स्तवचिन्तामणिः
स्तोत्र · Sanskrit · ⏱ 20 min
अन्य नाम · Also known as स्तवचिन्तामणिः
Sanskrit text from Sanskrit Wikisource.
सुगिरा चित्तहारिण्या पश्यन्त्या दृश्यमानया ।
जयत्युल्लासितानन्द- महिमा परमेश्वरः । । १ । ।
यः स्फीतः श्रीदयाबोध- परमानन्दसम्पदा ।
विद्योद्द्योतितमाहात्म्यः स जयत्यपराजितः । । २ । ।
प्रसरद्बिन्दुनादाय शुद्धामृतमयात्मने ।
नमोऽनन्तप्रकाशाय शंकरक्षीरसिन्धवे । । ३ । ।
द्विष्मस्त्वां त्वां स्तुमस्तुभ्यं मन्त्रयामोऽम्बिकापते ।
अतिवाल्लभ्यतः साधु विश्वङ्नो धृतवानसि । । ४ । ।
संहृतस्पर्शयोगाय सम्पूर्णामृतसूतये ।
वियन्मायास्वरूपाय विभवे शम्भवे नमः । । ५ । ।
भिन्नेष्वपि न भिन्नं यच्छिन्नेष्वछिन्नं एव च ।
नमामः सर्वसामान्यं रूपं तत्पारमेश्वरं । । ६ । ।
प्रणवोर्ध्वार्धमात्रातोऽप्यणवे महते पुनः ।
ब्रह्माण्डादपि नैर्गुण्य- गुणाय स्थाणवे नमः । । ७ । ।
ब्रह्माण्डगर्भिणीं व्योम- व्यापिनः सर्वतोगतेः ।
परमेश्वरहंसस्य शक्तिं हंसीं इव स्तुमः । । ८ । ।
निरुपादानसम्भारं अभित्तावेव तन्वते ।
जगच्चित्रं नमस्तस्मै कलाश्लाघ्याय शूलिने । । ९ । ।
मायाजलोदरात्सम्यगुद्धृत्य विमलीकृतं ।
शिवज्ञानं स्वतो दुग्धं देह्येहि हरहंस नः । । १० । ।
षट्प्रमाणीपरिच्छेद- भेदयोगेऽप्यभेदिने ।
परमार्थैकभावाय बलिं यामो भवाय ते । । ११ । ।
अपि पश्येम गम्भीरां परेण ज्योतिषाभितः ।
उन्मृष्टतमसं रम्यां अन्तर्भव भवद्गुहां । । १२ । ।
नमस्तेभ्योऽपि ये सोम- कलाकलितशेखरं ।
नाथं स्वप्नेऽपि पश्यन्ति परमानन्ददायिनं । । १३ । ।
भगवन्भव भावत्कं भावं भावयितुं रुचिः ।
पुनर्भवभयोच्छेद- दक्षा कस्मै न रोचते । । १४ । ।
यावज्जीवं जगन्नाथ कर्तव्यं इदं अस्तु नः ।
त्वत्प्रसादात्त्वदेकाग्र- मनस्कत्वेन या स्थितिः । । १५ । ।
शाखासहस्रविस्तीर्ण- वेदागममयात्मने ।
नमोऽनन्तफलोत्पाद- कल्पवृक्षाय शम्भवे । । १६ । ।
वाङ्मनःकायकर्माणि विनियोज्य त्वयि प्रभो ।
त्वन्मयीभूय निर्द्वन्द्वाः कच्चित्स्यामापि कर्हिचिथ् । । १७ । ।
जगतां सर्गसंहार- तत्तद्धितनियुक्तिषु ।
अनन्यापेक्षसामर्थ्य- शालिनि शूलिने नमः । । १८ । ।
व्यतीतगुणयोगस्य मुख्यध्येयस्य धूर्जटेः ।
नामापि ध्यायतां ध्यानैः किं अन्यालम्बनैः फलं । । १९ । ।
नमो नमः शिवायेति मन्त्रसामर्थ्यं आश्रिताः ।
श्लाघ्यास्ते शाम्भवीं भूतिं उपभोक्तुं य उद्यताः । । २० । ।
कः पन्था येन न प्राप्यः का च वाङ्नोच्यसे यया ।
किं ध्यानं येन न ध्येयः किं वा किं नासि यत्प्रभो । । २१ । ।
अर्चितोऽयं अयं ध्यात एष तोषित इत्ययं ।
रसः स्रोतःसहस्रेण त्वयि मे भव वर्धतां । । २२ । ।
नमो निःशेषधीपत्रि- मालालयमयात्मने ।
नाथाय स्थाणवे तुभ्यं नागयज्ञोपवीतिने । । २३ । ।
अज्ञानतिमिरस्यैकं औषधं संस्मृतिस्तव ।
भव तत्तत्प्रदानेन प्रसादः क्रियतां मयि । । २४ । ।
नम ईशाय निःशेष- पुरुषार्थप्रसाधकः ।
प्रणन्तव्यः प्रणामोऽपि यदीय इह धीमतां । । २५ । ।
मग्नैर्भीमे भवाम्भोधौ निलये दुःखयादसां ।
भक्तिचिन्तामणिं शार्वं ततः प्राप्य न किं जितं । । २६ । ।
निरावरणनिर्द्वन्द्व- निश्चलज्ञानसम्पदां ।
ज्ञेयोऽसि किल केऽप्येते ये त्वां जानन्ति धूर्जटे । । २७ । ।
निर्गुणोऽपि गुणज्ञानां ज्ञेय एको जयत्यजः ।
निष्कामोऽपि प्रकृत्या यः कामनानां परं फलं । । २८ । ।
श्रीरत्नामृतलाभाय क्लिष्टं यत्र न कैः सुरैः ।
तत्क्षीरोददं ऐश्वर्यं तवैव सहजं विभो । । २९ । ।
नमो भक्त्या नृणां मुक्त्यै भवते भव तेऽवते ।
स्मृत्या नुत्या च ददते शम्भवे शं भवेऽभवे । । ३० । ।
सर्वज्ञः सर्वकृत्सर्वं असीति ज्ञानशालिनां ।
वेद्यं किं कर्म वा नाथ नानन्त्याय त्वयार्प्यते । । ३१ । ।
इच्छाया एव यस्येयत्फलं लोकत्रयात्मकं ।
तस्य ते नाथ कार्याणां को वेत्ति कियती गतिः । । ३२ । ।
ब्रह्मादयोऽपि तद्यस्य कर्मसोपानमालया ।
उपर्युपरि धावन्ति लब्धुं धाम नमामि तं । । ३३ । ।
अयं ब्रह्मा महेन्द्रोऽयं सूर्याचन्द्रमसाविमौ ।
इति शक्तिलता यस्य पुष्पिता पात्वसौ भवः । । ३४ । ।
भ्रमो न लभ्यते यस्य भ्रान्तान्तःकरणैरपि ।
दूरगैरपि यस्यान्तो दुर्गं अस्तं स्तुमो मृडं । । ३५ । ।
नमः स्तुतौ स्मृतौ ध्याने दर्शने स्पर्शने तथा ।
प्राप्तौ चानन्दवृन्दाय दयिताय कपर्दिने । । ३६ । ।
किं स्मयेनेति मत्वापि मनसा परमेश्वर ।
स्मयेन त्वन्मयोऽस्मीति मामि नात्मनि किं मुदा । । ३७ । ।
चिन्तयित्वापि कर्तव्य- कोटीश्चित्तस्य चापलाथ् ।
विश्राम्यन्भव भावत्क- चित्तानन्दे रमे भृशं । । ३८ । ।
सूक्ष्मोऽपि चेत्त्रिलोकीयं कलामात्रं कथं तव ।
स्थूलोऽथ किं सुदर्शो न ब्रह्मादिभिरपि प्रभो । । ३९ । ।
वाच्य एषां त्वं एवेति नाभविष्यदिदं यदि ।
कः क्लेशं देव वाग्जालेष्वकरिष्यत्सुधीस्तदा । । ४० । ।
क्रमेण कर्मणा केन कया वा प्रज्ञया प्रभो ।
दृश्योऽसीत्युपदेशेन प्रसादः क्रियतां मम । । ४१ । ।
नमो निरुपकार्याय त्रैलोक्यैकोपकारिणे ।
सर्वस्य स्पृहणीयाय निःस्पृहाय कपर्दिने । । ४२ । ।
अहो क्षेत्रज्ञता सेयं कार्याय महते सतां ।
ययानन्तफलां भक्तिं वपन्ति त्वय्यमी प्रभो । । ४३ । ।
महतीयं अहो माया तव मायिन्ययावृतः ।
त्वद्ध्याननिधिलाभेऽपि मुग्धो लोकः श्लथायते । । ४४ । ।
आरम्भे भव सर्वत्र कर्म वा करणादि वा ।
विश्वं अस्तु स्वतन्त्रस्तु कर्ता तत्रैकको भवान् । । ४५ । ।
त्रिगुणत्रिपरिस्पन्द- द्वन्द्वग्रस्तं जगत्त्रयं ।
उद्धर्तुं भवतोऽन्यस्य कस्य शक्तिः कृपाथवा । । ४६ । ।
दोषोऽपिदेव को दोषस्त्वां आप्तुं यः समास्थितः ।
गुणोऽपि च गुणः को नु त्वां नाप्तुं यः समास्थितः । । ४७ । ।
रागोऽप्यस्तु जगन्नाथ मम त्वय्येव यः स्थितः ।
लोभायापि नमस्तस्मै त्वल्लाभालम्बनाय मे । । ४७ । ।
अहो महदिदं कर्म देव त्वद्भावनात्मकं ।
आब्रह्मक्रिमि यस्मिन्नो मुक्तयेऽधिक्रियेत कः । । ४८ । ।
आरम्भः सर्वकार्याणां पर्यन्तः सर्वकर्मणां ।
तदन्तर्वृत्तयश्चित्रास्तवैवेशो धियः पथि । । ४९ । ।
यावदुत्तरं आस्वाद- सहस्रगुणविस्तरः ।
त्वद्भक्तिरसपीयूषान्नाथ नान्यत्र दृश्यते । । ५० । ।
उपसंहृतकामाय कामायतिं अतन्वते ।
अवतंसितसोमाय सोमाय स्वामिने नमः । । ५१ । ।
किं अशक्तः करोमीति सर्वत्रानध्यवस्यतः ।
सर्वानुग्राहिका शक्तिः शांकरी शरणं मम । । ५२ । ।
गुणातीतस्य निर्दिष्ट- निःशेषातिशयात्मनः ।
लभ्यते भव कुत्रांशे परः प्रतिनिधिस्तव । । ५३ । ।
निर्द्वन्द्वे निरुपाधौ च त्वय्यात्मनि सति प्रभो ।
वयं वञ्च्यामहेऽद्यापि माययामेयया तव । । ५४ । ।
अणिमादिगुणावाप्तिः सदैश्वर्यं भवक्षयः ।
अमी भव भवद्भक्ति- कल्पपादपपल्लवाः । । ५५ । ।
या या दिक्तत्र न क्वासि सर्वः कालो भवन्मयः ।
इति लब्धोऽपि कर्हि त्वं लप्स्यसे नाथ कथ्यतां । । ५६ । ।
नमः प्रसन्नसद्वृत्त- मानसैकनिवासिने ।
भूरिभूतिसिताङ्गाय महाहंसाय शम्भवे । । ५७ । ।
हृतोद्धततमस्तान्तिः प्लुष्टाशेषभवेन्धना ।
त्वद्बोधदीपिका मेऽस्तु नाथ त्वद्भक्तिदीपिका । । ५८ । ।
विसृष्टानेकसद्बीज- गर्भं त्रैलोक्यनाटकं ।
प्रस्ताव्य हर संहर्तुं त्वत्तः कोऽन्यः कविः क्षमः । । ५९ । ।
नमः सदसतां कर्तुं असत्त्वं सत्त्वं एव वा ।
स्वतन्त्रायास्वतन्त्राय व्ययैश्वर्यैकशालिने । । ६० । ।
त्रैलोक्येऽप्यत्र यो यावानानन्दः कश्चिदीक्ष्यते ।
स बिन्दुर्यस्य तं वन्दे देवं आनन्दसागरं । । ६१ । ।
अहो ब्रह्मादयो धन्या ये विमुक्तान्यसंकथं ।
नमो नमः शिवायेति जपन्त्याह्लादविह्वलाः । । ६२ । ।
निष्कामायापि कामानां अनन्तानां विधायिने ।
अनादित्वेऽपि विश्वस्य भोक्त्रे भव नमोऽस्तु ते । । ६३ । ।
स्तुमस्त्रिभुवनारम्भ- मूलप्रकृतिं ईश्वरं ।
लिप्सेरन्नोपकारं के यतः सम्पूर्णधर्मणः । । ६४ । ।
महत्स्वप्यर्थकृच्छ्रेषु मोहौघमलिनीकृताः ।
स्मृते यस्मिन्प्रसीदन्ति मतयस्तं शिवं स्तुमः । । ६५ । ।
प्रभो भवत एवेह प्रभुशक्तिरभङ्गुरा ।
यदिच्छया प्रतायेते त्रैलोक्यस्य लयोदयौ । । ६६ । ।
कुकर्मापि यं उद्दिश्य देवं स्यात्सुकृतं परं ।
सुकृतस्यापि सौकृत्यं यतोऽन्यत्र न सोऽसि भोः । । ६७ । ।
एष मुष्ट्या गृहीतोऽसि दृष्ट एष क्व यासि नः ।
इति भक्तिरसाध्माता धन्या धावन्ति धूर्जटिं । । ६८ । ।
स्तुमस्त्वां ऋग्यजुःसाम्नां शुक्रतः परतः परं ।
यस्य वेदात्मिकाज्ञेयं अहो गम्भीरसुन्दरी । । ६९ । ।
विधिरादिस्तथान्तोऽसि विश्वस्य परमेश्वर ।
धर्मग्रामः प्रवृत्तो यस्त्वत्तो न स कुतो भवेथ् । । ७० । ।
नमस्ते भवसम्भ्रान्त- भ्रान्तिं उद्भाव्य भिन्दते ।
ज्ञानानन्दं च निर्द्वन्द्वं देव वृत्वा विवृण्वते । । ७१ । ।
यस्याः प्राप्येत पर्यन्त- विशेषः कैर्मनोरथैः ।
मायां एकनिमेषेण मुष्णंस्तां पातु नः शिवः । । ७२ । ।
वैराग्यस्य गतिं गुर्वीं ज्ञानस्य परमां श्रियं ।
नैःस्पृह्यस्य परां कोटिं बिभ्रतां त्वं प्रभो प्रभुः । । ७३ । ।
ब्रह्मणोऽपि भवान्ब्रह्म कस्य नेशस्त्वं ईशितुः ।
जगत्कल्याणकल्याणं कियत्त्वं इति वेत्ति कः । । ७४ । ।
किं अन्यैर्बन्धुभिः किं च सुहृद्भिः स्वामिभिस्तथा ।
सर्वस्थाने ममेश त्वं य उद्धर्ता भवार्णवाथ् । । ७५ । ।
जयन्ति मोहमायादि- मलसंक्षालनक्षमाः ।
शैवयोगबलाकृष्टा दिव्यपीयूषविप्रुषः । । ७६ । ।
गायत्र्या गीयते यस्य धियां तेजः प्रचोदकं ।
चोदयेदपि कच्चिन्नः स धियः सत्पथे प्रभुः । । ७७ । ।
अष्टमूर्ते किं एकस्यां अपि मूर्तौ न नः स्थितिं ।
शाश्वतीं कुरुषे यद्वा तुष्टः सर्वं करिष्यसि । । ७८ । ।
वस्तुतत्त्वं पदार्थानां प्रायेणार्थक्रियाकरं ।
भवतस्त्वीश नामापि मोक्षपर्यन्तसिद्धिदं । । ७९ । ।
मुहुर्मुहुर्जगच्चित्रस्य्- -आन्यान्यां स्थितिं ऊहितुं ।
शक्तिर्या ते तया नाथ को मनस्वी न विस्मितः । । ८० । ।
दुष्करं सुकरीकर्तुं दुःखं सुखयितुं तथा ।
एकवीरा स्मृतिर्यस्य तं स्मरामः स्मरद्विषं । । ८१ । ।
जयन्ति गीतयो यासां स गेयः परमेश्वरः ।
यन्नाम्नापि महात्मानः कीर्यन्ते पुलकाङ्कुरैः । । ८२ । ।
भवानिव भवानेव भवेद्यदि परं भव ।
स्वशक्तिव्यूहसंव्यूढ- त्रैलोक्यारम्भसंहृतिः । । ८३ । ।
मन्त्रोऽसि मन्त्रणीयोऽसि मन्त्री त्वत्तः कुतोऽपरः ।
स मह्यं देहि तं मन्त्रं त्वन्मन्त्रः स्यां यथा प्रभो । । ८४ । ।
भारूपः सत्यसंकल्पस्त्वं आत्मा यस्य सोऽप्यहं ।
संसारीति किं ईशैष स्वप्नः सोऽपि कुतस्त्वयि । । ८५ । ।
तदभङ्गि तदग्राम्यं तदेकं उपपत्तिमथ् ।
त्वयि कर्मफलन्यास- कृतां ऐश्वर्यं ईश यथ् । । ८६ । ।
क्षमः कां नापदं हन्तुं कां दातुं सम्पदं न वा ।
योऽसौ स दयितोऽस्माकं देवदेवो वृषध्वजः । । ८७ । ।
मायामयमलान्धस्य दिव्यस्य ज्ञानचक्षुषः ।
निर्मलीकरणे नाथ त्वद्भक्तिः परमाञ्जनं । । ८८ । ।
निर्भयं यद्यदानन्द- मयं एकं यदव्ययं ।
पदं देह्येहि मे देव तूर्णं तत्किं प्रतीक्षसे । । ८९ । ।
अहो निसर्गगम्भीरो घोरः संसारसागरः ।
अहो तत्तरणोपायः परः कोऽपि महेश्वरः । । ९० । ।
नमः कृतकृतान्तान्त तुभ्यं मदनमर्दिने ।
मस्तकन्यस्तगङ्गाय यथायुक्तार्थकारिणे । । ९१ । ।
ऐश्वर्यज्ञानवैराग्य- धर्मेभ्योऽप्युपरि स्थितिं ।
नाथ प्रार्थयमानानां त्वदृते का परा गतिः । । ९२ । ।
त्वय्यनिच्छति कः शम्भो शक्तः कुब्जयितुं तृणं ।
त्वदिच्छानुगृहीतस्तु वहेद्ब्राह्मीं धुरं न कः । । ९३ । ।
हरप्रणतिमाणिक्य- मुकुटोत्कटमस्तकाः ।
नमेयुः कं परं कं वा नमयेयुर्न धीधनाः । । ९४ । ।
सर्वविभ्रमनिर्मोक- निष्कम्पं अमृतह्रदं ।
भवज्ज्ञानाम्बुधेर्मध्यं अध्यासीयापि धूर्जटे । । ९५ । ।
चित्रं यच्चित्रदृष्टोऽपि मनोरथगतोऽपि वा ।
परमार्थफलं नाथ परिपूर्णं प्रयच्छसि । । ९६ । ।
को गुणैरधिकस्त्वत्तस्त्वत्तः को निर्गुणोऽधिकः ।
इति नाथ नुमः किं त्वां किं निन्दामो न मन्महे । । ९७ । ।
कीर्तनेऽप्यमृतौघस्य यत्प्रसत्तेः फलं तव ।
तत्पातुं अपि कोऽन्योऽलं किं उ दातुं जगत्पते । । ९८ । ।
निःशेषप्रार्थनीयार्थ- सार्थसिद्धिनिधानतः ।
त्वत्तस्त्वद्भक्तिं एवाप्तुं प्रार्थये नाथ सर्वथा । । ९९ । ।
नमस्त्रैलोक्यनाथाय तुभ्यं भव भवज्जुषां ।
त्रिलोकीनाथतादान- निर्विनायकशक्तये । । १०० । ।
निःशेषक्लेशहानस्य हेतुः क इति संशये ।
स्वामिन्सोऽसीति निश्चित्य कस्त्वां न शरणं गतः । । १०१ । ।
भुक्त्वा भोगान्भवभ्रान्तिं हित्वा लप्स्ये परं पदं ।
इत्याशंसेह शोभेत शम्भौ भक्तिमतः परं । । १०२ । ।
नाथ स्वप्नेऽपि यत्कुर्यां ब्रूयां वा साध्वसाधु वा ।
त्वदधीनत्वदर्पेण सर्वत्रात्रास्मि निर्वृतः । । १०३ । ।
ज्योतिषां अपि यज्ज्योतिस्तत्र त्वद्धाम्नि धावतः ।
चित्तस्येश तमःस्पर्शो मन्ये वन्ध्यात्मजानुजः । । १०४ । ।
मन्ये न्यस्तपदः सोऽपि क्षेम्ये मोक्षस्य वर्त्मनि ।
मनोरथः स्थितो यस्य सेविष्ये शिवं इत्ययं । । १०५ । ।
स्थित्युत्पत्तिलयैर्लोक- त्रयस्योपक्रियास्विह ।
एकैवेश भवच्छक्तिः स्वतन्त्रं तन्त्रं ईक्षसे । । १०६ । ।
त्रिलोक्यां इह कस्त्रातस्त्रिताप्या नोपतापितः ।
तस्मै नमोऽस्तु ते यस्त्वं तन्निर्वाणामृतह्रदः । । १०७ । ।
कृत्रिमापि भवद्भक्तिरकृत्रिमफलोदया ।
निश्छद्मा चेद्भवेदेषा किंफलेति त्वयोच्यतां । । १०८ । ।
तच्चक्षुरीक्ष्यसे येन सा गतिर्गम्यसे यया ।
फलं तदज जातं यत्त्वत्कथाकल्पपादपाथ् । । १०९ । ।
श्रेयसा श्रेय एवैतदुपरि त्वयि या स्थितिः ।
तदन्तरायहृतये त्वं ईश शरणं मम । । ११० । ।
अहो स्वादुतमः शर्व- सेवाशंसासुधारसः ।
कुत्र कालकलामात्रे न यो नवनवायते । । १११ । ।
मुहुर्मुहुरविश्रान्तस्त्रैलोक्यं कल्पनाशतैः ।
कल्पयन्नपि कोऽप्येको निर्विकल्पो जयत्यजः । । ११२ । ।
मलतैलाक्तसंसार- वासनावर्तिदाहिना ।
ज्ञानदीपेन देव त्वां कदा नु स्यां उपस्थितः । । ११३ । ।
निमेषं अपि यद्येकं क्षीणदोषे करिष्यसि ।
पदं चित्ते तदा शम्भो किं न सम्पादयिष्यसि । । ११४ । ।
धन्योऽस्मि कृतकृत्योऽस्मि महानस्मीति भावना ।
भवेत्सालम्बना तस्य यस्त्वदालम्बनः प्रभो । । ११५ । ।
शुभाशुभस्य सर्वस्य स्वयं कर्ता भवानपि ।
भवद्भक्तिस्तु जननी शुभस्यैवेश केवलं । । ११६ । ।
प्रसन्ने मनसि स्वामिन्किं त्वं निविशसे किं उ ।
त्वत्प्रवेशात्प्रसीदेत्तदिति दोलायते जनः । । ११७ । ।
निश्चयः पुनरेषोऽत्र त्वदधिष्ठानं एव हि ।
प्रसादो मनसः स्वामिन्सा सिद्धिस्तत्परं पदं । । ११८ । ।
वचश्चेतश्च कार्यं च शरीरं मम यत्प्रभो ।
त्वत्प्रसादेन तद्भूयाद्भवद्भावैकभूषणं । । ११९ । ।
स्तवचिन्तामणिं भूरि- मनोरथफलप्रदं ।
भक्तिलक्ष्म्यालयं शम्भो भट्टनारायणो व्यधाथ् । । १२० । ।
विवृतिश्चात्र
तत्रभवत्स्तुतिसूक्तिकारप्रशिष्यमहामाहेश्वराचार्यवर्यश्रीमद-
भिनवगुप्तपादपद्ममधुपराजस्य राजानकक्षेमराजस्य
(पृष्ठम् १३१)
सद्विद्यानां संश्रये ग्रन्थविद्वद् -
व्यूहे ह्रासं कालवृत्त्योपयाते ।
तत्तत्सद्धर्मोद्दिधीर्षैकतान-
सत्प्रेक्षौजःशालिना कर्मवृत्त्यै ॥ १ ॥
श्रीमत्कश्मीराधिराजेन मुख्यै -
र्धर्मोद्युक्तैर्मन्त्रिभिः स्वैर्विवेच्य ।
प्रत्यष्ठापि ज्ञानविज्ञानगर्भ -
ग्रन्थोद्धृत्यै मुख्यकार्यालयो यः ॥ २ ॥
तत्राजीवं निर्विशद्भिर्मुकुन्द -
रामाध्यक्षत्वाश्रितैः सद्भिरेषः ।
पूर्त्या शुद्ध्या व्याख्यया संस्कृतः स्तात्
पूर्णो ग्रन्थः श्रेयसे सज्जनानाम् ॥ ३ ॥ तिलकम् ॥
श्रीशिवार्पणं समावेशनिर्वाणावहं च श्रोतृं - पाठकजनानां
भूयात् ॥
अयं ग्रन्थः
पंडित विश्वनाथ एंड सन्स
फोटोग्राफर्स प्रोप्रा - इटर्स इत्यादि
इत्येतैः स्वकीये
कश्मीर प्रताप स्टीम प्रेस श्रीनगर
इत्याख्याख्याते
मुद्रणायन्त्रे सम्मुद्रितः
स्तवचिन्तामणौ
द्वितीयपरिशिष्टम् ।
मूलश्लोकानां संक्षेपेण विषयार्थसंग्रहः ।
१ विकल्पमयवैखरीमध्यमाप्रशमनपूर्वकं
पश्यन्तीदशामुन्मज्जयतस्तद्व्याप्तिकामनाश्रितदशामपि
वेद्यत्वेनाभासयतः
परमानन्दात्मकपराद्वयप्रमातृतामुन्मीलयतः
स्वात्मपरमार्थपरमेश्वरस्य स्वरूपसमावेशविमर्शनम् ।
२ पूर्वोक्तस्वरूपस्यैव परमेश्वरस्य शक्तिप्राधान्येन स्तवनम् ।
३ सदाशिवेश्वरादिना वेद्यपर्यन्तेन पराद्वैतप्रथानुप्रविष्टेन
विश्वात्मना रूपेण प्रसरज्ज्ञानक्रियाशक्तेः प्रकाशात्मनो
नरप्रधानभगवत्स्वरूपस्य प्रहीभावेन विमर्शनम् ।
४ तत्तद्द्वेष्यस्तुत्याद्यवस्थास्वपि भगवदनुग्रहात्
तदभेदप्रथात्मिकाया विभूतेरासादनकथनम् ।
(पृष्ठम् १४०)
५ वासनाप्लोषयुक्त्यैवाख्यातिप्रशमनपूर्वकं
पाशक्षपणपूर्णस्वरूपप्रथनेन स्वात्मरूपमहेश्वरस्य
अनुग्राह्यानुग्रहसमावेशार्थनम् ।
६ वैशेषिकाभ्युपगतपरापरसामान्यव्यतिरिक्तसर्वसामान्य-
पूर्णाहन्तात्मकमहाचैतन्यरूपपारमेश्वरस्वरूपविमर्शनं
नमस्करणमुखेन ।
७ अनुपलभ्यमूर्तित्वादतिसुसूक्ष्मत्वेऽपि
शक्त्यण्डपर्यन्तसमस्तजगद्व्यापकस्य
चित्प्रकाशधर्मभगवत्स्वरूपस्याभिवन्दनम् ।
८ विश्वसृष्टिसंहारात्मकहानसमादानधर्मत्वेन
उपचरितहंसस्वरूपस्य परमेश्वरस्यैवान्तरभेदेन
धृतब्रह्माण्डगर्भोन्मनारूपहंसीशक्तिपरामर्शनम् ।
९ उपादानादिकारणासत्त्वे शून्यभुव्येव
जगच्चित्ररचनात्मातिदुर्घटकर्मणोऽव्याहतस्वातन्त्र्यपरमेश्वरविष-
यस्वात्मसमावेशनम् ।
१० मायासंपर्करहितत्वेन स्वच्छशिवज्ञानस्य परमेश्वराअत्
प्रार्थनम् ।
११ मेयपदे प्रमाणगम्यत्वेऽपि वस्तुतोऽभेदरूपतया
प्रमाणव्यापारातीताय परमेश्वराय
शरीरप्राणपुर्यष्टकादिसमर्पणरूपबलिनिवेदनम् ।
(पृष्ठम् १४१)
१२ गाम्भीर्यादिगुणतया दुर्बोधायाः
शुद्धप्रकाशप्रशमिताख्यातितिमिरायाः
पारमेश्वरमायाशक्तेर्दर्शनाकांक्षणम् ।
१३ भक्त्युद्रेकवशात् स्वप्नेऽपि
साकारपरमेश्वरप्रणामतत्परेभ्यः प्रणमनम् ।
१४ पारमेश्वरं स्वरूपं प्रत्यवम्रष्टुं
जन्ममरणोन्मूलनशक्ताया
रुचेर्बुद्धिमतामत्यभिलषणीयतातिदेशनम् ।
१५ परमेश्वरप्रसादात् यावज्जीवितावस्थं तदेकाग्रमनस्कतया
स्थितेः प्रार्थनम् ।
१६ अनन्तशाखाविस्तीर्णवेदागममयत्वेन
तत्तत्फलोत्पादककल्पवृक्षरूपशंभोरभिवन्दनम् ।
१७ वाङ्मनःकायनिर्वर्त्यसमस्तकर्मणो भगवति समर्पणात्
तत्तादात्म्येन तद्वन्निर्द्वन्द्वताया आशंसनम् ।
१८ जगद्विषयकसृष्टिसंहारादिनियोगेषु
निजस्वातन्त्र्यशालिताप्रशंसितशंभवे प्रणमनोक्तिः ।
१९ निस्त्रैगुण्यमहाप्रकाशात्मभगवन्नाममात्रचिन्तनेनाभीष्टा-
वाप्तेरन्यालम्बनानां ध्यानानां निष्प्रयोजनताकथनम् ।
२० भगवद्वाचकमहामन्त्रसत्तानुप्रविष्टानां
शांभवविभूतिचमत्करणोद्युक्तताकथनम् ।
२१ सर्वस्यैव कायवाङ्मनोविषयस्य भगवन्मयत्वात्
भक्तिमतामप्रयासमेव भगवत्स्वरूपलाभकथनम् ।
(पृष्ठम् १४२)
२२ भगवद्विषयकस्य
शरीरमनोवाङ्निर्वर्त्यार्चनध्यानादिरामस्योत्तरोत्तरवर्धनाशं-
सनम् ।
२३ आकृतिमत्त्वेऽपि तात्त्विकस्वरूपापरित्यागात् सर्वसंविदां
स्थिरपूर्णाहन्तात्मनि विश्रान्तिप्रदस्य भगवतोऽभिवन्दनम् ।
२४ अज्ञानरूपतिमिरप्रशमोपायभूतस्वस्मृतिप्रदानोत्तरं
प्रहविषयनैर्मल्याश्रयणप्रार्थनम् ।
२५ भोगापवर्गसंसाधकभगवत्प्रणामस्यापि प्रणम्यतया
समाश्रयणीयत्वकथनपूर्वकं भगवदभिवन्दनम् ।
२६ दुरुत्तरभवाम्भोधिमग्नानां तदुत्तरणोपायभूतायाः
सर्वाभीष्टप्रदभक्तेर्भगवत एवासादनोत्तरं
भोगमोक्षात्मसंपूर्णेष्टावाप्तेरनुशासनम् ।
२७ केषांचिदेव लोकोत्तराणां भगवत्तत्त्वज्ञानाद
ख्यात्यपगमोत्तरं निश्चलपरमाद्वैतज्ञानलाभानुशंसनम्
२८ निर्गुणस्य निष्कामस्यापि भगवतो
ज्ञानात्मकतद्गुणावभासिनां भक्तानां ज्ञेयतया
तत्तद्भोगमोक्षात्मपार्यन्तिकफलतया सर्वोत्कृष्टत्वेन परामर्शनम् ।
२९ श्रीरत्नामृतादिनिदानभूतक्षीरोददानेन
भगवतोऽसामान्यैश्वर्यप्रकर्षकथनम् ।
३० नुतिस्मृत्यात्मानुत्तरोपायभक्तिमात्रेण भोगापवर्गफलदात्रे
परमेश्वराय प्रणमनम् ।
(पृष्ठम् १४३)
३१ सर्वज्ञः सर्वकृत्सर्वमयश्च परमेश्वर एव
इतीदृशज्ञानशालिनां सर्वं ज्ञेयं कार्यं च भगवता
वैश्वात्म्येनानुभाव्यते इत्यनुशासनम् ।
३२ विश्वस्य यदीयेच्छामात्रेण निष्पत्तिस्तस्य भगवतः कार्यज्ञानं
ब्रह्मादीनामपि दुरूहमिति निर्देशनम् ।
३३ तत्तत्प्रयत्नशतानुष्ठानेनापि
ब्रह्मादिकारणानामप्यलभ्यधाम्नः परमेश्वरस्य प्रणमनम् ।
३४ ब्रह्मादयोऽपि यच्छक्तिविकासभङ्गिभूताः
तस्मात्परमेश्वरात्पालनार्थनम् ।
३५ परमेश्वरस्य महाव्यापकतया दुर्ज्ञेयत्व-
दुष्प्राप्यत्वकथनमुखेन स्तवनम् ।
३६ भक्तिशालिनां स्तुतिस्मृत्याद्यवस्थासु
तदभेदावष्टम्भमयताधिगमात् तत्कालतः
परमानन्दस्फारफलोद्भावकाय परमेश्वराय नमस्करणम् ।
३७ सृष्ट्यादिकारिपरिमितब्रह्मादिपदविषयकस्मयपरित्यागात्
भक्तानां भगवत्स्वरूपप्रत्यभिज्ञावशोन्मिषितसर्वाहंभाव-
रूपमहास्मयग्रहणेन परिपूर्णतया स्फुरणानुशासनम् ।
३८ भक्तिशालिनां भगवच्चैतन्यानन्दविश्रान्त्या
विकल्पात्मकव्युत्थानदशाया अपि समाधिरसपरिप्लुतताकथनम् ।
(पृष्ठम् १४४)
३९ अतिसूक्ष्मरूपत्वे सर्वस्यास्त्रिलोक्यास्तत्कलामात्रत्वेन
दर्शनात्, स्थूलरूपत्वे ब्रह्मादिभिरपि दुर्लक्ष्यत्वात्, सर्वथैव
अपरिच्छेद्यमूर्तेर्भगवतस्तात्त्विकरूपविषयातर्क्यताया भङ्ग्या
प्रतिपादनम् ।
४० सर्वशास्त्राणां शब्दराशिशरीरतात्त्विकपरमेश्वरस्वरूपप्रति-
पादनतात्पर्यसत्तया प्रेक्षावतां प्रवृत्तिविषयत्वानुकीर्तनम् ।
४१ तात्त्विकानायासयादृशक्रमकर्मबुद्ध्यादिना
परमेश्वरज्ञानविषयोपदेशात्मप्रसादाभ्यर्थनम् ।
४२ स्वयमनुपकार्यत्वे विश्वोपकारकतया निःस्पृहत्वे
सर्वस्पृहणीयतया लोकोत्तरोत्कर्षशालिभगवतोऽभिवन्दनम् ।
४३ अपरिच्छिन्नपारमेश्वरस्वरूपप्राप्तिफलकभक्त्यधिष्ठान-
भूतायाः क्षेत्रज्ञतायाः सामान्योक्त्या श्लाघनम् ।
४४ भगवत्स्वरूपनिधिप्रापिकायां भक्तौ विमुखानां
दुरतिक्रमभगवन्माययैव व्यामोहितताप्रतिपादनम् ।
४५ सर्वत्र परमेश्वरस्यैव मुख्यं कर्तृत्वमन्येषां तु
तदुत्थापिततत्तदभिमानमात्रसतत्त्वमिति प्रतिपादनं स्तुतिमुखेन ।
४६ गुणत्रयकार्यभूतसुखदुःखादिद्वन्द्वमग्नजगदुद्धरणाय
ऋते परमेश्वरमन्यस्य शक्तिः कृपा वा नास्तीति प्रतिपादनम् ।
(पृष्ठम् १४५)
४७ भगवदैक्यभावनाभावाभावयोरेव गुणिनां
गुणवत्तया दुष्टानां दोषवत्तया निदर्शनम् ।
४७ (२) सर्वथान्यविषये त्यागप्रार्थनोत्तरं भगवद्विषययोरेव
रागलोभयोरप्यभ्यर्थनम् ।
४८ स्वर्गफलकाग्निष्टोमाद्यधिकारिनियमनवैशिष्ट्येन मुक्तिफलके
निरायासभगवद्भावनात्मके कर्मणि सर्वस्य
जन्तुमात्रस्याधिकारानुशासनम् ।
४९ भोगापवर्गफलकसग्रस्तकर्मणामादिमध्यावसानेषु
भगवत्संविल्लग्नत्वादेशनम् ।
५० अतिसेवनाद्वैरस्यावहेतरास्वादनीयविषयवैशिष्ट्येन
भगवद्भक्तिसुधाया
एवोत्तरोत्तरसेवनान्नवनवचमत्कारप्रदत्वादुत्कृष्टमहिमादेशनम् ।
५१ कामसंहरणादिविश्वातिशायिकार्यवैचित्र्यकारितया
आकृतिमत्त्वेऽपि अतिदुर्घटैश्वर्यशालिपरमेश्वरविषयप्रणमनम् ।
५२ मायाव्यामोहेनास्वातन्त्र्यापत्त्या किंचित्कर्तुमशक्तजन्तुवर्गस्य
तत्क्षणाच्छक्त्यापादिपारमेषानुग्रहशक्तेरेव शरणाख्यानम् ।
५३ स्वतन्त्रचिदेकमूर्तेः परमेश्वरस्य सर्वत्र
निष्प्रतिद्वन्द्विताकथनम् ।
(पृष्ठम् १४६)
५४ भगवदात्मकत्वान्निरस्तसमस्तोपाधीनां जीवानां
मोहापादितया मायायाः प्रभावातिशयद्योतनम् ।
५५ अणिमादिसिद्ध्यवाप्त्यचलैश्वर्याधिगमभवविरतिफलानां
भगवद्भक्तिकल्पपादपस्यैव प्रभवत्वादेशनम् ।
५६ सर्वदेशकालव्यापकतया लब्धेऽपि भगवत्स्वरूपे
सूक्ष्मतमदेहादिसंस्कारगलनाय तदात्मसाद्भावस्य
पुनाराशंसनम् ।
५७ सन्मानसनिवासि- भूतिसिताङ्गमहाहंसरूपाय शंभवे
पुनरपि भक्तिभरेण नमस्करणम् ।
५८ अशेषतमोऽपहरणभवकदर्थनेन्धनदाहभगवत्स्वरूप-
भूतमहाप्रकाशननिदानभगवद्भक्तिदीपिकाया अभ्यर्थनम् ।
५९ भगवत एव विश्वसर्जनादिनाटकप्रस्तावनोत्तरं
तत्संहरणात्मनिर्वहणकृत्यक्षमकवितानुशासनम् ।
६० सदसतोरसत्त्वसत्त्वसंपादनस्वतन्त्रस्य
जगदुत्पत्तिविनाशनैश्वर्यशालिनो भगवतोऽभिवन्दनम् ।
६१ आनन्दसागरात्मभगवतो
विश्ववर्तियावन्मात्रानन्दस्यैकविन्दुरूपकथनोत्तरम् नमस्करणम् ।
६२ भगवद्वाचकमहामन्त्रविमर्शनैकतानतया ब्रह्मादीनां
धन्यत्वानुशासनम् ।
(पृष्ठम् १४७)
६३ स्वयं निरीहस्यापि भक्तेष्टसंपादकतया, अद्वयात्मत्वेऽपि
भोग्यभूतविश्वचमत्कर्त्रे भगवतेऽभिवन्दनम् ।
६४ सर्वकारणकारणाद्भगवत एव ब्रह्मादिकीटान्तानां
सर्वेष्टसिद्ध्याप्त्यावेदनम् ।
६५ निश्चेतुमशक्यजगद्विचारादिप्रयोजनसंकटेषु
मायास्फारमलिनीकृताया बुद्धेः तत्स्मरणमात्रेण
प्रसादाधिगमात्तत्त्वज्ञानसामर्थ्यानुशासनम् ।
६६ इच्छामात्रेणैव विश्वोदयप्रलयकृत्सामर्थ्यस्य भगवत
एवाभङ्गुरप्रभुशक्त्यावेदनम् ।
६७ भगवदभेदभावनासत्तासत्तयोस्तदुद्देशेन विहितस्य
निषिद्धस्यापि सुकृतता, तदनुद्देशेन विहितस्य सुकर्मणश्च दुष्कृतता-
इत्येवमनुशासनम् ।
६८ सततोदितभगवत्समावेशात्मभक्तिरसास्वादरूपद्रविणयुतानां
भगवत्स्वात्मीकरणसाक्षात्करणादिविकल्पैः
परामर्शनाद्धन्यत्वनिर्देशनम् ।
६९ परमानन्दविश्रान्तिप्रदवेदात्माज्ञानियोक्तुः, तथा
तदृगादिवेदत्रयपरामर्शनीयतेजोरूपादप्युत्तीर्णस्य परमेश्वरस्य
स्तवनम् ।
७० परमेश्वरस्यैव विश्ववर्तिवेदोदितविधिनिषेधात्मविचित्रस्वभाव-
परिस्पन्दप्रवर्तकत्वप्रतिपादनम् ।
(पृष्ठम् नो. १४८, १४९ इस् ंइस्सिन्ग्)
(पृष्ठम् १५०)
८५ स्वात्मनः प्रकाशैकात्मसत्यसंकल्पभगवत्स्वरूपाभि-
न्नतामनुभूय संसारित्वस्य स्वप्नकल्पतयाप्यसंभवत्ताकथनम् ।
८६ यत्तद्भेदबुद्ध्यपगमोत्तरं भगवति
निखिलकर्मतत्फलसंन्यासिना-मतिश्लाध्यैश्वर्यभागित्वानुशासनम् ।
८७
सर्वापदपहरणसर्वसंपद्दानसमर्थभगवद्वाल्लभ्याधिगम्
ए भक्तानां स्वात्मश्लाघनम् ।
८८ मायाव्याध्यन्धीकृतज्ञानचक्षुषः
पूर्णप्रथानयनात्मारोग्या-पादिभगवद्भक्तेः परमाञ्जनतया
निरूपणम् ।
८९ गाढोत्कण्ठावशात्क्षणमात्रासहनविरावणोत्तरं
निर्भयानन्दाद्-व्याव्ययभगवत्पदाधिगमाभ्यर्थनम् ।
९० ब्रह्मादिभिरपि दुस्तरस्य गभीरदुःखमयभवसागरस्य
तात्पर्येण भगवदुपासत्तेस्तरणोपायतयाशंसनम् ।
९१ जगद्विघातदुर्मदकालकामयोर्निग्रहणेन, पतितपावनतया
जगदुपकर्त्र्या गङ्गायाः शिरोधृत्या च, आकारधारित्वे भगवत एव
यथोचितकारिताशंसनम् ।
९२
ब्रह्मादिवर्त्यैश्वर्यादिपदचतुष्कोत्कृष्टशुद्धचिदात्मस्थित्यर्थिन
अं भगवत एव तद्दातृतया परायणानुशासनम् ।
(पृष्ठम् १५१)
९३ भगवदनिच्छया ब्रह्मादीनामपि
तृणकुब्जीकरणासामर्थ्यस्य, तथा
तदिच्छानुगृहीतकीटादेरपिब्राह्मपदोद्वहनसामर्थ्यस्य निर्देशनम् }
९४ महेश्वरप्रणामासक्त्यात्मामूल्यरत्नभरितमुकुटोन्नतशिर-
स्कतया तत्त्वावबोधाक्षयद्राविणानां देवेष्वपि
स्वप्रणतसंपादनसामर्थ्यसंभूत्यनुशासनम् ।
९५ सर्वमोहत्यागोत्तरं
प्रकाशात्मकभगवद्विमर्शानन्दस्वातन्त्र्यशक्त्यासादनामृताशंस
नम् ।
९६ चित्रदृष्टमनोरथोल्लिखितस्यातात्त्वित्वेऽपि भगवदाकृतिमात्रस्य
भक्तजनसर्वेष्टसंपत्प्रदातृत्वकथनम् ।
९७ परमेश्वरादन्यस्य गुणाधिक्यादर्शनात् तथा
नैर्गुण्यादर्शनाच्च पक्षद्वयव्याजस्तुतिनिन्दयोः
पर्यवसानानिश्चयनाख्यानम् ।
९८ भगवत्कीर्तनजन्यामृतास्वादनेऽपि अन्यस्य
देवादेरसामर्थ्यसूचनोत्तरं भगवत एव
तदमृतदानसामर्थ्यसूचनम् ।
९९ इतरकामानभीप्सया सर्वेष्टासिद्धिनिधेर्भगवतः
परसिद्धिलाभात्मतदेकान्तभक्त्याशंसनम् ।
१०० स्वभक्तेभ्यः
स्वात्मैकप्रथनात्मत्रैलोक्यस्वाम्यदानेऽनर्गलस्वातन्त्र्यौदार्यभगवत्
ओऽभिवन्दनम् ।
(पृष्ठम् १५२)
१०१ सर्वदुःखापहरणहेतुः कः ! इति संदिह्य परमेश्वर एव
तादृगिति निश्चिनुतां तच्छरणताकथनम् ।
१०२ भगवद्भक्तिमतामेव
योगप्रभावाकृष्टसांसारिकभोगोपभोगोत्तरमख्यात्यात्मभवभ्रान्त्
इं हित्वा परपदावाप्त्याशंसनौचित्यानुशंसनम् ।
१०३ भगवदद्वयात्मतया तदायत्तानां मोहमयीषु
स्वप्नाद्यवस्थास्वपि कृतस्य यत्तत्पुण्यापुण्यात्मकर्मणः
परानन्दफलजनकतावेदनम् ।
१०४ परप्रकाशात्मभगवद्धामनिष्ठचित्तस्य
तमःसपर्कात्यन्ताभावकथनम् ।
१०५ परमशिवसेवोत्साहाय कृतमनोरथमात्रस्यापि मोक्षपदे
पदन्यासानुशासनम् ।
१०६ नानाभोगासञ्जनात्मस्थित्या,
यथोचितशरीरभवनजननात्मोत्पत्त्या
भोगपरम्परानुषङ्गश्रान्तानां विश्रान्तिदानायेत्कालं
संहारात्मलयेन च जगदुकरणे पारमेशाद्वयशाक्तेः
परमस्वातन्त्र्यावेदनम् ।
१०७ आध्यात्मिकाधिदैविकाधिभुतिकात्मत्रितापतापितसमस्तप्राणिनां
तापशमनामृहूदतानिरूपणोत्तरं भगवतोऽभिवन्दनम् ।
(पृष्ठम् १५३)
१०८
सव्याजपूजाध्यानजपादिनिर्वर्त्यभगवद्भक्तेर्मोक्ष-
फलजनकत्वानुवादोत्तरं निर्व्याजभगवदनुरागोच्छलिततत्समावेशोप-
लक्षितभक्तेरनिर्वचनीयफलत्वेनापरिमेयफलत्वसूचनम् ।
१०९ चक्षुषो भगवल्लिङ्गादिप्रेक्षणे, गतेश्च
भगवत्पूजादिस्थानगमने,
भगवत्कथात्मसर्वेष्टप्रदकल्पापादपजन्यफलस्य च
शब्दार्थद्वारा सफल्यमावेद्य, ज्ञानस्य
भगवत्स्वरूपज्ञापकतया, योगादिगतेश्च भगवत्पदप्रापकतया
सर्वसंपत्प्रदकल्पपादपरूपभगवत्स्वरूपचर्चायाः
समुद्भवत्परानन्दविकासात्मकफलस्य च श्लाघ्यसाफल्यावेदनम् ।
११० निखिलैश्वर्याप्त्यात्मश्रेयसामुत्कृष्टश्रेयोभूतचिदानन्दघन-
विश्रान्त्यै मध्यत उद्भवद्भगवदख्यात्यात्मान्तरायध्वंसाय
भगवच्छरणताभ्यर्थनम् ।
१११ उत्तरोत्तरास्वादने नवनवचमत्कारजनकतया क्षणमपि
त्यक्तुमशक्यस्य भगवद्भक्त्यमृतरसस्याशंसनम् ।
११२ तत्तत्प्रमातृप्रमेयाभाससंयोजनवियोजनक्रमेण
रुद्रक्षेत्रादित्रैलोक्यं कल्पनाशतैरनवरतं कल्पयतोऽपि भगवतो
निर्विकल्पावस्थया स्थित्यावेदनम् ।
(पृष्ठम् १५४)
११३ त्रिमलात्मतैलमलिनसंसारवासनावर्तिदाहितत्त्वाव-
बोधात्मदीपावलम्बनोत्तरं परमेशसंनिधौ
स्वोपस्थितिक्षणाशंसनम् ।
११४ भगवदनुग्रहेणैव प्रक्षीणपूर्वतनकुत्सितसंस्कारे चित्ते
क्षणमात्रमपि परमेश्वराधिष्ठानस्य
स्वाभीष्टसंपादकत्वानुशासनम् ।
११५ भगवदाश्रितजनस्यानुत्तरधन्यत्वकृतकृत्यत्वमहत्त्वादि-
गर्वाणां वास्तवशोभित्वावेदनम् ।
११६ परमेश्वरस्य मिश्रशुभाशुभफलजनकत्वं, तद्भक्तेस्तु
शुद्धोत्कृष्टशुभफलजनकत्वमनूद्य भक्तिमतां
बहुमानमान्यतावेदनम् ।
११७ - १८ किं मलापगमेन प्रसन्नं मनो भगवताधिष्ठीयते, उत
भगवदधिष्ठानेनमलापगमात् प्रसन्नतामासादयेत् ! इति
शङ्कनपूर्वकं भगवदधिष्ठित्त्यैव मलहान्या प्रसन्नमनसः
सर्वासिद्ध्याप्तिपरपदासादनानुशासनम् ।
११९ वाङ्मनः कर्ममायानां भगवदनुग्रहासादनोत्तरं
भगवद्भक्तिभूषणभूषितत्वाभ्यर्थनम् ।
१२० ग्रन्थकृतः प्रसिद्धप्रभावस्वनामोदीरणोत्तरं स्वकृतग्रन्थस्य
भगवत्समावेशात्मानुत्तरैश्वर्यफलप्रसवतया
(पृष्ठम् १५५)
चिन्तामण्यभिख्यापनेनात्यन्तोपादेयतानिर्देशनम् ।
इति स्त्वचिन्तामणौ ग्रन्थप्रकाशक० पं० मुकुन्दराम शास्त्रिणा
विरचितः प्रतिश्लोकं प्रतिपादितार्थसंक्षेपः समाप्तः ॥
द्वितीयपरिशिष्टभागश्च समाप्तः ॥
Sanskrit Wikisource, page "स्तवचिन्तामणिः", revision 417945.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.
सम्बन्धित पाठ · Related reading
Sanskrit text attributed to आदिशङ्कराचार्यः from The Works of Sri Sankaracharya, Volume 17 (Stotras, Vol. 1), Sri Vani Vilas Press, 1910.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.
Sanskrit text from Sanskrit Wikisource.