ ।।
भूयो नमोऽपरिमिताच्युतभक्तितत्त्वज्ञानामृताब्धिपरिवाहशुभैर्वचोभिः ।
लोकेऽवतीर्णपरमार्थसमग्रभक्तियोगाय नाथमुनये यमिनां वराय ।। ३ ।।
तत्त्वेन यश्चिदचिदीश्वरतत्स्वभावभोगापवर्गतदुपायगतीरुदारः ।
संदर्शयन्निरमिमीत पुराणरत्नं तस्मै नमो मुनिविराय पराशराय ।। ४ ।।
माता पिता युवतयस्तनया विभूतिः सर्वं यदेव नियमेन मदन्वयानां ।
आद्यस्य नः कुलपतेर्वकुलाभिरामं श्रीमत्तदङ्घ्रियुगलं प्रणमामि मूर्ध्ना ।। ५ ।।
यन्मूर्ध्नि मे श्रुतिशिरस्सु च भाति यस्मिन्नस्मन्मनोरथपथः सकलः समेति ।
स्तोष्यामि नः कुलधनं कुलदैवतं तत्पादारविन्दं अरविन्दविलोचनस्य ।। ६ ।।
तत्त्वेन यस्य महिमार्णवशीकराणुः शक्यो न मातुं अपि शर्वपितामहाद्यैः ।
कर्तुं तदीयमहिमस्तुतिं उद्यताय मह्यं नमोऽस्तु कवये निरपत्रपाय ।। ७ ।।
यद्वा श्रमावधि यथामति वाप्यशक्तः स्त्ॐयेवं एव खलु तेऽपि सदा स्तुवन्तः ।
वेदाश्चतुर्मुखमुखाश्च; महार्णवान्तः को मज्जतोरणुकुलाचलयोर्विशेषः ? ।। ८ ।।
किं चैष शक्त्यतिशयेन न तेऽनुकम्प्यः स्तोतापि तु स्तुतिकृतेन परिश्रमेण ।
तत्र श्रमस्तु सुलभो मम मन्दबुद्धेरित्युद्यमोऽयं उचितो मम चाब्जनेत्र ! ।। ९ ।।
नावेक्षसे त्यदि ततो भुवनान्यमूनि नालं प्रभो भवितुं एव कुतः प्रवृत्तिः ? ।
एवं निसर्गसुहृदि त्वयि सर्वजन्त्ƒः स्वामिन्! चित्रं इदं आश्रितवत्सलत्वं ।। १० ।।
स्वाभाविकानवधिकातिशयेशितृत्वं नारायण ! त्वयि न मृष्यति वैदिकः कः ? ।
ब्रह्मा शिवः शतमखः परमस्वराडित्येतेऽपि यस्य महिमार्णवविप्रषस्ते ।। ११ ।।
कश्श्रीः श्रियः ? परमसत्त्वसमाश्रयः कः ? कः पुण्डरीकनयनः ? पुरुषोत्तमः कः ? ।
कस्यायुतायुतैककलांशकांशे विश्वं विचित्रचिदचित्प्रविभागवृत्तं ।। १२ ।।
वेदापहारगुरुपातकदैत्यपीडापद्विमोचनमहिष्ठफलप्रदानैः ।
कोऽन्यः प्रजापशुपती परिपाति ? कस्य पादोदकेन स शिवः स्वशिरोधृतेन ? ।। १३ ।।
कस्योदरे हरविरिञ्चमुखः प्रपञ्चः ? को रक्षतीमं ? अजनिष्ट च कस्य नाभेः ? ।
क्रान्त्वा निगीर्य पुनरुद्गिरति त्वदन्यः कः ? केन वैष परवानिति शक्यशङ्कः ? ।। १४ ।।
त्वां शीलरूपचरितैः परमप्रकृष्टसत्त्वेन सात्त्विकतया प्रबलैश्च शास्त्रैः ।
प्रख्यातदैवपरमार्थविदां मतैश्च नैवासुरप्रकृतयः प्रभवन्ति बोद्धुं ।। १५ ।।
उल्लङ्घितत्रिविधसीमसमातिशायिसंभावनं तव परिब्रढिमस्वभावं ।
मायाबलेन भवतापि निगुह्यमानं पश्यन्ति केचिदनिशं त्वदनन्यभावाः ।। १६ ।।
यदण्डं अण्डान्तरगोचरं च यद्दशोत्तराण्यावरणानि यानि च ।
गुणाः प्रधानं पुरुषः परं पदं परात्परं ब्रह्म च ते विभूतयः ।। १७ ।।
वशी वदान्यो गुणवानृजुः शुचिर्मृदुर्दयालुर्मधुरः स्थिरः समः ।
कृती कृतज्ञस्त्वं अपि स्वभावतः समस्तकल्याणगुणामृतोदधिः ।। १८ ।।
उपर्युपर्यब्जभुवोऽपि पूरुषान्प्रकल्प्य ते ये शतं इत्यनुक्रमाथ् ।
गिरस्त्वदेकैकगुणाव्धीप्सया सदा स्थिता नोद्यमतोऽतिशेरते ।। १९ ।।
त्वदाश्रितानां जगदुद्भवस्थितप्रणाशसंसारविमोचनादयः ।
भवन्ति लीलाविधयश्च वैदिकास्त्वदीयगम्भीरमनोऽनुसारिणः ।। २० ।।
नमो नमो वाङ्मनसातिभूमये नमो नमो वाङ्मनसैकभूमये ।
नमो नमोऽनन्तमहाविभूतये नमो नमोऽनन्तदयैकसन्धिवे ।। २१ ।।
न धर्मनिष्ठोऽस्मि, न चात्मवेदी, न भक्तिमांस्त्वच्चरणारविन्दे ।
अकिञ्चनोऽनन्यगतिः शरण्य ! त्वत्पादमूलं शरणं प्रपद्ये ।। २२ ।।
न निन्दितं कर्म तदस्ति लोके सहस्रशो यन्न मया व्यधायि ।
सोऽहं विपाकावसरे मुकुन्द ! क्रन्दामि सम्प्रत्यगतिस्तवाग्रे ।। २३ ।।
निमज्जतोऽनन्त ! भवार्णवान्तश्चिराय मे कूलं इवासि लब्धः ।
त्वयापि लब्धं भगवन्निदानीं अनुत्तमं पात्रं इदं दयायाः ।। २४ ।।
अभूतपूर्वं मम भावि किं वा सर्वं सहे मे सहजं हि दुःखं ।
किं तु त्वदग्रे शरणागतानां पराभवो नाथ ! न तेऽनुरूपः ।। २५ ।।
निरासकस्यापि न तावदुत्सहे महेश ! हातुं तव पादपङ्कजं ।
रुषा निरस्तोऽपि शिशुः स्तनन्धयो न जातु मातुश्चरणौ जिहासति ।। २६ ।।
तवामृतस्यन्दिनि पादकङ्कजे निवेशितात्मा कथं अन्यदिच्छति ।
स्थितेऽरविन्दे मकरन्दनिर्भरे मधुव्रतो नेक्षुरकं हि वीक्षते ।। २७ ।।
त्वदङ्घ्रिं उद्दिश्य कदापि केनचिद्यथा तथा वापि सकृत्कुतोऽञ्जलिः ।
तदैव मुष्णात्यशुभाब्यशेषतः शुभानि पुष्णाति न जातु हीयते ।। २८ ।।
उदीर्णसंसारदवाशुशुक्षणिं क्षणेन निर्वाप्य परां च निर्वृतिं ।
प्रयच्छति त्वच्चरणारुणाम्बुजद्वयानुरागामृतसिन्धुशीकरः ।। २९ ।।
विलासविक्रान्तपरावरालयं नमस्यदार्तिक्षपणे कृतक्षणं ।
धनं मदीयं तव पादपङ्कजं कदा नु साक्षात्करवाणि चक्षुषा ? ।। ३० ।।
कदा पुनः शङ्खरथाङ्गकल्पकध्वजारविन्दाङ्कुशवज्रलाञ्छनं ।
त्रिविक्रम ! त्वच्चरणाम्बुजद्वयं मदीयमूर्धानं अलङ्करिष्यति ।। ३१ ।।
विराजमानोज्ज्वलपीतवाससं स्मितातसीसूनसमामलच्छविं ।
निमग्ननाभिं तनुमध्यमुन्नतं विशालवक्षस्स्थलशोभिलक्षणं ।। ३२ ।।
चकासतं ज्याकिणकर्कशैः शुभैश्चतुर्भिराजानुविलम्भिर्भुहैः ।
प्रियावतंसोत्पलकर्णभूषणश्लथालकाबन्धविमर्दशंसिभिः ।। ३३ ।।
उदग्रपीनांसविलम्बिकुण्डलालकावलीबन्धुरकन्बुकन्धरं ।
मुखश्रिया न्यक्कृतपूर्णनिर्मलामृतांशुबिम्बाम्बुरुहोज्ज्वलश्रियं ।। ३४ ।।
प्रबुद्धमुग्धाम्बुजचारुलोचनं सविभ्रमभ्रूलतं उज्ज्वलाधरं ।
शुचिस्मितं कोमलगण्डं उन्नसं ललाटपर्यन्तविलम्बितालकं ।। ३५ ।।
स्फुरत्किरीटाङ्गदहारकण्ढिकामणीन्द्रकाञ्चीगुणनूपुरादिभिः ।
रथाङ्गशङ्खासिगदाधनुर्वरैर्लसत्तुलस्या वनमालयोज्ज्वलं ।। ३६ ।।
चकर्थ यस्या भवनं भुजान्तरं तव प्रियं धाम यदीयजन्मभूः ।
जगत्समस्तं यदपाङ्गसंश्रयं यदर्थं अम्भोधिरमन्थ्यबन्धि च ।। ३७ ।।
स्ववैश्वरूप्येण सदानुभूतयाप्यपूर्ववद्विस्मयमादधानया ।
गुणेन रूपेण विलासचेष्टितैस्सदा तवैवोचितया तव श्रिया ।। ३८ ।।
तया सहासीनं अनन्तभोगिनि प्रकृष्टविज्ञानबलैकधामनि ।
फणामणिव्रातमयूखमण्डलप्रकाशमानोदरदिव्यधामनि ।। ३९ ।।
निवासशय्यासनपादुकांशुकोपधानवर्षातपवारणादिभिः ।
शरीरभेदैस्तव शेषतां गतैर्यथोचितं श्ष इतीरिते जनैः ।। ४० ।।
दासस्सखा वाहनं आसनं ध्वजो यस्ते वितानं व्यजनं त्रयीमयः ।
उपस्थितं तेन पुरो गरुत्मता त्वदङ्घ्रिसम्मर्दकिणाङ्कशोभना ।। ४१ ।।
त्वदीयभुक्तोज्जिहितशेषभोजिना त्वया निसृष्टात्मभरेण यद्यथा ।
प्रियेण सेनापतिना न्यवेदि तत्तथानुजानन्तं उदारवीक्षनैः ।। ४२ ।।
हताखिलक्लेशमलैः स्वभावतस्त्वदानुकूल्यैकरसैस्तवोचितैः ।
गृहीततत्तत्परिचारसाधनैर्निषेव्यमाणं सचिवैर्यथोचितं ।। ४३ ।।
अपूर्वनानारसभावनिर्भद्रप्रबद्धया मुग्धविदघलीलया ।
क्षणाणुवत्क्षिप्तपरादिकालया प्रहर्षयन्तं महिषीं महाभुजनं ।। ४४ ।।
अचिन्त्यदिव्याद्भुतनित्ययौवनस्वभावलावण्यमयामृतोदधिं ।
श्रियः श्रियं भक्तजनैकजीवितं समर्थं आपत्सखं अर्थिकल्पकं ।। ४५ ।।
भगवन्तं एवानुचरन्निरन्तरं प्रशान्तनिश्शेषमनोरथान्तरः ।
कदाहं ऐकान्तिकनित्यकिङ्करः प्रहर्षयिष्यामि सनाथजीवितः ।। ४६ ।।
धिगशुचिं अविनीतं निर्भयं मां अलज्जं परमपुरुष योऽहं योगिवर्याग्रगण्यैः ।
विध्शिवसनकाद्यैर्ध्यातुं अत्यन्तदूरं तव परिजनभावं कामये कामवृत्तः ।। ४७ ।।
अपराधसहस्रभाजनं पतितं भीमभवार्णवोदरे ।
अतगिं शरणागतं हरे कृपया केवलं आत्मसात्कुरु ।। ४८ ।।
अविवेकघनान्धदिङ्मुखे बहुधा सन्ततदुःखवर्षिणि ।
भगवन्भवदुर्दिने पथः स्खलितं मां अवलोकयाचियुत ।। ४९ ।।
न मृषा परमार्थं एव मे शृनु विज्ञापनं एकं अग्रतः ।
यदि मे न दयिष्यसे ततो दयनीयस्तव नाथ दुर्लभः ।। ५० ।।
तदहं त्वदृते न नाथवान्मदृते त्वं दयनीयवान्न च ।
विधिनिर्मितं एतं अन्वयं भगवान्पलय मा स्म जीहपः ।। ५१ ।।
वपुरादिषु योऽपि कोऽपि वा गुणतोऽसानि यथातथाविधः ।
तदयं तव पादपद्मयोरहं अद्यैव मया समर्पितः ।। ५२ ।।
मम नाथ यदस्ति योऽस्म्यहं सकलं तद्धि तवैव माधव ।
नियतस्वं इति प्रबुद्धधीरथ वा किं नु समर्पयामि ते ।। ५३ ।।
अवबोधितवानिमां यथा मयि नित्यां भवदीयतां स्वयं ।
कृपयैवं अनन्यभोग्यतां भगवन्भक्तिं अपि प्रयच्छ मे ।। ५४ ।।
तव दास्यसुखैकसङ्घिनां भवनेषु अस्त्वपि कीटजन्म मे ।
इतरावसथेषु मा स्म भूदपि मे जन्म चतुर्मुखात्मना ।। ५५ ।।
सकृत्त्वदाकारविलोकनाशया तृणीकृतानुत्तमभुक्तिमुक्तिभिः ।
महात्मभिर्मां अवलोक्यतां नय क्षणेऽपि ते यद्विरहोऽतिदुस्सहः ।। ५६ ।।
न देहं न प्राणान्न च सुखं अशेषाभिलषितं न चात्मानं नान्यत्कि अपि तव शेषत्वविभवाथ् ।
बहिर्भूतं नाथ क्षणं अपि सहे यातु शतधा विनाशं तत्सत्यं मधुमथन विज्ञापनं इदं ।। ५७ ।।
दुरन्तस्यानादेरपरिहरणीयस्य महतो निहीनाचारोऽहं नृपशुरशुभस्यास्पदं अपि ।
दयासिन्धो बन्धो निरवधिकवात्सल्यजलधे तव स्मारं स्मारं गुणगणं इतीच्छामि गतभीः ।। ५८ ।।
अनिच्छन्नप्येवं यदि पुनरितीच्छन्निव रजस्तमश्छन्नच्छद्मस्तुतिवचनभङ्गीं अरचयं ।
तथापीत्थंरूपं वचनं अवलम्ब्यापि कृपया त्वं एवैवम्भूतं धरणिधर मे शिक्षय मनः ।। ५९ ।।
पिता त्वं माता त्वं दयिततनयस्त्वं प्रियसुहृत्त्वं एव त्वं मित्रं गुरुरसि गतिश्चासि जगतां ।
त्वदीयस्त्वध्बृत्यस्तव परिजनस्त्वद्गतिरहं प्रपन्नश्चैवं सत्यहं अपि तवैवास्मि हि भरः ।। ६० ।।
जनित्वाहं वंशे महति जगति ख्यातयशसां शुचीनां युक्तानां गुणपुरुषतत्त्वस्थितिविदां ।
निसर्गादेव त्वच्चरणकमलाइकान्तमनसां अधोऽधः पापात्मा शरणद निमज्जामि तमसि ।। ६१ ।।
अमर्यादः क्षुद्रश्चलमतिरसूयप्रसवभूः कृतघ्नो दुर्मानी स्मरपरवशो वञ्चनपरः ।
नृशंसः पापिष्ठः कथं अहं इतो दुःखजलधेरपारादुत्तीर्णस्तव परिचरेयं चरणयोः ।। ६२ ।।
रघुवर यदभूस्त्वं तादृशो वायसस्य प्रणत इति दयालुर्यच्च चैद्यस्य कृष्ण ।
प्रतिभवं अपराद्धुर्मुग्ध सायुज्यदोऽभूर्वद किं अपदं आगस्तस्य तेऽसि क्षमायाः ।। ६३ ।।
ननु प्रपन्नस्सकृदेव नाथ तवाहं अस्मीति च याचमानः ।
तवानुकम्प्यस्स्मर्तः प्रतिज्ञानां मदेकवर्जं किं इदं व्रतं ते ।। ६४ ।।
Sanskrit Wikisource, page "यमुनास्तोत्ररत्नम्", revision 403201.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.