🙏

श्रीविष्णो: षोडशनामस्तोत्रम्

Shrivishno Shodasha Namastotram

स्तोत्र · Sanskrit · ⏱ 1 min

अन्य नाम · Also known as श्रीविष्णो: षोडशनामस्तोत्रम्

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

श्रीविष्णोः षोडशनामस्तोत्रम् ।

श्रीगणेशाय नमः॥

औषधे चिन्तयेद्विष्णुं भोजने च जनार्दनम् ।
शयने पद्मनाभं च विवाहे च प्रजापतिम् ॥१॥

युद्धे चक्रधरं देवं प्रवासे च त्रिविक्रमम् ।
नारायणं तनुत्यागे श्रीधरं प्रियसंगमे ॥२॥

दुःस्वप्ने स्मर गोविन्दं संकटे मधुसुदनम् ।
कानने नारसिंहं च पावके जलशायिनम् ॥३॥

जलमध्ये वराहं च पर्वते रघुनन्दनम् ।
गमने वामनं चैव सर्वकार्येषु माधवम् ॥४॥

षोडशैतानि नामानि प्रातरुत्थाय यः पठेत् ।
सर्वपापविनिर्मुक्तो विष्णुलोके महीयते ॥५॥

इति श्रीविष्णोः षोडशनामस्तोत्रं संपूर्णम्॥

स्रोत · Source

Sanskrit Wikisource, page "श्रीविष्णो: षोडशनामस्तोत्रम्", revision 404353.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालय