🙏

अमरकविविरचित एकाक्षरी-कोशः

Amarakaviviracita Ekakshari Koshah

स्तोत्र · 🪷 भगवान विष्णु · Sanskrit · ⏱ 2 min

अन्य नाम · Also known as अमरकविविरचित एकाक्षरी-कोशः

Sanskrit text from Sanskrit Wikisource.

अक्षर का आकार

(१)
विश्वाभिधानकोशानि प्रविलोक्य प्रभाष्यते ।

अमरेण कवीन्द्रेणैकाक्षरनाममालिका ॥१॥

(२)

अः कृष्णः आः स्वयंभूरिः काम ई श्रीरुरीश्वरः ।

ऊ रक्षणः ऋ ऋ ज्ञेयौ देवदानवमातरौ ॥२॥

(३)
लर्देवसूर्ल्रूर्वाराही भवेदेर्विष्णुरैः शिवः ।

ओर्वेधा औरनंतः स्यादं ब्रह्म परम्अः शिवः ॥

(४)
को ब्रह्मात्मप्रकाशार्के कः स्याद्वायुयमाग्निषु।

कं शीर्षे सुसुखे कुस्तु भूमौ शब्दे च किं पुनः ॥

(५)
स्यात्क्षेपनिन्दयोः प्रश्ने वितर्के च खमिन्द्रिये ।

स्वर्ग्गे व्योम्नि मुखे शून्ये सुखे संविदि खो रवौ ॥

(६)
गस्तु गातरि गंधर्व्वे ज्ञायते गीतौ गो विनायके ।

स्वर्गे दिशि पशौ वज्रे भूमाविन्दौ जले गिरि ॥

(७)
घस्तु सुघटीशे घा किंकिष्या च घुर्ध्वनौ ।

ङं मञ्जने ङो वृषभेजिने चः चन्द्रचोरयोः ॥

(८)
चःसूर्ये कच्छपे छं तु निर्मले जस्तु जेतरि ।

विजये तेजसि वाचि पिशाच्यां जिः जवेऽपि च॥

(९)
झो नष्टे रवे वायौ ञो गायने घर्घरध्वनौ।

टं पृथिव्यां करटे च ठो ध्वनौ ठो महेश्वरे ।।

(१०)

शून्ये बृहध्वनौ चंद्रमंङले डं शिवे ध्वनौ ।

ढो भये निर्गुणे शब्दे ढक्कायां णस्तु निश्चये ॥

(११
ज्ञाने तस्तस्करे क्रोडपुंच्छयोस्ता पुनर्दया।

थो भीत्राणे महीध्रे दं पत्न्यां दा दातुदानयोः ॥

(१२)
बन्धे च धा गुह्ये केशे धातरि धीर्मतौ ।

धूर्भारकंपचिंतासु नौ नरे बन्धुबुद्धयोः ॥

(१३)
निस्तु नेतरि नुः स्तुत्यां नौः सूर्ये पस्तु पातरि ।

पावने जलयाने च फो झंझाजलफेनयोः ॥

(१४)
भाः कांतौ भूर्भुवः स्थाने भीर्भये मः शिवे विधौ ।

चंद्रे शिरसि मा माने श्रीमात्रौवारणेऽव्ययम् ॥

(१५)
मुः पुंसि बंधने यस्तु मातरिश्वनि यं यशः ।

यास्तु यातरि खट्वांगे याने लक्ष्म्यां च रो धृतौ ॥

(१६)
तीव्रे वैश्वानरे कामे राः स्वर्णे जलदे ध्वनौ ।

री भ्रमे रूर्भये सूर्ये लक्षण इंद्रे चलनेपि च ॥

(१७)
लं तैले लीः पुनः श्लेषे ली भये वो महेश्वरे ।

वः पश्चिमदिशास्वामी व इवार्थे स्मरेऽप्ययम् ॥

(१८)
शं शुभे शा तु शोभायाँ शी शयने शु निशाकरे ।

शः श्लिष्टे पुनर्गर्भे विमोक्षे शः परोक्षके ।।

(१९)
सा लक्ष्म्यां हो निपाते च हुस्ते दारुणि शूलिनि ।

शं क्षेत्ररक्षसीत्युक्ता माला प्राक्सूरिसम्मता ॥

इति एकाक्षरीनाममाला समाप्ता

स्रोत · Source

Sanskrit Wikisource, page "अमरकविविरचित एकाक्षरी-कोशः", revision 29400.
Sanskrit Wikisource · Creative Commons BY-SA
Text from Sanskrit Wikisource (sa.wikisource.org), used under CC BY-SA 4.0. Page history and contributors are linked from the source URL recorded with each text.

#wikisource

सम्बन्धित पाठ · Related reading

और स्तोत्रपुस्तकालयभगवान विष्णु पूजा बुक करें