🙏

श्रीवेंकटेशप्रपत्तिः

Shrivenkatesha Prapatti

स्तोत्र · 🪷 भगवान विष्णु · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as श्रीवेंकटेशप्रपत्तिः

Sanskrit text attributed to प्रातिवाधि भयङ्करम् अन्नङ्गराचार्यः from श्रीवेङ्कतेशकाव्यकलापः, तिरुमलैतिरुपतिदेवस्थानमुद्रणालयः, तिरुपति, 1943.

अक्षर का आकार

ईशानां जगतोऽस्य वेंकटपतेर्विष्णोः परां प्रेयसीं
तद्वक्षस्थलनित्यवासरसिकां तत्क्षान्तिसंवर्धिनीम् ।
पद्मालंकृतपाणिपल्लवयुगां पद्मासनस्थां श्रियं
वात्सल्यादिगुणोज्ज्वलां भगवतीं वन्दे जगन्मातरम् ॥

श्रीमन् कृपाजलनिधे कृतसर्वलोक
सर्वज्ञ शक्त नतवत्सल सर्वशेषिन् ।
स्वामिन् सुशील सुलभाश्रितपारिजात
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ २ ॥

आनू पुरार्पितसुजातसुगन्धिपुष्प-
सौरभ्यसौरभकरौ समसन्निवेशौ
सौम्यौ सदानुभवनेऽपि नवानुभाव्यौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ३ ॥

सद्यो विकासिसमुदित्वरसान्द्रराग-
सौरभ्यनिर्भरसरोरुहसाम्यवार्ताम् ।
सम्यक्षु साहसपदेषु विलेखयन्तौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ४ ॥

रेखामयध्वजसुधाकलशातपत्र-
वज्रांकुशाम्बुरुहकल्पकशङ्खचक्रेः ।
भव्यैरलंकृततलौ परतत्त्वचिह्नैः
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ५ ॥

ताम्रोदरद्युतिपराजितपद्मरागौ
बाह्यैर्महोभिरभिभूतमहेन्द्रनीलौ ।
उद्यन्नखांशुभिरुदस्तशशांकभासौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ६ ॥

सप्रेमभीति कमलाकरपल्लवाभ्यां
संवाहनेऽपि सपदि क्लममादधानौ ।
कान्ताववाङ्मनसगोचरसौकुमार्यौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ७ ॥

लक्ष्मीमहीतदनुरूपनिजानुभाव-
नीलादिदिव्यमहिषीकरपल्लवानाम् ।
आरुण्यसंक्रमणतः किल सान्द्ररागौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ८ ॥

नित्यानमद्विधिशिवादिकिरीटकोटि-
प्रत्युप्तदीप्तनवरत्नमहःप्ररोहैः ।
नीराजनाविधिमुदारमुपादधानौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ९ ॥

विष्णोः पदे परम इत्युदितप्रशंसौ
यौ मध्य उत्स इति भोग्यतयाऽप्युपात्तौ ।
भूयस्तथेति तव पाणितलप्रदिष्टौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १० ॥

पार्थाय तत्सदृशसारथिना त्वयैव
यौ दर्शितौ स्वचरणौ शरणं व्रजेति ।
भूयोऽपि मह्यमिह तौ करदर्शितौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ ११ ॥

मन्मूर्ध्नि कालियफणे विकटाटवीषु
श्रीवेंकटाद्रिशिखरे शिरसि श्रुतीनाम् ।
चित्तेऽप्यनन्यमनसां सममाहितौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १२ ॥

अम्लानहृष्यदवनीतलकीर्णपुष्पौ
श्री वेंकटाद्रिशिखराभरणायमानौ ।
आनन्दिताखिलमनोनयनौ तवैतौ
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १३ ॥

प्रायः प्रपन्नजनताप्रथमावगाह्यौ
मातुस्स्तनाविव शिशोरमृतायमानौ ।
प्राप्तौ परस्परतुलामतुलान्तरौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १४ ॥

सत्त्वोत्तरैस्सततसेव्यपदाम्बुजेन
संसारतारकदयार्द्रदृगञ्चलेन ।
सौम्योपयन्तुमुनिना मम दर्शितौ ते
श्रीवेंकटेश चरणौ शरणं प्रपद्ये ॥ १५ ॥

श्रीश श्रिया घटिकया त्वदुपायभावे
प्राप्ये त्वयि स्वयमुपेयतया स्फुरन्त्या ।
नित्याश्रिताय निरवद्यगुणाय तुभ्यं
स्यां किङ्करो वृषगिरीश न जातु माम् ॥ १६ ॥

इति श्रीवेंकटेशप्रपत्तिः

स्रोत · Source

श्रीवेङ्कतेशकाव्यकलापः, तिरुमलैतिरुपतिदेवस्थानमुद्रणालयः, तिरुपति, 1943
Ambuda — CC0 texts · Public domain
Sanskrit text from the Ambuda library (ambuda.org), released under CC0 1.0.

#venkateshastotrani

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान विष्णु पूजा बुक करें